View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.24 युद्धकांड - चतुर्विंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ चतुर्विंशस्सर्गः ।

सावीरसमितीराज्ञाविरराजव्यवस्थिता ।
शशिनाशुभनक्षत्रापौर्णमासीवशारदी ॥ 1 ॥

प्रचचालचवेगेनत्रस्ताचैववसुंधरा ।
पीड्यमानाबलौघेनतेनसागरवर्चसा ॥ 2 ॥

ततश्शुश्रुवुराक्रुष्टंलंकायांकाननौकसः ।
भेरीमृदंगसंघुष्टंतुमुलंरोमहर्षणम् ॥ 3 ॥

बभूवुस्तेनघोषेणसंहृष्टाहरियूथपाः ।
अमृष्यमाणास्तंघोषंविनेदुर्घोषवत्तरम् ॥ 4 ॥

राक्षसास्तुप्लवंगानांशुश्रुवुश्चाऽपिगर्जितम् ।
नर्दतामिवदृप्तानांमेघानामंबरेस्वनम् ॥ 5 ॥

दृष्टवादाशरथिर्लंकांचित्रध्वजपताकिनीम् ।
जगाममनसासीतंदूयमानेनचेतसा ॥ 6 ॥

अत्रसामृगशाबाक्षीरावणेनोपरुध्यते ।
अभिभूताग्रहेणेवलोहितांगेनरोहिणी ॥ 7 ॥

दीर्घमुष्णंचनिश्वस्यसमुद्वीक्ष्यचलक्ष्मणम् ।
उवाचवचनंवीरस्तत्कालहितमात्मनः ॥ 8 ॥

आलिखंतीमिवाकाशमुत्थितांपश्यलक्ष्मण ।
मनसेवकृतांलंकांनगाग्रेविश्वकर्मणा ॥ 9 ॥

विमानैर्बहुभिर्लंकासंकीर्णाभुविराजते ।
विष्णोःपदमिवाकाशंछादितंपांडुभिर्घनैः ॥ 10 ॥

पुष्पितैश्शोभितालंकावनैश्चत्ररथोपमैः ।
नानापतगसंघुष्टैः फलपुष्पोपगैश्शुभैः ॥ 11 ॥

पश्यमत्तविहांगानिप्रलीनभ्रमराणिच ।
कोकिलाकुलषंडानिदोधवीतिशिवोऽनिलः ॥ 12 ॥

इतिदाशरथीरामोलक्ष्मणंसमभाषत ।
बलंचतद्वैविभजन् शास्त्रदृष्टेनकर्मणा ॥ 13 ॥

शशासकपिसेनायांबलमादायवीर्यवान् ।
अंगदस्सहनीलेनतिष्ठेदुरसिदुर्जयः ॥ 14 ॥

तिष्ठेद्वानरवाहिन्यावानरौघसमावृतः ।
आश्रित्यदक्षिणंपार्श्वमृषभोवानरर्षभः ॥ 15 ॥

गंधहस्तीवदुर्धर्षस्तरस्वीगंधमादनः ।
तिष्ठेद्वानरवाहिन्यास्सव्यंपार्श्वंसमाश्रितः ॥ 16 ॥

मूर्ध्निस्थास्याम्यहंयुक्तोलक्ष्मणेनसमन्वितः ।
जांबवांश्चसुषेणश्चवेगदर्शीचवानरः ॥ 17 ॥

ऋक्षमुख्यामहात्मानःकुक्षिंरक्षंतुतेत्रयः ।
जघनंकपिसेनायाःकपिराजोऽभिरक्षतु ।
पश्चार्धमिवलोकस्यप्रचेतास्तेजसावृतः ॥ 18 ॥

सुविभक्तमहाव्यूहामहावानररक्षिता ।
अनीकिनीसाविबभौयथाद्यौस्साभ्रसंप्लवा ॥ 19 ॥

प्रगृह्यगिरिशृंगाणिमहातश्चमहीरुहन् ।
लंकांविमर्दयिषवोरणे ॥ 20 ॥

शिखरैर्विकिरामैनांलंकांमुष्टभिरेववा ।
इतिस्मदधिरेसर्वेमनांसिहरिपुंगवाः ॥ 21 ॥

ततोरामोमहातेजास्सुग्रीवमिदमब्रवीत् ।
सुविभक्तानिसैन्यानिशुकएषविमुच्यताम् ॥ 22 ॥

रामस्यतुवचश्श्रुत्वावानरेंद्रोमहाबलः ।
मोचयामासतंदूतंशुकंरामस्यशासनात् ॥ 23 ॥

मोचितोरामवाक्येनवानरैश्चनिपीडितः ।
शुकःपरमसंत्रस्तोरक्षोधिपमुपागमत् ॥ 24 ॥

रावणःप्रहसन्नेवशुकंवाक्यमुवाचह ॥ 25 ॥

किमिमौतेसितौपक्षौलूनपक्षश्चदृश्यसे ।
कच्चिन्नानेकचित्तानांतेषांत्वंवशमागतः ॥ 26 ॥

ततस्सभयसंविग्नस्तदाराज्ञाभिचोदितः ।
वचनंप्रत्युवाचेदंराक्षसाधिपमुत्तमम् ॥ 27 ॥

सागरस्योत्तरेतीरेऽब्रवंतेवचनंतथा ।
यथासंधेशमक्लिष्टंसांत्वयन् श्लक्ष्णयागिरा ॥ 28 ॥

क्रुद्धैस्सैरहमुत्प्लुतदृष्टमात्रःप्लवंगमैः ।
गृहीतोऽस्म्यपिचारब्दोहंतुंलोप्तुंचमुष्टिभि ॥ 29 ॥

नैवसंभाषितुंशक्यास्संप्रश्नोऽत्रनलभ्यते ।
प्रकृत्याकोपनास्तीक्ष्णानानराराक्षसाधिप ॥ 30 ॥

सचहंताविराधस्यकबंधस्यखरस्यच ।
सुग्रीवसहितोरामस्सीतायाः पदमागतः ॥ 31 ॥

सकृत्वासागरेसेतुंतीर्त्वाचलवणोदधिम् ।
एषरक्षांसिनिर्दूयधन्वीतिष्ठतिराघवः ॥ 32 ॥

ऋक्षवानरसंघानामनीकानिसहस्रशः ।
गिरिमेघनिकाशानांछादयंतिवसुंधराम् ॥ 33 ॥

राक्षसानांबलौघस्यवानरेंद्रबलस्यच ।
नैतयोर्विद्यतेसंधिर्देवदानवयोरिव ॥ 34 ॥

पुराप्राकारमायांतिक्षिप्रमेकतरंकुरु ।
सीतांवास्मैप्रयच्छाशुसुयुद्धंवापिप्रदीयताम् ॥ 35 ॥

शुकस्यवचनंश्रुत्वारावणोवाक्यमब्रवीत् ।
रोषसंरक्तनयनोनिर्दहन्निनचक्षुषा ॥ 36 ॥

यदिमांप्रतियुध्येरन् देवगंधर्वदानवाः ।
नैवसीतांप्रदास्यामिसर्वलोकभयादपि ॥ 37 ॥

कदासमभिधावंतिराघवंमामकाश्शराः ।
वसंतेपुष्पितंमत्ताभ्रमराइवपादपम् ॥ 38 ॥

कदातूणीयशैर्दीप्तैर्गणशः कार्मुकच्युतैः ।
शरैरादीपयाम्येनमुल्काभिरिवकुंजरम् ॥ 39 ॥

तच्चास्यबलमादास्येबलेनमहतावृतः ।
ज्योतिषामिवसर्वेषांप्रभामुद्यंदिवाकरः ॥ 40 ॥

सागरस्येवमेवेगोमारुतस्येवमेगतिः ।
नहिदाशरथिर्वेदतेनमांयोद्धुमिच्छति ॥ 41 ॥

नमेतूणीशयान्बाणान् सविषानिवपन्नगान् ।
रामःपश्यतिसंग्रामेतेनमांयोध्दुमिच्छति ॥ 42 ॥

नजानातिपुरावीर्यममयुद्धेसराघवः ।
ममचापमयींवीणांशरकोणैःप्रवादिताम् ॥ 43 ॥

ज्याशब्दतुमुलांघोरामार्तभीतमहास्वनाम् ।
नाराचतलसन्नादांतांममाहितवाहिनीम् ॥ 44 ॥

अवगाह्यमहारंगंवादयिष्याम्यहंरणे ।
नवासवेनापिसहस्रचक्षुषायथास्मिशक्योवरुणेनवास्वयम् ।
यमेनवाधर्षयितुंशराग्निनामहाहवेवैश्रवणेनवापुनः ॥ 45 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे चतुर्विंशस्सर्गः ॥




Browse Related Categories: