View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.61 अरण्यकांड - एकषष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ एकषष्टितमस्सर्गः ।

दृष्ट्वाश्रमपदं शून्यं रामो दशरथात्मजः ।
रहितां पर्णशालां च विध्वस्तान्यासनानि च ॥ 1 ॥

अदृष्ट्वा तत्र वैदेहीं सन्निरीक्ष्य च सर्वशः ।
उवाच रामः प्राक्रुश्य प्रगृह्य रुचिरौ भुजौ ॥ 2 ॥

क्व नु लक्ष्मण वैदेही कं वा देशमितो गता ।
केनाहृता वा सौमित्रे भक्षिता केन वा प्रिया ॥ 3 ॥

वृक्षेणाच्छाद्य यदि मां सीते हसितुमिच्छसि ।
अलं ते हसितेनाद्य मां भजस्व सुदुःखितम् ॥ 4 ॥

यैस्सह क्रीडसे सीते विश्वस्तैर्मृगपोतकैः ।
एते हीनास्त्वया सौम्ये ध्यायंत्यस्राविलेक्षणाः ॥ 5 ॥

सीतया रहितोऽहं वै न हि जीवामि लक्ष्मण ।
मृतं शोकेन महता सीताहरणजेन माम् ॥ 6 ॥

परलोके महाराजो नूनं द्रक्ष्यति मे पिता ।
कथं प्रतिज्ञां संश्रुत्य मया त्वमभियोजितः ॥ 7 ॥

अपूरयित्वा तं कालं मत्सकाशमिहागतः ।
कामवृत्तमनार्यं मां मृषावादिनमेव च ॥ 8 ॥

धिक्त्वामिति परे लोके व्यक्तं वक्ष्यति मे पिता ।
विवशं शोकसंतप्तं दीनं भग्नमनोरथम् ॥ 9 ॥

मामिहोत्सृज्य करुणं कीर्तिर्नरमिवानृजुम् ।
क्व गच्छसि वरारोहे मां नोत्सृज सुमध्यमे ॥ 10 ॥

त्वया विरहितश्चाहं मोक्ष्ये जीवितमात्मनः ।
इतीव विलपन्रामस्सीतादर्शनलालसः ॥ 11 ॥

न ददर्श सुदुःखार्तो राघवो जनकात्मजाम् ।
अनासादयमानं तं सीतां दशरथात्मजम् ॥ 12 ॥

पंकमासाद्य विपुलं सीदंतमिव कुंजरम् ।
लक्ष्मणो राममत्यर्थमुवाच हितकाम्यया ॥ 13 ॥

मा विषादं महाबाहो कुरु यत्नं मया सह ।
इदं च हि वनं शूर बहुकंदरशोभितम् ॥ 14 ॥

प्रियकाननसंचारा वनोन्मत्ता च मैथिली ।
सा वनं वा प्रविष्टा स्यान्नलिनीं वा सुपुष्पिताम् ॥ 15 ॥

सरितं वापि संप्राप्ता मीनवंजुलसेविताम् ।
स्नातुकामा निलीना स्याद्धासकामा वने क्वचित् ॥ 16 ॥

वित्रासयितुकामा वा लीना स्यात्कानने क्वचित् ।
जिज्ञासमाना वैदेही त्वां मां च पुरुषर्षभ ॥ 17 ॥

तस्याह्यन्वेषणे श्रीमन् क्षिप्रमेव यतावहे ।
वनं सर्वं विचिनुवो यत्र सा जनकात्मजा ॥ 18 ॥

मन्यसे यदि काकुत्स्थ मा स्म शोके मनः कृथाः ।
एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन समाहितः ॥ 19 ॥

सह सौमित्रिणा रामो विचेतुमुपचक्रमे ।
तौ वनानि गिरींश्चैव सरितश्च सरांसि च ॥ 20 ॥

निखिलेन विचिन्वानौ सीतां दशरथात्मजौ ।
तस्य शैलस्य सानूनि गुहाश्च शिखराणि च ॥ 21 ॥

निखिलेन विचिन्वानौ नैव तामभिजग्मतुः ।
विचित्य सर्वतश्शैलं रामो लक्ष्मणमब्रवित् ॥ 22 ॥

नेह पश्यामि सौमित्रे वैदेहीं पर्वते शुभाम् ।
ततो दुःखाभिसंतप्तो लक्ष्मणो वाक्यमब्रवीत् ॥ 23 ॥

विचरंदंडकारण्यं भ्रातरं दीप्ततेजसम् ।
प्राप्स्यसि त्वं महाप्राज्ञ मैथिलीं जनकात्मजाम् ॥ 24 ॥

यथा विष्णुर्महाबाहुर्बलिं बद्ध्वा महीमिमाम् ।
एवमुक्तस्तु सौहार्दाल्लक्ष्मणेन स राघवः ॥ 25 ॥

उवाच दीनया वाचा दुःखाभिहतचेतनः ।
वनं सर्वं सुविचितं पद्मिन्यः फुल्लपंकजाः ॥ 26 ॥

गिरिश्चायं महाप्राज्ञ बहुकंदरनिर्झरः ।
न हि पश्यामि वैदेहीं प्राणेभ्योऽपि गरीयसीम् ॥ 27 ॥

एवं स विलपन्रामस्सीताहरणकर्शितः ।
दीनश्शोकसमाविष्टो मुहूर्तं विह्वलोऽभवत् ॥ 28 ॥

संतप्तो ह्यवसन्नांगो गतबुद्धिर्विचेतनः ।
निषसादातुरो दीनो निश्श्वस्याशीतमायतम् ॥ 29 ॥

बहुलं स तु निश्श्वस्य रामो राजीवलोचनः ।
हा प्रियेति विचुक्रोश बहुशो बाष्पगद्गदः ॥ 30 ॥

तं ततस्सांत्वयामास लक्ष्मणः प्रियबांधवः ।
बहुप्रकारं धर्मज्ञः प्रश्रितं प्रश्रितांजलिः ॥ 31 ॥

अनादृत्य तु तद्वाक्यं लक्ष्मणोष्ठपुटाच्च्युतम् ।
अपश्यंस्तां प्रियां सीतां प्राक्रोशत्स पुनः पुनः ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे एकषष्टितमस्सर्गः ॥




Browse Related Categories: