View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.43 युद्धकांड - त्रिचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ त्रिचत्वारिंशस्सर्गः ।

युध्यतांतुततस्तेषांवानराणांमहात्मनाम् ।
रक्षसांसंबभूवाथबलकोपस्सुदारुणः ॥ 1 ॥

तेहयैःकांचनापीडैर्ध्वश्चाग्निशिखोपमैः ।
रथैश्चादित्यसंकाशैःकवचैश्चमनोरमैः ॥ 2 ॥

निर्ययूराक्षसव्याघ्रानादयंतोदिशोदश ।
राक्षसाभीमकर्माणोरावणस्यजयैषिणः ॥ 3 ॥

वानराणामपिचमूर्बृहतीजयमिच्छताम् ।
अभ्यधावततांसेनांरक्षसांकामरूपिणम् ॥ 4 ॥

एतस्मिन्नंतरेतेषामन्योन्यमभिधावताम् ।
रक्षसांवानराणांचद्वंद्वयुद्धमवर्तत ॥ 5 ॥

अंगदेंद्रजित्सार्धंवालिपुत्रेणराक्षसः ।
आयुध्यतमहातेजास्त्ऱ्यंबकेणयथाऽंतकः ॥ 6 ॥

प्रजंघेनचसंपातिर्नित्यंदुर्मर्षणोरणे ।
जंबुमालिनमारब्धोहनुमानपिवानरः ॥ 7 ॥

संगतस्तुमहाक्रोधोराक्षसोरावणानुजः ।
समरेतीक्ष्णवेगेनमित्रघ्नेनविभीषणः ॥ 8 ॥

तपनेनगजस्सार्धंराक्षसेनमहाबलः ।
निकुंभेनमहातेजानीलोऽपिसमयुध्यत ॥ 9 ॥

वानरेंद्रस्तुसुग्रीवःप्रघसेनसमागतः ।
संगतःसमरेश्रीमान्विरूपाक्षेणलक्ष्मणः ॥ 10 ॥

अग्निकेतुश्चसुदुर्धर्षोरश्मिकेतुश्चराक्षसः ।
सुप्तघ्नोयज्ञकोपश्चरामेणसहसंगताः ॥ 11 ॥

वज्रमुष्टिस्तुमैंदेनद्विविदेनाशनिप्रभः ।
राक्षसाभ्यांसुघोराभ्यांकपिमुख्यौसमागतौ ॥ 12 ॥

वीरह् प्रतपनो घोरो राक्षसो रण दुर्धरः ।
समरे तीक्ष्ण वेगेन नलेन समयुध्यत ॥ 13 ॥

धर्मस्य पुत्रो बलवान् सुषेण;इति विशरुतः ।
स विद्युन् मालिना सार्धं अयुध्यत महा कपिः ॥ 14 ॥

वानराश्चापरेभीमाराक्षसैरपरैस्सह ।
द्वंद्वंसमीयुस्सहसायुद्धायबहुभिस्सह ॥ 15 ॥

तत्रासीत्सुमहद्युद्धंतुमुलंरोमहर्षणम् ।
रक्षसांवानराणांचवीराणांजयमिच्छताम् ॥ 16 ॥

हरिराक्षसदेहेभ्यःप्रभूताःकेशशाद्वलाः ।
शरीरसंघाटावहाःप्रसुस्रुश्शोणितापगाः ॥ 17 ॥

अजघानेंद्रजित्क्रुद्धोवज्रेणेवशतक्रतुः ।
अंगदंगदयावीरंशत्रुसैन्यविदारणम् ॥ 18 ॥

तस्यकांचनचित्रांगंरथंसाश्वंससारथिम् ।
जघानसमरेश्रीमानंगदोवेगवान्कपिः ॥ 19 ॥

संपातिस्तुत्रिभिर्भाणैःप्रजंघेनसमाहतः ।
निजघानश्वकर्णेनप्रजंघंरणमूर्धनि ॥ 20 ॥

जंबुमालीरथस्थस्तुरथशक्त्यामहाबलः ।
बिबेदसमरेक्रुद्धोहनूमंतंस्तनांतरे ॥ 21 ॥

तस्यतंरथमास्थायहनूमान् मारुतात्मजः ।
प्रममाथतलेनाशुसहतेनैवरक्षसा ॥ 22 ॥

नदन् प्रतपनोघोरोनलंसोप्यन्वधावत ।
नलःप्रतपनस्याशुपातयामासचक्षुषी ॥ 23 ॥

भिन्नगात्रश्शरैस्तीक्ष्णैःक्षिप्रहस्तेनरक्षसा ।
ग्रसंतमिवसैन्यानिप्रघसंवानराधिपः ॥ 24 ॥

सुग्रीवस्सप्तपर्णेननिर्भिभेदजघानच ।
अग्निकेतुश्चदुर्धर्षोरश्मिकेतुश्चराक्षसः ॥ 25 ॥

सुप्तघ्नोयज्ञकोपश्चरामंनिर्भिभिदुश्शरैः ।
तेषांचतुर्णांरामस्तुशिरांसिनिशितैश्शरैः ।
क्रुद्धश्चतुर्भिश्चिच्छेदघोरैरग्निशिखोपमैः ॥ 26 ॥

वज्र मुष्टिस् तु मैंदेन मुष्टिना निहतो रणे ।
पपात सरथह् साशवह् पुराट्ट इव भू तले ॥ 27 ॥

निकुंबस्तुरणेनीलंनीलांजनचयप्रभम् ।
निर्बिभेदशरैस्तीक्ष्णैःकरैर्मेघमिवांशुमान् ॥ 28 ॥

पुनश्शरशतेनाथक्षिप्रहस्तोनिशाचरः ।
बिभेदसमरेनीलंनिकुंभःप्रजहासच ॥ 29 ॥

तस्यैवरथचक्रेणनीलोविष्णुरिवाहवे ।
शिरश्चिच्छेदसमरेनिकुंभस्यचसारथेः ॥ 30 ॥

वज्राशनिसमस्पर्शोद्विविदोऽप्यशनिप्रभम् ।
जघानगिरिशृंगेणमिषतांसर्वरक्षसाम् ॥ 31 ॥

द्विदिधंवानरेंद्रंतुनगयोधिनमाहवे ।
शरैरशनिसंकाशैस्सविव्याधाशनिप्रभः ॥ 32 ॥

सशरैरभिविद्धांगोद्विविदःक्रोधमूर्छितः ।
सालेनसरथंसाश्वंनिजघानाशनिप्रभम् ॥ 33 ॥

विद्युन्मालीरथस्थस्तुशरैःकांचनभूषणैः ।
सुषेणंताडयामासननादचमुहुर्मुहुः ॥ 34 ॥

तंरथस्थमथोदृष्टवासुषेणोवानरोत्तमः ।
गिरिशृंगेणमहतारथमाशुन्यपातयत् ॥ 35 ॥

लाघवेनतुसंयुक्तोविद्युन्मालीनिशाचरः ।
अपक्रम्यरथात्तूर्णंगदापाणिःक्षितौस्थितः ॥ 36 ॥

ततःक्रोधसमाविष्टःसुषेणोहरिपुंगवः ।
शिलांसुमहतींगृह्यनिशाचरमभिद्रवत् ॥ 37 ॥

तमापतंतंगदयाविद्युन्मालीनिशाचरः ।
वक्षस्यभिजघानाशुसुषेणंहरिपुंगवः ॥ 38 ॥

गदाप्रहारंतंघोरमच्नित्यप्लवगोत्तमः ।
तांशिलांपातयामासतस्योरसिमहामृधे ॥ 39 ॥

शिलाप्रहारभिहतोविद्युन्मालीनिशाचरः ।
निष्पिष्टहृदयोभूमौगतासुर्निपपातह ॥ 40 ॥

एवंतैर्वानरैश्शूरैश्शूरास्तेरजनीचराः ।
द्वंद्वेविमृदितास्तत्रदैत्याइवदिवौकसैः ॥ 41 ॥

भग्नैखडगैर्गदाभिश्चशक्तितोमरपट्टसैः ।
अपविद्धैश्चाभिन्नैश्चरथैस्सांग्रामिकैर्हयैः ॥ 42 ॥

निहतैःकुंजरैर्मत्स्सैस्तथावानरराक्षसैः ।
चक्राक्षयुगदंडैश्चभग्नैर्धरणिसंश्रितैः ॥ 43 ॥

बभूवायोधनंघोरंगोमायुगणसेवितम् ।
कबंधानिसमुत्पेतुर्दिक्षुवानररक्षसाम् ॥ 44 ॥

विमर्देतुमुलेतस्मिंदेवासुररणोपमे ।
विदार्यमाणाहरिपुंगवैस्तदानिशाचराश्शोणितदिग्धगात्राः ।
पुनःसुयुद्धंतरसासमास्थितादिवाकरस्यास्तमयाभिकांक्षिणः ॥ 45 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे त्रिचत्वारिंशस्सर्गः ॥




Browse Related Categories: