View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.108 युद्धकांड - अष्टाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ अष्टाधिकशततमस्सर्गः ।

स रथंसारथिःहृष्टंपरसैन्यप्रधर्षणम् ।
गंधर्वनगराकारंसमुच्छ्रितपाताकिनम् ॥ 1 ॥

युक्तंपरमसंपन्नैर्वजिभिर्हेममालिभिः ।
युद्धोपकरणैःपूर्णंपताकाध्वजमालिनीम् ॥ 2 ॥

ग्रसंतमिवचाकाशंनादयंतंवसुंधराम् ।
प्रणाशंपरनैन्यानांस्वनैन्यस्यप्रहर्षणम् ॥ 3 ॥

रावणस्यरथंक्षिप्रंचोदयामाससारथिः ।
समापतंतंसहसास्वनवंतंमहाध्वजम् ॥ 4 ॥

रथंराक्षसराजस्यनरराजोददर्श ह ।
कृष्णवाजिसमायुक्तंयुक्तंरौद्रेणवर्चसा ॥ 5 ॥

दीप्यमानमिवाकाशेविमानंसूर्यवर्चसम् ।
तडित्पताकागहनंदर्शितेंद्रायुधप्रभम् ॥ 6 ॥

शराधाराविमुंचंतंधारासारमिवांबुदम् ।
तंदृष्टवामेघसंकाशमापतंतंरथंरिपोः ॥ 7 ॥

गिरेर्वज्राभिमृष्टस्यदीर्यतस्सदृशस्वनम् ।
विस्पारयन्वैवेगेनबालचंद्रानतंधनुः ॥ 8 ॥

उवाचसारथिंरामंसहस्राक्षस्यमातलिम् ।
मातलेपश्यसम्रद्धमापतंतंरथंरिपोः ॥ 9 ॥

यथापसव्यंपततावेगेनमहतापुनः ।
समरेहंतुमात्मानंतथानेनकृतामतिः ॥ 10 ॥

तदप्रमादमातिष्ठन्प्रत्युद्गच्छरथंरिपोः ।
विध्वंसयितुमिच्छामिवायुर्मेघमिवोत्थितम् ॥ 11 ॥

अविक्लबमसंभ्रांतमव्यग्रहृदयेक्षणम् ।
रमशिसंचारनियंप्रचोदयरथंद्रुतम् ॥ 12 ॥

कामं न त्वंसमाधेयःपुरंदररथोचितः ।
युयुत्सुरहमेकाग्रःस्मारयेत्वां न शिक्ष्ये ॥ 13 ॥

परितुष्टः स रामस्यतेनवाक्येनमातलिः ।
प्रचोदयामासरथंसुरसारथिरुत्तमः ॥ 14 ॥

अपसव्यंततःकुर्वन् रावणस्यमहारथम् ।
चक्रसंभूतरसारावणंव्यवदूनयन् ॥ 15 ॥

ततःक्रुद्धोदशग्रीवस्ताम्रविस्फारितेक्षणः ।
रथप्रतिमुखंरामंसायकैरवधूनयत् ॥ 16 ॥

धर्षणामर्षितोरामोधैर्यंरोषेणलंभयन् ।
जग्राहसुमहावेगमैंद्रंयुधिशरासनम् ॥ 17 ॥

शरांश्चसुमहावेगान्सूर्यरश्मिसमप्रभान् ।
तदुपोढुंमहद्युद्धमन्योन्यवधकांक्षिणोः ॥ 18 ॥

परस्पराभिमुखयोर्दृप्तयोरिवसिंहयोः ।
ततोदेवास्सगंधर्वास्सिद्धाश्चपरमर्षयः ॥ 19 ॥

समीयुर्द्वैरथंद्रष्टुंरावणक्षयकांक्षिणः ।
वर्षरुधिरंदेवोरावणस्यरधोपरि ॥ 20 ॥

वातामंडलिनस्त्रीव्राह्यपसव्यंप्रचक्रमुः ।
महत् गृध्रकुलंचास्यभ्रममाणंनभस्तले ॥ 21 ॥

येनयेनरथोयातितेनतेनप्रधावति संध्ययाचावृतालंकाजपापुष्पनिकाशया ॥ 22 ॥

दृश्यतेसंप्रदीप्तेवदिवसेऽपिवसुंधरा ।
सनिर्घातामहोल्काश्चसंप्रपेतुर्महास्वनाः ॥ 23 ॥

विषादयंस्तेरक्षांसिरावणस्यतदाहिताः ।
रावणश्चयतस्तत्रप्रचचालवसुंधरा ॥ 24 ॥

रक्षसां च प्रहरतांगृहीताइवबाहवः ।
ताम्राःपीतास्सिताश्वेताःपतितास्सूर्यरश्मयः ॥ 25 ॥

दृश्यंतेरावणस्याग्रेपर्वतस्येवधातवः ।
गृध्रैरनुगताश्चास्यवमंत्योज्वलनंमुखैः ॥ 26 ॥

प्रणेदुर्मुखमीक्षंत्यःसम्रद्धमशिवंशिवाः ।
प्रतिकूलंववेवायूरणेपांसून् समुकतिरन् ॥ 27 ॥

तस्यराक्षसराजस्यकुर्वंदृष्टिविलोपनम् ।
निपेतुरिंद्राशनयस्सैन्येचाप्यसमंततः ॥ 28 ॥

दुर्विषह्यस्वनाघोरंविनाजलधरोदयम् ।
दिशश्चप्रदिशस्सर्वाबभूवुस्तिमिरावृताः ॥ 29 ॥

पांसुवर्षेणमहतादुर्दर्शं च नभोऽभवत् ।
कुर्वंतः कलहंघोरंशारिकास्तद्रथंप्रति ॥ 30 ॥

निपेतुश्शतशस्तत्रदारुणादारुणारुताः ।
जघनेभ्यःस्फुलिंगांश्चनेत्रेभ्योऽश्रूणिसंततम् ॥ 31 ॥

मुमुचुस्तस्यतुरगास्तुल्यमग्नि च वारि च ।
एवंप्रकाराबहवस्समुत्पाताभयापहाः ॥ 32 ॥

रावणस्यविनाशायदारुणाःसंप्रजज्ञिरे ।
रामस्यापिनिमित्तानिसौम्यानि च शिवानि च ॥ 33 ॥

बभूवुर्जयशंसीनिप्रादुर्भूतानिसर्वशः ।
निमित्तानि च सौम्यानिराघवःस्वजयायवै ॥ 34 ॥

दृष्टवापरमसम्हृष्टोहतंमेने च रावणम् ।
ततोनिरीक्ष्यात्मगतानिराघवोरणेनिमित्तानिनिमित्तकोविदः ।
जगामहर्षं च परां च निर्वृतिंचकारयुद्धेह्यधिक च विक्रमम् ॥ 35 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे अष्टाधिकशततमस्सर्गः ॥




Browse Related Categories: