View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.13 अरण्यकांड - त्रयोदश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ त्रयोदशस्सर्गः ।

राम प्रीतोऽस्मि भद्रं ते परितुष्टोऽस्मि लक्ष्मण ।
अभिवादयितुं यन्मां प्राप्तौ स्थ स्सह सीतया ॥ 1 ॥

अध्वश्रमेण वां खेदो बाधते प्रचुरश्रमः ।
व्यक्तमुत्कंठते वापि मैथिली जनकात्मजा ॥ 2 ॥

एषा हि सुकुमारी च दुःखैश्च न विमानिता ।
प्राज्यदोषं वनं प्राप्ता भर्तृस्नेहप्रचोदिता ॥ 3 ॥

यथैषा रमते राम इह सीता तथा कुरु ।
दुष्करं कृतवत्येषा वने त्वामनुगच्छती ॥ 4 ॥

एषा हि प्रकृतिः स्त्रीणामासृष्टे रघुनंदन ।
समस्थमनुरज्यांति विषमस्थं त्यजंति च ॥ 5 ॥

शतह्रदानां लोलत्वं शस्त्राणां तीक्ष्णतां तथा ।
गरूडानिलयोश्शैघ्र्यमनुगच्छंति योषितः ॥ 6 ॥

इयं तु भवतो भार्या दोषैरेतैर्विवर्जिता ।
श्लाघ्या च व्यपदेश्या च यथा देवी ह्यरुंधती ॥ 7 ॥

अलंकृतोऽयं देशश्च यत्र सौमित्रिणा सह ।
वैदेह्या चानया राम वत्स्यसि त्वमरिंदम ॥ 8 ॥

एवमुक्तस्समुनिना राघवस्संयतांजलिः ।
उवाच प्रश्रितं वाक्यमृषिं दीप्तमिवानलम् ॥ 9 ॥

धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुंगवः ।
गुणैस्सभ्रातृभार्यस्य वरदः परितुष्यति ॥ 10 ॥

किंतु व्यादिश मे देशं सोदकं बहुकाननम् ।
यत्राश्रमपदं कृत्वा वसेयं निरतस्सुखम् ॥ 11 ॥

ततोऽब्रवीन्मुनिश्रेष्ठश्श्रुत्वा रामस्य तद्वचः ।
ध्यात्वा मुहूर्तं धर्मात्मा धीरो धीरतरं वचः ॥ 12 ॥

इतो द्वियोजने तात बहुमूलफलोदकः ।
देशो बहुमृगश्श्रीमान्पंचवट्यभिविश्रुतः ॥ 13 ॥

तत्र गत्वाऽऽश्रमपदं कृत्वा सौमित्रिणा सह ।
रमस्व त्वं पितुर्वाक्यं तथोक्तमनुपालयन् ॥ 14 ॥

कालोऽयं गतभूयिष्ठो यः काल स्तव राघव ।
समयो यो नरेंद्रेण कृतो दशरथेन ते ॥ 15 ॥

तीर्णप्रतिज्ञः काकुत्स्थ सुखं राज्ये निवत्स्यसि ।
धन्यस्ते जनको राम स राजा रघुनंदन ॥ 16 ॥

यस्त्वया ज्येष्ठपुत्रेण ययातिरिव तारितः ।
विदितो ह्येष वृत्तांतो मम सर्वस्तवानघ ॥ 17 ॥

तपसश्च प्रभावेण स्नेहाद्दशरथस्य च ।
हृदयस्थश्च ते छंदो विज्ञातस्तपसा मया ॥ 18 ॥

इहावासं प्रतिज्ञाय मया सह तपोवने ।
अतश्च त्वामहं ब्रूमि गच्छ पंचवटीमिति ॥ 19 ॥

स हि रम्यो वनोद्देशो मैथिली तत्र रंस्यते ।
स देशश्श्लाघनीयश्च नातिदूरे च राघव ॥ 20 ॥

गोदावर्यास्समीपे च मैथिली तत्र रंस्यते ।
प्राज्यमूलफलश्चैव नानाद्विजगणायुतः ॥ 21 ॥

विविक्तश्च महाबाहो पुण्योरम्यस्तथैव च ।
भवानपि सदारश्च शक्तश्च परिरक्षणे ।
अपि चात्र वसन्राम तापसान्पालयिष्यसि ॥ 22 ॥

एतदालक्ष्यते वीर मधूकानां महद्वनम् ।
उत्तरेणास्य गंतव्यं न्यग्रोधमभिगच्छता ॥ 23 ॥

ततः स्थलमुपारुह्य पर्वतस्याविदूरतः ।
ख्यातः पंचवटीत्येव नित्यपुष्पितकाननः ॥ 24 ॥

अगस्त्येनैवमुक्तस्तु रामस्सौमित्रिणा सह ।
सत्कृत्यामंत्रयामास तमृषिं सत्यवादिनम् ॥ 25 ॥

तौ तु तेनाभ्यनुज्ञातौ कृतपादाभिवंदनौ ।
तदाश्रमात्पंचवटीं जग्मतुस्सीतया सह ॥ 26 ॥

गृहीतचापौ तु नराधिपात्मजौ विषक्ततूणौ समरेष्वकातरौ ।
यथोपदिष्टेन पथा महर्षिणा प्रजग्मतुः पंचवटीं समाहितौ ॥ 27 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे त्रयोदशस्सर्गः ॥




Browse Related Categories: