श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ षट्सप्ततितमस्सर्गः ।
तमेवं शोकसंतप्तं भरतं कैकयी सुतम् ।
उवाच वदतां श्रेष्ठो वसिष्ठ श्श्रेष्ठवागृषिः ॥ 1 ॥
अलं शोकेन भद्रं ते राजपुत्र महायशः ।
प्राप्तकालं नरपतेः कुरु संयानमुत्तमम् ॥ 2 ॥
वसिष्ठस्य वच श्शृत्वा भरतो धारणां गतः ।
प्रेतकार्याणि सर्वाणि कारयामास धर्मवित् ॥ 3 ॥
उद्धृतं तैलसंरोधात्सतु भूमौ निवेशितम् ।
आपीतवर्णवदनं प्रसुप्तमिव भूमिपम् ॥ 4 ॥
संवेश्य शयने चाग्य्रे नानारत्नपरिष्कृते ।
ततो दशरथं पुत्रो विललाप सुदुःखितः ॥ 5 ॥
किं ते व्यवसितं राजन् प्रोषिते मय्यनागते ।
विवास्य रामं धर्मज्ञं लक्ष्मणं च महाबलम् ॥ 6 ॥
क्व यास्यसि महाराज हित्वेमं दुःखितं जनम् ।
हीनं पुरुषसिंहेन रामेणाक्लिष्टकर्मणा ॥ 7 ॥
योगक्षेमं तु ते राजन् कोऽस्मिन्कल्पयिता पुरे त्वयि प्रयाते स्वस्तात रामे च वनमाश्रिते ॥ 8 ॥
विधवा पृथिवी राजन् स्त्वया हीना न राजते ।
हीनचंद्रेव रजनी नगरी प्रतिभाति मा ॥ 9 ॥
एवं विलपमानं तं भरतं दीनमानसम् ।
अब्रवीद्वचनं भूयो वसिष्ठस्तु महामुनिः ॥ 10 ॥
प्रेतकार्याणि यान्यस्य कर्तव्यानि विशां पतेः ।
तान्यव्यग्रं महाबाहो क्रियांतामविचारितम् ॥ 11 ॥
तथेति भरतो वाक्यं वसिष्ठस्याभिपूज्य तत् ।
ऋत्विक्पुरोहिताचार्यान् स्त्वरयामास सर्वशः ॥ 12 ॥
ये त्वग्नयो नरेंद्रेस्य चाग्न्यगाराद्बहिष्कृताः ।
ऋत्विग्भिर्याजकैश्चैव ते आह्रियंत यथाविधि ॥ 13 ॥
शिबिकायामथाऽरोप्य राजानं गतचेतसम् ।
बाष्पकंठा विमनसस्तमूहुः परिचारकाः ॥ 14 ॥
हिरण्यं च सुवर्णं च वासांसि विविधानि च ।
प्रकिरंतो जना मार्गं नृपतेरग्रतो ययुः ॥ 15 ॥
चंदनागरुनिर्यासान् सरलं पद्मकं तथा ।
देवदारूणि चाहृत्य क्षेपयंति तथापरे ॥ 16 ॥
गंधानुच्चावचांश्चान्यां स्तत्र गत्वाथ भूमिपम् ।
तत्र संवेशयामासुश्चितामध्ये तमृत्विजः ॥ 17 ॥
तदा हुताशनं हुत्वा जेपुस्तस्य तदृत्विजः ।
जगुश्च ते यथाशास्त्र तत्र सामानि सामगाः ॥ 18 ॥
शिबिकाभिश्च यानैश्च यथार्हं तस्य योषितः ।
नगरा न्निर्ययुस्तत्र वृद्धैः परिवृता स्तदा ॥ 19 ॥
प्रसव्यं चापि तं चकुः ऋत्विजोऽग्निचितं नृपम् ।
स्त्रियश्च शोकसंतप्ताः कौसल्याप्रमुखास्तदा ॥ 20 ॥
क्रौंचीनामिव नारीणां निनादस्तत्र शुश्रुवे ।
आर्तानां करुणं काले क्रोशंतीनां सहस्रशः ॥ 21 ॥
ततो रुदंत्यो विवशाविलप्य च पुनः पुनः ।
यानेभ्यस्सरयूतीरमवतेरुर्वरांगनाः ॥ 22 ॥
कृत्वोदकं ते भरतेन सार्धं नृपांगना मंत्रिपुरोहिता श्च ।
पुरंप्रविश्याश्रुपरीतनेत्राः भूमौ दशाहं व्यनयंत दुःखम् ॥ 23 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे षट्सप्ततितमस्सर्गः ॥