View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.16 युद्धकांड - षोडश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ षोडशस्सर्गः ।

सुनिविष्टंहितंवाक्यमुक्तवंतंविभीषणम् ।
अब्रवीत्परुषंवाक्यंरावणःकालचोदितः ॥ 1 ॥

वसेत्सहसपत्नेनक्रुद्धेऽनाशीविषेणवा ।
नतुमित्रप्रवादेनसंवसेच्छत्रुसेविना ॥ 2 ॥

जानामिशीलंज्ञातीनांसर्वलोकेषुराक्षसः ।
हृष्यंतिव्यसनेष्वेतेज्ञातीनाज्ञातयस्सदा ॥ 3 ॥

प्रथानंसाधनंवैद्यंधर्मशीलंचराक्षसः ।
ज्ञातयोह्यवमन्यंतेशूरंपरिभवंतिच ॥ 4 ॥

नित्यमन्योन्यसम्हृष्टाव्यसनेष्वाततायिनः ।
प्रच्छन्नहृदयाघोराज्ञातयस्तुभयावहाः ॥ 5 ॥

श्रूयंतेहस्तिभिर्गीताश्श्लोकाःपद्मवनेक्वचित् ।
पाशहस्तान्नरांद्रुष्टवाशृणुतान्गदतोमम ॥ 6 ॥

नाग्निर्नान्यानिशस्त्राणिननःपाशाभयावहाः ।
घोरास्स्वार्थप्रयुक्तास्तुज्ञातयोनोभयावहाः ॥ 7 ॥

उपायमेतेवक्ष्यंतिग्रहणेनात्रसंशयः ।
कृत्स्नाद्भयाद् ज्ञातिभयंसुकष्टंविदितंचन ॥ 8 ॥

विद्यतेगोषुसंपन्नंविद्यतेब्राह्मणेदमः ।
विद्यतेस्त्रीषुचापल्यंविद्यतेज्ञातितोभयम् ॥ 9 ॥

ततोनेष्टमिदंसौम्ययदहंलोकसत्कृतः ।
ऐश्वर्यमभिजातश्चज्ञातीनांमूर्ध्न्यवस्थितः ॥ 10 ॥

यथापुष्करपत्रेषुपतितास्तोयबिंदवः ।
नश्लेषमभिगच्छंतितथाऽनार्येषुसंगतम् ॥ 11 ॥

यथामधुकरस्तर्षाद्रसंविंदन्नविद्यते ।
तथात्वमपितत्रैवतथानार्येषुसौहृदम् ॥ 12 ॥

यथापूर्वंगजस्स्नात्वागृह्यहस्तेनवैरजः ।
दूषयत्यात्मनोदेहंतथानार्येषुसंगतम् ॥ 13 ॥

यथाशरदिमेघानांसिंचतामपिगर्जताम् ।
नभवत्यंबुसंक्लेदस्तथाऽनार्येषुसौहृदम् ॥ 14 ॥

यथामधुकरस्तर्षात्काशपुष्पंपिबन्नपि ।
रसमत्रनविंदेततथानार्वेषुसौहृदम् ॥ 15 ॥

अन्यस्त्वेवंविधंब्रूयाद्वाक्यमेतन्निशाचरः ।
अस्मिन्मुहूर्तेनभवेत्त्वांतुधिक्कुलपांसन ॥ 16 ॥

अब्रवीच्चतदावाक्यंजातक्रोधोविभीषणः ।
अंतरिक्षगत्शीमान्भ्रातरंराक्षसाधिपम् ॥ 17 ॥

सत्वंभ्राताऽसिमेराजन्ब्रूहिमांयद्यदिच्छसि ।
ज्येष्टोमान्यःपितृसमोनचधर्मपथेस्थितः ॥ 18 ॥

इदंतुपरुषंवाक्यंनक्षमाम्यग्रजस्यते ।
सुनीतंहितकामेनवाक्यमुक्तंदशाननः ।
नगृह्णंत्यकृतात्मानःकालस्यवशमागताः ॥ 19 ॥

सुलभाःपुरुषराजन् सततंप्रियवादिनः ।
अप्रियस्यचपथ्यस्यवक्ताश्रोताचदुर्लभः ॥ 20 ॥

बद्धंकालस्यपाशेनसर्वभूतापहारिणा ।
ननश्यंतमुपेक्षेत्वांप्रदीप्तंशरणंयथा ॥ 21 ॥

दीप्तपावकसंकाशैश्शितैःकांचनभूषणैः ।
नत्वामिच्छाम्यहंद्रष्टुंरामेणनिहतंशरैः ॥ 22 ॥

शूराश्चबलवंतश्चकृतास्त्राश्चरणाजिरे ।
कालाभिपन्नास्सीदंतियथावालुकसेतव ॥ 23 ॥

तन्मर्षयतुयच्चोक्तंगुरुत्वाद्धितमिच्छता ॥ 24 ॥

अत्मानंसर्वथारक्षपुरींचेमांसराक्षसाम् ।
स्वस्तितेऽस्तुगमिष्यामिसुखीभवमयाविना ॥ 25 ॥

निवार्यमाणस्यमयाहितैषिणानरोचतेतेवचनंनिशाचरः ।
परीतकालाहिगतायुषोनराहितंनगृह्णंतिसुहृद्भिरीरितम् ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे षोडशस्सर्गः ॥




Browse Related Categories: