View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.42 सुंदरकांड - द्विचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ द्विचत्वारिंशस्सर्गः ।

ततः पक्षिनिनादेन वृक्षभंगस्वनेन च ।
बभूवुस्त्राससंभ्रांतास्सर्वे लंकानिवासिनः ॥ 1 ॥

विद्रुताश्च भयत्रस्ता विनेदुर्मृगपक्षिणः ।
रक्षसां च निमित्तानि क्रूराणि प्रतिपेदिरे ॥ 2 ॥

ततो गतायां निद्रायां राक्षस्यो विकृताननाः ।
तद्वनं ददृशुर्भग्नं तं च वीरं महाकपिम् ॥ 3 ॥

स ता दृष्ट्वा महाबाहुर्महासत्त्वो महाबलः ।
चकार सुमहद्रूपं राक्षसीनां भयावहम् ॥ 4 ॥

ततस्तं गिरिसंकाशमतिकायं महाबलम् ।
राक्षस्यो वानरं दृष्ट्वा पप्रच्छुर्जनकात्मजाम् ॥ 5 ॥

कोऽयं कस्य कुतो वायं किं निमित्तमिहागतः ।
कथं त्वया सहानेन संवादः कृत इत्युत ॥ 6 ॥

आचक्ष्व नो विशालाक्षि मा भूत्ते सुभगे भयम् ।
संवादमसितापांगे त्वया किं कृतवानयम् ॥ 7 ॥

अथाब्रवीन्महासाध्वी सीता सर्वांगसुंदरी ।
रक्षसां भीमरूपाणां विज्ञाने मम का गतिः ॥ 8 ॥

यूयमेवाभिजानीत योऽयं यद्वा करिष्यति ।
अहिरेव ह्यहेः पादान्विजानाति न संशयः ॥ 9 ॥

अहमप्यस्य भीतास्मि नैनं जानामि को न्वयम् ।
वेद्मि राक्षसमेवैनं कामरूपिणमागतम् ॥ 10 ॥

वैदेह्या वचनं श्रुत्वा राक्षस्यो विद्रुता दिशः ।
स्थिताः काश्चिद्गताः काश्चिद्रावणाय निवेदितुम् ॥ 11 ॥

रावणस्य समीपे तु राक्षस्यो विकृताननाः ।
विरूपं वानरं भीममाख्यातुमुपचक्रमुः ॥ 12 ॥

अशोकवनिकामध्ये राजन्भीमवपुः कपिः ।
सीतया कृतसंवादस्तिष्ठत्यमितविक्रमः ॥ 13 ॥

न च तं जानकी सीता हरिं हरिणलोचना ।
अस्माभिर्बहुधा पृष्टा निवेदयितुमिच्छति ॥ 14 ॥

वासवस्य भवेद्दूतो दूतो वैश्रवणस्य वा ।
प्रेषितो वापि रामेण सीतान्वेषणकांक्षया ॥ 15 ॥

तेन त्वद्भुतरूपेण यत्तत्तव मनोहरम् ।
नानामृगगणाकीर्णं प्रमृष्टं प्रमदावनम् ॥ 16 ॥

न तत्र कश्चिदुद्देशो यस्तेन न विनाशितः ।
यत्र सा जानकी सीता स तेन न विनाशितः ॥ 17 ॥

जानकीरक्षणार्थं वा श्रमाद्वा नोपलभ्यते ।
अथवा कश्श्रमस्तस्य सैव तेनाभिरक्षिता ॥ 18 ॥

चारुपल्लवपुष्पाढ्यं यं सीता स्वयमास्थिता ।
प्रवृद्धश्शिंशुपावृक्ष स्स च तेनाभिरक्षितः ॥ 19 ॥

तस्योग्ररूपस्योग्र त्वं दंडमाज्ञातुमर्हसि ।
सीता संभाषिता येन तद्वनं च विनाशितम् ॥ 20 ॥

मनः परिगृहीतां तां तव रक्षोगणेश्वर ।
कस्सीतामभिभाषेत यो न स्यात्त्यक्तजीवितः ॥ 21 ॥

राक्षसीनां वचश्त्रुत्वा रावणो राक्षसेश्वरः ।
हुताग्निरिव जज्वाल कोपसंवर्तितेक्षणः ॥ 22 ॥

तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नास्रबिंदवः ।
दीप्ताभ्यामिव दीपाभ्यां सार्चिष स्स्नेहबिंदवः ॥ 23 ॥

आत्मनस्सदृशान्शूरान्किंकरान्नाम राक्षसान् ।
व्यादिदेश महातेजा निग्रहार्थं हनूमतः ॥ 24 ॥

तेषामशीतिसाहस्रं किंकराणां तरस्विनाम् ।
निर्ययुर्भवनात्तस्मात्कूटमुद्गरपाणयः ॥ 25 ॥

महोदरा महादंष्ट्रा घोररूपा महाबलाः ।
युद्धाभिमनसस्सर्वे हनुमद्ग्रहणोद्यताः ॥ 26 ॥

ते कपींद्रं समासाद्य तोरणस्थमवस्थितम् ।
अभिपेतुर्महावेगाः पतंगा इव पावकम् ॥ 27 ॥

ते गदाभिर्विचित्राभिः परिघैः कांचनांगदैः ।
आजघ्नुर्वानरश्रेष्ठं शरैश्चादित्यसन्निभैः ॥ 28 ॥

मुद्गरैः पट्टिशैश्शूलैः प्रासतोमरशक्तिभिः ।
परिवार्य हनूमंतं सहसा तस्थुरग्रतः ॥ 29 ॥

हनुमानपि तेजस्वी श्रीमान्पर्वतसन्निभः ।
क्षितावाविध्य लांगूलं ननाद च महास्वनम् ॥ 30 ॥

स भूत्वा सुमहाकायो हनुमान्मारुतात्मजः ।
धृष्टमास्फोटयामास लंकां शब्देन पूरयन् ॥ 31 ॥

तस्यास्फोटितशब्देन महता सानुनादिना ।
पेतुर्विहंगा गगनादुच्चैश्चेदमघोषयत् ॥ 32 ॥

जयत्यतिबलो रामो लक्ष्मणश्च महाबलः ।
राजा जयति सुग्रीवो राघवेणाभिपालितः ॥ 33 ॥

दासोऽहं कोसलेंद्रस्य रामस्याक्लिष्टकर्मणः ।
हनुमान्शत्रुसैन्यानां निहंता मारुतात्मजः ॥ 34 ॥

न रावणसहस्रं मे युद्धे प्रतिबलं भवेत् ।
शिलाभिस्तु प्रहरतः पादपैश्च सहस्रशः ॥ 35 ॥

अर्दयित्वा पुरीं लंकामभिवाद्य च मैथिलीम् ।
समृद्धार्थो गमिष्यामि मिषतां सर्वरक्षसाम् ॥ 36 ॥

तस्य सन्नादशब्देन तेऽभवन्भयशंकिताः ।
ददृशुश्च हनूमंतं संध्यामेघमिवोन्नतम् ॥ 37 ॥

स्वामिसंदेशनिश्शंकास्ततस्ते राक्षसाः कपिम् ।
चित्रैः प्रहरणैर्भीमैरभिपेतुस्ततस्ततः ॥ 38 ॥

स तैः परिवृतश्शूरैस्सर्वतस्सुमहाबलः ।
आससादाऽयसं भीमं परिघं तोरणाश्रितम् ॥ 39 ॥

स तं परिघमादाय जघान रजनीचरान् ।
स पन्नगमिवादाय स्फुरंतं विनतासुतः ॥ 40 ॥

विचचारांबरे वीरः परिगृह्य च मारुतिः ।
स हत्वा राक्षसान्वीरान्किंकरान्मारुतात्मजः ॥ 41 ॥

युद्धाकांक्षी पुनर्वीरस्तोरणं समुपाश्रितः ।
ततस्तस्माद्भयान्मुक्ताः कतिचित्तत्र राक्षसाः ॥ 42 ॥

निहतान्किंकरान्सर्वान्रावणायन्यवेदयन् ।
स राक्षसानां निहतं महद्बलं निशम्य राजा परिवृत्तलोचनः ।
समादिदेशाप्रतिमं पराक्रमे प्रहस्तपुत्रं समरे सुदुर्जयम् ॥ 43 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे द्विचत्वारिंशस्सर्गः ॥




Browse Related Categories: