View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.68 युद्धकांड - अष्टषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ अष्टषष्टितमस्सर्गः ।

कुंभकर्णंहतंदृष्टवाराघवेणमहात्मना ।
राक्षसाराक्षसेंद्रायरावणायन्यवेदयन् ॥ 1 ॥

राजन् स कालसंकाशस्संयुक्तःकालकर्मणा ।
विद्राव्यवानरींसेनांभक्षयित्वा च वानरान् ॥ 2 ॥

प्रतपित्वा मुहूर्तंतुप्रशांतोरामतेजसा ।
कायेनार्थप्रविष्टेनसमुद्रंभीमदर्शनम् ॥ 3 ॥

निकृत्तकंठोरुभुजोविक्षरन्रुधिरंबहु ।
रुद्ध्वाद्वारंशरीरेणलंकायाःपर्वतोपमः ॥ 4 ॥

कुंभकर्णस्तव भ्राता काकुत्थ्सशरपीडितः ।
लगंडभूतो विकृतो दावदग्ध इव द्रुमः ॥ 5 ॥

तंश्रुत्वाविनिहतंसंख्येकुंभकर्णंमहाबलम् ।
रावणश्शोकसंतप्तोमुमोह च पपात च ॥ 6 ॥

पितृव्यंनिहतंश्रुत्वादेवांतकनरांतकौ ।
त्रिशिराश्चातिकायश्चरुरुदुश्शोकपीडिताः ॥ 7 ॥

भ्रातरंनिहतंश्रुत्वारामेणाक्लिष्टकर्मणा ।
महोदरमहापार्श्वौशोकाक्रांतौबभूवतुः ॥ 8 ॥

ततःकृच्छ्रात्समासाद्यसंज्ञांराक्षसपुंगवः ।
कुंभकर्णवधाद्दीनोविललापकुलेंद्रियः ॥ 9 ॥

हावीर रिपुदर्पघ्न कुंभकर्ण महाबल ।
त्वंमांविहायवैदैवाद्यातोऽसियमसादनम् ॥ 10 ॥

ममशल्यमनुद्धृत्यबांधवानांमहाबल ।
शत्रुसैन्यंप्रताप्यैकस्त्वंमांसंत्यज्यगच्छसि ॥ 11 ॥

इदानींखल्वहंनास्मियस्यमेदक्षिणोभुजः ।
पतितोयंसमाश्रित्य न बिभेमिसुरासुरान् ॥ 12 ॥

कथमेवंविधोवीरोदेवदानवदर्पहा ।
कालाग्निरुद्राप्रतिमोरणेराघवेणवैहतः ॥ 13 ॥

यस्यतेवज्रनिष्पेषो न कुर्वाद्व्यसनंसदा ।
स कथंरामबाणार्तंप्रसुप्तोऽसिमहीतले ॥ 14 ॥

एतेदेवगणास्सार्थमृषिभिर्गगनेस्थिताः ।
निहतंत्वांरणेदृष्टवानिनदंतिप्रहर्षिताः ॥ 15 ॥

ध्रुवमद्यैवसंहृष्टालब्धलक्षाःप्लवंगमाः ।
आरोक्ष्यंतीहदुर्गाणिलंकाद्वाराणिसर्वशः ॥ 16 ॥

राज्येननास्तिमेकार्यंकिंकरिष्यामिसीतया ।
कुंभकर्णविहीनस्यजीवितेनास्तिमेमतिः ॥ 17 ॥

यद्यहंभ्रातृहंतारं न हन्मियुधिराघवम् ।
ननुमेमरणंश्रेयो न चेदंव्यर्थजीवितम् ॥ 18 ॥

अद्यैवतंगमिष्यामिदेशंयत्रानुजोमम ।
न हिभ्रातृन् समुत्सृज्यक्षणंजीवितमुत्सहे ॥ 19 ॥

देवाहिमांहसिष्यंतिदृष्टवापूर्वापकारिणम् ।
कथमिंद्रंजयिष्यामिकुंभकर्ण हतेत्वयि ॥ 20 ॥

तदिदंमामनुप्राप्तंविभीषणवचश्शुभम् ।
यदज्ञानान्मयातस्य न गृहीतंमहात्मनः ॥ 21 ॥

विभीषणवचोयावत्कुंभकर्णप्रहस्तयोः ।
विनाशोऽयंसमुत्पन्नोमांव्रीडयतिदारुणः ॥ 22 ॥

तस्यायंकर्मणःप्राप्तोविपाकोममशोकदः ।
यन्मयाधार्मिकश्शमान् स निरस्तोविभीषणः ॥ 23 ॥

इतिबहुविधमाकुलांतरात्माकृपणमतीवविलप्यकुंभकर्णम् ।
न्यपदथदशाननोभृशार्तस्तमनुजमिंद्ररिपुंहतंविदित्वा ॥ 24 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे अष्टषष्टितमस्सर्गः ॥




Browse Related Categories: