View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.83 युद्धकांड - त्र्याशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ त्र्याशीतितमस्सर्गः ।

राघवश्चापिविपुलंतंराक्षसवनौकसाम् ।
श्रुत्वासंग्रामनिर्घोषंजांबवंतमुवाच ह ॥ 1 ॥

सौम्यनूनंहनुमताकृतंकर्मसुदुष्करम् ।
श्रूयते च यथाभीमस्सुमहावायुधस्वनः ॥ 2 ॥

तद्गच्छकुरुसाहाय्यंस्वबलेनाभिसम्वृतः ।
क्षिप्रमक्षपतेतस्यकपिश्रेष्ठस्ययुध्यतः ॥ 3 ॥

ऋक्षराक्षस्तथोक्तस्तुस्वेनानीकेनसम्वृतः ।
आगच्छत्पश्चिमद्वारंहनूमान्यत्रवानरः ॥ 4 ॥

अथायांतंहनूमंतंददर्शर्क्षपतिपथि ।
वानरैःकृतसंग्रामैश्श्वसद्भिरभिसम्वृतम् ॥ 5 ॥

दृष्टापथिहनूमांश्चतदृक्षबलमुद्यतम् ।
नीलमेघनिभंभीमंसन्निवार्यन्यवर्तत ॥ 6 ॥

स तेनसहसैन्येनसन्निकर्षंमहायशाः ।
शीघ्रमागम्यरामायदुःखितोवाक्यमब्रवीत् ॥ 7 ॥

समरेयुध्यमानानामस्माकंप्रेक्षतांपुरः ।
जघानरुदतींसीतामिंद्रजिद्रावणात्मजः ॥ 8 ॥

उद्भ्रांतचित्तस्तांदृष्टवाविषण्णोऽहमरिंदमः ।
तदहंभवतोवृतंविज्ञापयितुमागतः ॥ 9 ॥

तस्यतद्वचनंश्रुत्वाराघवश्शोकमूर्चितः ।
निपपाततदाभूमौछिन्नमूलंइवद्रुमः ॥ 10 ॥

तंभूमौदेवसंकाशंपतितंदृश्यराघवम् ।
अभिपेतुस्समुत्पत्यसर्वतःकपिसत्तमाः ॥ 11 ॥

आसिंचन् सलिलैश्चैनंपद्मोत्पलसुगंधिभिः ।
प्रदहंतमानासाद्यंसहसाग्निमिवोद्यतम् ॥ 12 ॥

तंलक्ष्मणोऽथबाहुभ्यांपरिष्वज्यसुदुःखितः ।
उवाचराममस्वस्थंवाक्यंहेत्वर्थसम्युतम् ॥ 13 ॥

शुभेवर्त्मनितिष्ठंतंत्वामार्यविजितेंद्रियम् ।
अनर्थेभ्यो न शक्नोतित्रातुंधर्मोनिरर्थकः ॥ 14 ॥

भूतानांस्थावाराणां च जंगमानां च दर्शनम् ।
यथास्ति न तथाधर्मस्तेननास्तीतिमेमतिः ॥ 15 ॥

यथैवस्थावरंव्यक्तंजंगमं न तथाविधम् ।
नायमर्थस्तथायुक्तस्त्वद्विधो न विपद्यते ॥ 16 ॥

यद्यधर्मोभवेद्भूतोरावणोनरकंव्रजेत् ।
भवांश्चधर्मसम्युक्तोनैवंव्यसनमाप्नुयात् ॥ 17 ॥

तस्य च व्यसनाभावाद्व्यसनंचागतेत्वयि ।
धर्मोभवत्यधर्मश्चपरस्परविरोधिनौ ॥ 18 ॥

धर्मेणोपलभेद्धर्ममधर्मंचाप्यधर्मतः ।
यद्यधर्मेणयुज्येयुर्येष्वधर्मःप्रतिष्ठितः ॥ 19 ॥

यदिधर्मेणवियुज्येरन्नधर्मरुचयोजनाः ।
धर्मेणचरतांधर्मंचैषांधर्मफलंभवेत् ॥ 20 ॥

यस्मादर्थाविवर्धंतेयेष्वधर्मःप्रतिष्ठितः ।
क्लिश्यंतेधर्मशीलाश्चतस्मादेतौनिरर्थकौ ॥ 21 ॥

वध्यंतेपापकर्माणोयद्यधर्मेणराघव ।
वधकर्महतोऽधर्मः स हतःकिंवधिष्यति ॥ 22 ॥

अथवाविहितेनायंहन्यतेहंतिवापरम् ।
विधिरालिप्यतेतेन न स पापेनकर्मणा ॥ 23 ॥

अदृष्टप्रतिकारेणत्वव्यक्तेनासतासता ।
कथंशक्यंपरंप्राप्तुंधर्मेणारिविकर्षण ॥ 24 ॥

यदिसत्स्यात्सतांमुख्यनासत्स्यत्तवकिंचन ।
त्वयायदीदृशंप्राप्तंतस्मात्सन्नोपपद्यते ॥ 25 ॥

बलस्य यदि चेद्धर्मो गुणभूतः पराक्रमे ।
धर्ममुत्सृज्य वर्तस्व यथा धर्मे तथा बले ॥ 26 ॥

बलस्ययदिचेद्धर्मोगुणभूतःपराक्रमे ।
धर्ममुत्सृज्यवर्तस्वयथाधर्मेतथाबले ॥ 27 ॥

अथचेत्सत्यवचनंधर्मः किलपरंतप ।
अनृतस्त्वय्यकरुणःकिं न बद्धस्त्वयापिता ॥ 28 ॥

अधर्मसंश्रितो धर्मो विनाशयति राघव ।
सर्वमेतद्यथाकामं काकुत्स्थ कुरुते नरः ॥ 29 ॥

अधर्मसंश्रितोधर्मोविनाशयतिराघव ।
सर्वमेतद्यथाकामंकाकुत्स्थकुरुतेनरः ॥ 30 ॥

ममचेदंमतंतातधरोऽयमितिराघव ।
धर्ममूलंत्वयाछिन्नंराज्यमुत्सृजतातदा ॥ 31 ॥

अर्थेभ्योहिप्रवृद्धेभ्यःसम्वृत्तेभ्यस्ततस्ततः ।
क्रियाःसर्वाःप्रवर्तंतेपर्वतेभ्यःइवापगाः ॥ 32 ॥

अर्थेनहिविमुक्तस्यपुरुषस्याल्पचेतसः ।
विच्छिद्यंतेक्रियास्सर्वाग्रीष्मेकुसरितोयथा ॥ 33 ॥

सोऽयमर्थंपरित्यज्यसुखकामःसुखैधितः ।
पापमारभतेकर्तुंतदादोषःप्रवर्तते ॥ 34 ॥

यस्यार्थास्तस्यमित्राणियस्यार्थास्यस्यबांधवाः ।
यस्यार्थास्सपुमान्लोकेयस्यार्थाः स च पंडितः ॥ 35 ॥

यस्यार्थास्स च विक्रांतोयस्यार्थास्स च बुद्धिमान् ।
यस्यार्थास्समहाभागोयस्यार्थास्समहागुणः ॥ 36 ॥

अर्थस्यैतेपरित्यागेदोषाःप्रव्याहृतामया ।
राज्यमुत्सृजतावीरयेनबुद्धिस्त्वयाकृता ॥ 37 ॥

यस्यार्थाःधर्मकामार्थास्तस्यसर्वंप्रदक्षिणम् ।
अधनेनार्थकामेननार्थश्शक्योविचिन्वता ॥ 38 ॥

हर्षःकामश्चदर्पश्चधर्मःक्रोधश्शमोदमः ।
अर्थादेतानिसर्वाणिप्रवर्तंतेनराधिप ॥ 39 ॥

येषांनश्यत्ययंलोकश्चरतांधर्मचारिणाम् ।
तेऽर्थास्त्वयि न दृश्यंतेदुर्दिनेषुयथाग्रहाः ॥ 40 ॥

त्वयिप्रव्रजितेवीरगुरोश्चवचनेस्थिते ।
रक्षसापहृताभार्याप्राणैःप्रियतरातव ॥ 41 ॥

तदद्यविपुलंवीरदुःखमिंद्रजिताकृतम् ।
कर्मणाव्यपनेष्यामितस्मादुत्तिष्ठराघव ॥ 42 ॥

उत्थिष्ठनरशार्दूलदीर्घबाहोधृतव्रत ।
किमात्मानंमहात्मानंमात्मानं न बुध्यसे ॥ 43 ॥

अयमनघतवोदितःप्रियार्थंजनकसुतानिधनंनिरीक्ष्यरुष्टः ।
सरथगजहयांसराक्षसेंद्रांभृशमिषुभिर्विनिपातयामिलंकाम् ॥ 44 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे त्र्याशीतितमस्सर्गः ॥




Browse Related Categories: