View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.11 अरण्यकांड - एकादश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ एकादशस्सर्गः ।

अग्रतः प्रययौ रामस्सीता मध्ये सुमध्यमा ।
पृष्ठतस्तु धनुष्पाणिर्लक्ष्मणोऽनुजगाम ह ॥ 1 ॥

तौ पश्यमानौ विविधान् शैलप्रस्थान्वनानि च ।
नदीश्च विविधा रम्या जग्मतुस्सीतया सह ॥ 2 ॥

सारसांश्चक्रवाकांश्च नदीपुलिनचारिणः ।
सरांसि च सपद्मानि युक्तानि जलजैः खगैः ॥ 3 ॥

यूथबद्धांश्च पृषतान्मदोन्मत्तान् विषाणिनः ।
महिषांश्च वराहांश्च नागांश्च द्रुमवैरिणः ॥ 4 ॥

ते गत्वा दूरमध्वानं लंबमाने दिवाकरे ।
ददृशुस्सहिता रम्यं तटाकं योजनायतम् ॥ 5 ॥

पद्मपुष्करसंबाधं गजयूथैरलंकृतम् ।
सारसैर्हंसकादंबैस्संकुलं जलचारिभिः ॥ 6 ॥

प्रसन्नसलिले रम्ये तस्मिन्सरसि शुश्रुवे ।
गीतवादित्रनिर्घोषो न तु कश्चन दृश्यते ॥ 7 ॥

ततः कौतूहलाद्रामो लक्ष्मणश्च महाबलः ।
मुनिं धर्मभृतं नाम प्रष्टुं समुपचक्रमे ॥ 8 ॥

इदमत्यद्भुतं श्रुत्वा सर्वेषां नो महामुने ।
कौतूहलं महज्जातं किमिदं साधु कथ्यताम् ॥ 9 ॥

वक्तव्यं यदि चेदविप्र नातिगुह्यमपि प्रभो ।
तेनैवमुक्तो धर्मात्मा राघवेण मुनिस्तदा ॥ 10 ॥

प्रभवं सरसः कृत्स्नमाख्यातुमुपचक्रमे ।
इदं पंचाप्सरो नाम तटाकं सार्वकालिकम् ॥ 11 ॥

निर्मितं तपसा राम मुनिना मांडकर्णिना ।
स हि तेपे तपस्तीव्रं मांडकर्णिर्महामुनिः ॥ 12 ॥

दशवर्षसहस्राणि वायुभक्षो जलाश्रयः ।
ततः प्रव्यथितास्सर्वे देवास्साग्निपुरोगमाः ॥ 13 ॥

अब्रुवन् वचनं सर्वे परस्परसमागताः ।
अस्माकं कस्यचित् स्थानमेष प्रार्थयते मुनिः ॥ 14 ॥

इति संविग्नमनसस्सर्वे ते त्रिदिवौकसः ।
तत्र कर्तुं तपोविघ्नं देवैस्सर्वैर्नियोजिताः ॥ 15 ॥

प्रधानाप्सरसः पंच विद्युच्चलितवर्चसः ।
अप्सरोभिस्ततस्ताभिर्मुनिर्दृष्टपरावरः ॥ 16 ॥

नीतो मदनवश्यत्वं सुराणां कार्यसिद्धये ।
ताश्चैवाप्सरसः पंच मुनेः पत्नीत्वमागताः ॥ 17 ॥

तटाके निर्मितं तासामस्मिन्नंतर्हितं गृहम् ।
तथैवाप्सरसः पंच निवसंत्यो यथासुखम् ॥ 18 ॥

रमयंति तपोयोगान्मुनिं यौवनमास्थितम् ।
तासां संक्रीडमानानामेष वादित्रनिस्स्वनः ॥ 19 ॥

श्रूयते भूषणोन्मिश्रो गीतशब्दो मनोहरः ।
आश्चर्यमिति तस्यैतद्वचनं भावितात्मनः ॥ 20 ॥

राघवः प्रतिजग्राह सह भ्रात्रा महायशाः ।
एवं कथयमानस्य ददर्शाश्रममंडलम् ॥ 21 ॥

कुशचीरपरिक्षिप्तं ब्राह्म्या लक्ष्म्या समावृतम् ।
प्रविश्य सह वैदेह्या लक्ष्मणेन च राघवः ॥ 22 ॥

उवास मुनिभिस्सर्वैः पूज्यमानो महायशाः ।
तदा तस्मिन्सकाकुत्थ्सः श्रीमत्याश्रममंडले ॥ 23 ॥

उषित्वा तु सुखं तत्र पूज्यमानो महर्षिभिः ।
जगाम चाश्रमांस्तेषां पर्यायेण तपस्विनाम् ॥ 24 ॥

येषामुषितवान् पूर्वं सकाशे स महास्त्रवित् ।
क्वचित्परिदशान्मासानेकं संवत्सरं क्वचित् ॥ 25 ॥

क्वचिच्छ चतुरो मासान् पंच षट्चापरान्क्वचित् ।
अपरत्राधिकं मासादप्यर्धमधिकं क्वचित् ॥ 26 ॥

त्रीन्मासानष्टमासांश्च राघवो न्यवसत्सुखम् ।
तथा संवसतस्तस्य मुनीनामाश्रमेषु वै ॥ 27 ॥

रमतश्चानुकूल्येन ययुस्संवत्सरा दश ।
परिवृत्य च धर्मज्ञो राघवस्सह सीतया ॥ 28 ॥

सुतीक्ष्णस्याश्रमं श्रीमान्पुनरेवाजगाम ह ।
स तमाश्रममासाद्य मुनिभिः प्रतिपूजितः ॥ 29 ॥

तत्रापि न्यवसद्रामः कंचित्कालमरिंदमः ।
तदाश्रमस्थो विनयात्कदाचित्तं महामुनिम् ॥ 30 ॥

उपासीनस्सकाकुत्स्थस्सुतीक्ष्णमिदमब्रवीत् ।
अस्मिन्नरण्ये भगवानगस्त्यो मुनिसत्तमः ॥ 31 ॥

वसतीति मया नित्यं कथाः कथयतां श्रुतम् ।
न तु जानामि तं देशं वनस्यास्य महत्तया ॥ 32 ॥

कुत्राश्रमपदं रम्यं महर्षेस्तस्य धीमतः ।
प्रसादात्तत्र भवतस्सानुजस्सह सीतया ॥ 33 ॥

अगस्त्यमभिगच्छेयमभिवादयितुं मुनिम् ।
मनोरथो महानेष हृदि मे परिवर्तते ॥ 34 ॥

यद्यहं तं मुनिवरं शुश्रूषेयमपि स्वयम् ।
इति रामस्य स मुनिश्श्रुत्वा धर्मात्मनो वचः ॥ 35 ॥

सुतीक्ष्णः प्रत्युवाचेदं प्रीतो दशरथात्मजम् ।
अहमप्येतदेव त्वां वक्तुकामस्सलक्ष्मणम् ॥ 36 ॥

अगस्त्यमभिगच्छेति सीतया सह राघव ।
दिष्ट्या त्विदानीमर्थेऽस्मिन् स्वयमेव ब्रवीषि माम् ॥ 37 ॥

अहमाख्यामि ते वत्स यत्रागस्त्यो महामुनिः ।
योजनान्याश्रमात्तात याहि चत्वारि वै ततः ॥ 38 ॥

दक्षिणेन महान् श्रीमानगस्त्यभ्रातुराश्रमः ।
स्थलप्राये वनोद्देशे पिप्पलीवनशोभिते ॥ 39 ॥

बहुपुष्पफले रम्ये नानाशकुनिनादिते ।
पद्मिन्यो विविधास्तत्र प्रसन्नसलिलाश्शिवाः ॥ 40 ॥

हंसकारंडवाकीर्णाश्चक्रवाकोपशोभिताः ।
तत्रैकां रजनीं व्युष्य प्रभाते राम गम्यताम् ॥ 41 ॥

दक्षिणां दिशमास्थाय वनषंडस्य पार्श्वतः ।
तत्रागस्त्याश्रमपदं गत्वा योजनमंतरा ॥ 42 ॥

रमणीये वनोद्धेशे बहुपादपसंवृते ।
रंस्यते तत्र वैदेही लक्ष्मणश्च सह त्वया ॥ 43 ॥

स हि रम्यो वनोद्देशो बहुपादपसंकुलः ।
यदि बुद्धिः कृता द्रष्टुमगस्त्यं तं महामुनिम् ॥ 44 ॥

अद्यैव गमने बुद्धिं रोचयस्व महायशः ।
इति रामो मुनेश्श्रुत्वा सह भ्रात्राभिवाद्य च ॥ 45 ॥

प्रतस्थेऽमुद्दिश्य सानुजस्सीतया सह ।
पश्यन्वनानि रम्याणि पर्वतांश्चाभ्रसन्निभान् ॥ 46 ॥

सरांसि सरितश्चैव पथि मार्गवशानुगाः ।
सुतीक्ष्णेनोपदिष्टेन गत्वा तेन पथा सुखम् ॥ 47 ॥

इदं परमसंहृष्टो वाक्यं लक्ष्मणमब्रवीत् ।
एतदेवाश्रमपदं नूनं तस्य महात्मनः ॥ 48 ॥

अगस्त्यस्य मुनेर्भ्रातुर्दृश्यते पुण्यकर्मणः ।
यथा हि मे वनस्यास्य ज्ञाताः पथि सहस्रशः ॥ 49 ॥

सन्नताः फलभारेण पुष्पभारेण च द्रुमाः ।
पिप्पलीनां च पक्वानां वनादस्मादुपागतः ॥ 50 ॥

गंधोऽयं पवनोक्षिप्तस्सहसा कटुकोदयः ।
तत्र तत्र च दृश्यंते संक्षिप्ताः काष्ठसंचयाः ॥ 51 ॥

लूनाश्च पथि दृश्यंते दर्भा वैडूर्यवर्चसः ।
एतच्च वनमध्यस्थं कृष्णाभ्रशिखरोपमम् ॥ 52 ॥

पावकस्याश्रमस्थस्य धूमाग्रं संप्रदृश्यते ।
विविक्तेषु च तीर्थेषु कृतस्नाना द्विजातयः ॥ 53 ॥

पुष्पोपहारं कुर्वंति कुसुमैस्स्वयमर्जितै ।
तत्सुतीक्ष्णस्य वचनं यथा सौम्य मया श्रुतम् ॥ 54 ॥

अगस्त्यस्याश्रमो भ्रातुर्नूनमेष भविष्यति ।
निगृह्य तपसा मृत्युं लोकानां हितकाम्यया ॥ 55 ॥

यस्य भ्रात्रा कृतेयं दिक्छरण्या पुण्यकर्मणा ।
धारयन् ब्राह्मणं रूपमिल्वलस्संस्कृतं वदन् ॥ 56 ॥

आमंत्रयति विप्रान्स्मश्राद्धमुद्दिश्य निर्घृणः ।
भ्रातरं संस्कृतं कृत्वा ततस्तं मेषरूपिणम् ॥ 57 ॥

तान् द्विजान्भोजयामास श्राद्धदृष्टेन कर्मणा ।
ततो भुक्तवतां तेषां विप्राणामिल्वलोऽब्रवीत् ॥ 58 ॥

वातापे निष्क्रमन्वेति स्वरेण महता वदन् ।
ततो भ्रातुर्वचश्श्रुत्वा वातापिर्मेषवन्नदन् ॥ 59 ॥

भित्त्वा भित्त्वा शरीराणि ब्राह्मणानां विनिष्पतत् ।
ब्राह्माणानां सहस्राणि तैरेवं कामरूपिभिः ॥ 60 ॥

विनाशितानि संहत्य नित्यशः पिशिताशनैः ।
अगस्त्येन तदा देवैः प्रार्थितेन महर्षिणा ॥ 61 ॥

अनुभूय किल श्राद्धे भक्षितस्समहासुरः ।
ततस्संपन्नमित्युक्त्वा दत्त्वा हस्तोदकं ततः ॥ 62 ॥

भ्रातरं निष्क्रमस्वेति चेल्वलस्सोऽभ्यभाषत ।
स तं तथा भाषमाणं भ्रातरं विप्रघातिनम् ॥ 63 ॥

अब्रवीत्प्रहसंधीमानगस्त्यो मुनिसत्तमः ।
कुतो निष्क्रमितुं शक्तिर्मया जीर्णस्य रक्षसः ॥ 64 ॥

भ्रातुस्ते मेषरूपस्य गतस्य यमसादनम् ।
अथ तस्य वचश्श्रुत्वा भ्रातुर्निधनसंश्रयम् ॥ 65 ॥

प्रधर्षयितुमारेभे मुनिं क्रोधान्निशाचरः ।
सोऽभिद्रवन्मुनिश्रेष्ठं मुनिना दीप्ततेजसा ॥ 66 ॥

चक्षुषानलकल्पेन निर्दग्धो निधनं गतः ।
तस्यायमाश्रमो भ्रातुस्तटाकवनशोभितः ॥ 67 ॥

विप्रानुकंपया येन कर्मेदं दुष्करं कृतम् ।
एवं कथयमानस्य तस्य सौमित्रिणा सह ।
रामस्यास्तं गतस्सूर्यस्संध्याकालोऽभ्यवर्ततः ॥ 68 ॥

उपास्य पश्चिमां संध्यां सह भ्रात्रा यथाविधि ।
प्रविवेशाऽश्रमपदं तमृषिं सोऽभ्यवादयत् ॥ 69 ॥

सम्यक् प्रतिगृहीतश्च मुनिना तेन राघवः ।
न्यवसत्तां निशामेकां प्राश्य मूलफलानि च ॥ 70 ॥

तस्यां रात्य्रां व्यतीतायां विमले सूर्यमंडले ।
भ्रातरं तमगस्त्यस्य ह्यामंत्रयत राघवः ॥ 71 ॥

अभिवादये त्वां भगवन् सुखमध्युषितो निशाम् ।
आमंत्रये त्वां गच्छामि गुरुं ते द्रष्टुमग्रजम् ॥ 72 ॥

गम्यतामिति तेनोक्तो जगाम रघुनंदनः ।
यथोद्दिष्टेन मार्गेण वनं तच्चावलोकयन् ॥ 73 ॥

नीवारान्पनसांस्तालांस्तिमिशान्वंचुलांधवान् ।
चिरिबिल्वान्मधूकांश्च बिल्वानपि च तिंदुकान् ॥ 74 ॥

पुष्पितान्पुष्पिताग्राभिर्लताभिरनुवेष्टितान् ।
ददर्श रामश्शतशस्तत्र कांतारपादपान् ॥ 75 ॥

हस्तिहस्तैर्विमृदितान्वानरैरुपशोभितान् ।
मत्तैश्शकुनिसंघैश्च शतशश्च प्रणादितान् ॥ 76 ॥

ततोऽब्रवीत्समीपस्थं रामो राजीवलोचनः ।
पृष्ठतोऽनुगतं वीरं लक्ष्मणं लक्ष्मिवर्धनम् ॥ 77 ॥

स्निग्धपत्रा यथा वृक्षा यथा क्षांता मृगद्विजाः ।
आश्रमो नातिदूरस्थो महर्षेर्भावितात्मनः ॥ 78 ॥

अगस्त्य इति विख्यातो लोके स्वेनैव कर्मणा ।
आश्रमो दृश्यते तस्य परिश्रांतश्रमापहः ॥ 79 ॥

प्राज्यधूमाकुलवनश्चीरमालापरिष्कृतः ।
प्रशांतमृगयूथश्च नानाशकुनिनादितः ॥ 80 ॥

तस्येदमाश्रमपदं प्रभावाद्यस्य राक्षसैः ।
दिगियं दक्षिणा त्रासाद्दृश्यते नोपभुज्यते ॥ 81 ॥

यदा प्रभृति चाक्रांता दिगियं पुण्यकर्मणा ।
तदा प्रभृति निर्वैराः प्रशांता रजनीचराः ॥ 82 ॥

नाम्ना चेयं भगवतो दक्षिणा दिक्प्रदक्षिणा ।
प्रथिता त्रिषु लोकेषु दुर्धर्षा क्रूरकर्मभिः ॥ 83 ॥

मार्गं निरोद्धुं निरतो भास्करस्याचलोत्तमः ।
निदेशं पालयन्यस्य विंध्यशैला न वर्धते ॥ 84 ॥

अयं दीर्घायुषस्तस्य लोके विश्रुतकर्मणः ।
अगस्त्यस्याश्रम श्रीमान्विनीतजनसेवितः ॥ 85 ॥

एष लोकार्चितस्साधुर्हिते नित्यरतस्सताम् ।
अस्मानभिगतानेष श्रेयसा योजयिष्यति ॥ 86 ॥

आराधयिष्याम्यत्राहमगस्त्यं तं महामुनिम् ।
शेषं च वनवासस्य सौम्य वत्स्याम्यहं प्रभो ॥ 87 ॥

अत्र देवास्सगंधर्वास्सिद्धाश्च परमर्षयः ।
अगस्त्यं नियताहारं सततं पर्युपासते ॥ 88 ॥

नात्र जीवेन्मृषावादी क्रूरो वा यदि वा शठः ।
नृशंसः कामवृत्तो वा मुनिरेष तथाविधः ॥ 89 ॥

अत्र देवाश्च यक्षाश्च नागाश्च पतगैस्सह ।
वसंति नियताहारा धर्ममाराधयिष्णवः ॥ 90 ॥

अत्र सिद्धा महात्मानो विमानैजस्सूर्यसन्निभैः ।
त्यक्तदेहा नवैर्देहैः स्वर्याताः परमर्षयः ॥ 91 ॥

यक्षत्वममरत्वं च राज्यानि विविधानि च ।
अत्र देवाः प्रयच्छंति भूतैराराधिताश्शुभैः ॥ 92 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे एकादशस्सर्गः ॥




Browse Related Categories: