View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.42 अयोध्याकांड - द्विचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ द्विचत्वारिंशस्सर्गः ।

यावत्तु निर्यतस्तस्य रजोरूपमदृश्यत ।
नैवेक्ष्वाकुवरस्तावत्संजहारात्मचक्षुषी ॥ 1 ॥

यावद्राजा प्रियं पुत्रं पश्यत्यत्यंतधार्मिकम् ।
तावद्व्यवर्धते वास्य धरण्यां पुत्रदर्शने ॥ 2 ॥

न पश्यति रजोऽप्यस्य यदा रामस्य भूमिपः ।
तदाऽऽर्तश्च विषण्णश्च पपात धरणीतले ॥ 3 ॥

तस्य दक्षिणमन्वागात्कौसल्या बाहुमंगना ।
वामं चास्यान्वगात्पार्श्वं कैकेयी भरतप्रिया ॥ 4 ॥

तां नयेन च संपन्नो धर्मेण विनयेन च ।
उवाच राजा कैकेयीं समीक्ष्य व्यथितेंद्रियः ॥ 5 ॥

कैकेयि मा ममांगानि स्प्राक्षीस्त्वं दुष्टचारिणी ।
न हि त्वां द्रष्टुमिच्छामि न भार्या न च बांधवी ॥ 6 ॥

ये च त्वामनुजीवंति नाहं तेषां न ते मम ।
केवलार्थपरां हि त्वां त्यक्तधर्मां त्यजाम्यहम् ॥ 7 ॥

अगृह्णां यच्च ते पाणिमग्निं पर्यणयं च यत् ।
अनुजानामि तत्सर्वमस्मिन् लोके परत्र च ॥ 8 ॥

भरतश्चेत्प्रतीतः स्याद्राज्यं प्राप्येदमव्ययम् ।
यन्मे स दद्यात्पित्रर्थं मामां तद्दत्तमागमत् ॥ 9 ॥

अथ रेणुसमुध्वस्तं समुत्थाप्य नराधिपम् ।
न्यवर्तत तदा देवी कौशल्या शोककर्शिता ॥ 10 ॥

हत्वेव ब्राह्मणं कामात् स्पृष्ट्वाग्निमिव पाणिना ।
अन्वतप्यत धर्मात्मा पुत्रं संचिंत्य तापसम् ॥ 11 ॥

निवृत्त्यैव निवृत्त्यैव सीदतो रथवर्त्मसु ।
राज्ञो नातिबभौ रूपं ग्रस्तस्यांशुमतो यथा ॥ 12 ॥

विललाप च दुःखार्तः प्रियं पुत्रमनुस्मरन् ।
नगरांतमनुप्राप्तं बुध्वा पुत्रमथाब्रवीत् ॥ 13 ॥

वाहननां च मुख्यानां वहतां तं ममात्मजम् ।
पदानि पथि दृश्यंते स महात्मा न दृश्यते ॥ 14 ॥

यः सुखेषूपधानेषु शेते चंदनरूषितः ।
वीज्यमानो महार्हाभिः स्त्रीभिर्मम सुतोत्तमः ॥ 15 ॥

स नूनं क्वचिदेवाद्य वृक्षमूलमुपाश्रितः ।
काष्ठं वा यदि वाश्मानमुपधाय शयिष्यते ॥ 16 ॥

उत्थास्यति च मेदिन्याः कृपणः पांसुकुंठितः ।
विनिश्श्वसन् प्रस्रवणात्करेणूनामिवर्षभः ॥ 17 ॥

द्रक्ष्यंति नूनं पुरुषा दीर्घबाहुं वनेचराः ।
राममुत्थाय गच्छंतं लोकनाथमनाथवत् ॥ 18 ॥

सा नूनं जनकस्येष्टा सुता सुखसदोचिता ।
कंटकाक्रमणाक्लांता वनमद्य गमिष्यति ॥ 19 ॥

अनभिज्ञा वनानां सा नूनं भयमुपैष्यति ।
श्वापदानर्दितं श्रुत्वा गंभीरं रोमहर्षणम् ॥ 20 ॥

सकामा भव कैकेयि विधवा राज्यमावस ।
न हि तं पुरुषव्याघ्रं विना जीवितुमुत्सहे ॥ 21 ॥

इत्येवं विलपन् राजा जनौघेनाभिसंवृतः ।
अपस्नात इवारिष्टं प्रविवेश पुरोत्तमम् ॥ 22 ॥

शून्यचत्वरवेश्मांतां संवृतापणदेवताम् ।
क्लांतदुर्बलदुःखार्तां नात्याकीर्णमहापथाम् ॥ 23 ॥

तामवेक्ष्य पुरीं सर्वां राममेवानुचिंतयन् ।
विलपन् प्राविशद्राजा गृहं सूर्य इवांबुदम् ॥ 24 ॥

महाह्रदमिवाक्षोभ्यं सुपर्णेन हृतोरगम् ।
रामेण रहितं वेश्म वैदेह्या लक्ष्मणेन च ॥ 25 ॥

अथ गद्गदशब्दस्तु विलपन्मनुजाधिपः ।
उवाच मृदुमंदार्थं वचनं दीनमस्वरम् ॥ 26 ॥

कौशल्यायां गृहं शीघ्रं राममातुर्नयंतु माम् ।
न ह्यन्यत्र ममाश्वासो हृदयस्य भविष्यति ॥ 27 ॥

इति ब्रुवंतं राजानमनयन् द्वारदर्शिनः ।
कौशल्याया गृहं तत्र न्यवेश्यत विनीतवत् ॥ 28 ॥

ततस्तस्य प्रविष्टस्य कौशल्याया निवेशनम् ।
अधिरुह्यापि शयनं बभूव लुलितं मनः ॥ 29 ॥

पुत्रद्वयविहीनं च स्नुषयापि विवर्जितम् ।
अपश्यद्भवनं राजा नष्टचंद्रमिवांबरम् ॥ 30 ॥

तच्च दृष्ट्वा महाराजो भुजमुद्यम्य वीर्यवान् ।
उच्चैस्स्वरेण चुक्रोश हा राघव जहासि माम् ॥ 31 ॥

सुखिता बत तं कालं जीविष्यंति नरोत्तमाः ।
परिष्वजंतो ये रामं द्रक्ष्यंति पुनरागतम् ॥ 32 ॥

अथ रात्र्यां प्रपन्नायां कालरात्र्यामिवात्मनः ।
अर्धरात्रे दशरथः कौशल्यामिदमब्रवीत् ॥ 33 ॥

रामं मेऽनुगता दृष्टिरद्यापि न निवर्तते ।
न त्वा पश्यामि कौसल्ये साधु मां पाणिना स्पृश ॥ 34 ॥

तं राममेवानुविचिंतयंतं समीक्ष्य देवी शयने नरेंद्रम् ।
उपोपविश्याधिकमार्तरूपा विनिश्वसंती विललाप कृच्छ्रम् ॥ 35 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे द्विचत्वारिंशस्सर्गः ॥




Browse Related Categories: