View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.7 अरण्यकांड - सप्तम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ सप्तमस्सर्गः ।

रामस्तु सहितो भ्रात्रा सीतया च परंतपः ।
सुतीक्ष्णस्याश्रमपदं जगाम सह तैर्द्विजैः ॥ 1 ॥

स गत्वा दीर्घमध्वानं नदीस्तीर्त्वा बहूदकाः ।
ददर्श विमलं शैलं महामेघमिवोन्नतम् ॥ 2 ॥

तत स्तदिक्ष्वाकुवरौ संततं विविधैर्द्रुमैः ।
काननं तौ विविशतुस्सीतया सह राघवौ ॥ 3 ॥

प्रविष्टस्तु वनं घोरं बहुपुष्पफलद्रुमम् ।
ददर्शाश्रममेकांते चीरमालापरिष्कृतम् ॥ 4 ॥

तत्र तापसमासीनं मलपंकजटाधरम् ।
रामस्सुतीक्ष्णं विधिवत्तपोवृद्धमभाषत ॥ 5 ॥

रामोऽहमस्मि भगवन्भवंतं द्रष्टुमागतः ।
त्वं माभिवद धर्मज्ञ महर्षे सत्यविक्रम ॥ 6 ॥

स निरीक्ष्य ततो धीरो रामं धर्मभृतां वरम् ।
समाश्लिष्य च बाहुभ्यामिदं वचनमब्रवीत् ॥ 7 ॥

स्वागतं ते रघुश्रेष्ठ राम सत्यभृतां वर ।
आश्रमोऽयं त्वयाक्रांतस्सनाथ इव सांप्रतम् ॥ 8 ॥

प्रतीक्षमाणस्त्वामेव नारोहेऽहं महायशः ।
देवलोकमितो वीर देहं त्यक्त्वा महीतले ।
चित्रकूटमुपादाय राज्यभ्रष्टोऽसि मे श्रुतः ॥ 9 ॥

इहोपयातः काकुत्थ्स देवराजश्शतक्रतुः ॥ 10 ॥

उपागम्य च मे देवो महादेवस्सुरेश्वरः ।
सर्वान् लोकांजितानाह मम पुण्येन कर्मणा ॥ 11 ॥

तेषु देवर्षिजुष्टेषु जितेषु तपसा मया ।
मत्प्रसादात्सभार्यस्त्वं विहरस्व सलक्ष्मणः ॥ 12 ॥

तमुग्रतपसायुक्तं महर्षिं सत्यवादिनम् ।
प्रत्युवाचात्मवान्रामो ब्रह्माणमिव काश्यपः ॥ 13 ॥

अहमेवाहरिष्यामि सर्वान् लोकान्महामुने ।
आवासं त्वहमिच्छामि प्रदिष्टमिह कानने ॥ 14 ॥

भवान्सर्वत्र कुशलस्सर्वभूतहिते रतः ।
आख्यातश्शरभंगेण गौतमेन महात्मना ॥ 15 ॥

एवमुक्तस्तु रामेण महर्षिर्लोकविश्रुतः ।
अब्रवीन्मधुरं वाक्यं हर्षेण महताऽप्लुतः ॥ 16 ॥

अयमेवाश्रमो राम गुणवान्रम्यतामिह ।
ऋषिसंघानुचरितस्सदा मूलफलैर्युतः ॥ 17 ॥

इममाश्रममागम्य मृगसंघा महायशः ।
अहत्वा प्रतिगच्छंति लोभयित्वाऽकुतोभयाः ॥ 18 ॥

नान्यद्धोषं भवेदत्र मृगेभ्योऽन्यत्र विद्धि वै ।
तच्छृत्वा वचनं तस्य महर्षेर्लक्ष्मणाग्रजः ॥ 19 ॥

उवाच वचनं धीरो विकृष्य सशरं धनुः ।
तानहं सुमहाभाग मृगसंघान्समागतान् ॥ 20 ॥

हन्यां निशितधारेण शरेणाशनिवर्चसा ।
भवांस्तत्राभिषज्येत किंस्यात्कृच्छ्रतरं ततः ॥ 21 ॥

एतस्मिन्नाश्रमे वासं चिरं तु न समर्थये ।
तमेवमुक्त्वोपरमं रामस्संध्यामुपागमत् ॥ 22 ॥

अन्वास्य पश्चिमां स्नध्यां तत्र वासमकल्पयत् ।
सुतीक्ष्णस्याऽश्रमे रम्ये सीतया लक्ष्मणेन च ॥ 23 ॥

तमेवमुक्त्वोपरमं रामस्संध्यामुपागमत् ॥ 24 ॥

अन्वास्य पश्चिमां संंध्यां तत्र वासमकल्पयत् ।
सुतीक्ष्णस्याश्रमे रम्ये सीतया लक्ष्मणेन च ॥ 25 ॥

ततश्शुभं तापसभोज्यमन्नं स्वयं सुतीक्ष्णः पुरुषर्षभाभ्याम् ।
ताभ्यां सुसत्कृत्य ददौ महात्मा संध्यानिवृत्तौ रजनीं मवेक्ष्य ॥ 26 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे सप्तमस्सर्गः ॥




Browse Related Categories: