View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.53 सुंदरकांड - त्रिपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ त्रिपंचाशस्सर्गः ।

तस्य तद्वचनं श्रुत्वा दशग्रीवो महात्मनः ।
देशकालहितं वाक्यं भ्रातुरुत्तरमब्रवीत् ॥ 1 ॥

सम्यगुक्तं हि भवता दूतवध्या विगर्हिता ।
अवश्यं तु वधादन्यः क्रियतामस्य निग्रहः ॥ 2 ॥

कपीनां किल लांगूलमिष्टं भवति भूषणम् ।
तदस्य दीप्यतां शीघ्रं तेन दग्धेन गच्छतु ॥ 3 ॥

ततः पश्यंत्विमं दीनमंगवैरूप्यकर्शितम् ।
समित्रज्ञातयस्सर्वे बांधवाः ससुहृज्जनाः ॥ 4 ॥

आज्ञापयद्राक्षसेंद्रः पुरं सर्वं सचत्वरम् ।
लांगूलेन प्रदीप्तेन रक्षोभिः परिणीयताम् ॥ 5 ॥

तस्य तद्वचनं श्रुत्वा राक्षसाः कोपकर्शिताः ।
वेष्टयंति स्म लांगूलं जीर्णैः कार्पासकैः पटैः ॥ 6 ॥

संवेष्ट्यमाने लांगूले व्यवर्धत महाकपिः ।
शुष्कमिंधनमासाद्य वनेष्विव हुताशनः ॥ 7 ॥

तैलेन परिषिच्याथ तेऽग्निं तत्राभ्यपातयन् ।
लांगूलेन प्रदीप्तेन राक्षसांस्तानपातयत् ॥ 8 ॥

रोषामर्षपरीतात्मा बालसूर्यसमाननः ।
लांगूलं संप्रदीप्तं तु द्रष्टुं तस्य हनूमतः ॥ 9 ॥

सहस्त्रीबालवृद्धाश्च जग्मुः प्रीता निशाचराः ।
स भूयः संगतैः क्रूरैर्राक्षसैर्हरिसत्तमः ॥ 10 ॥

निबद्धः कृतवान्वीरस्तत्कालसदृशीं मतिम् ।
कामं खलु न मे शक्ता निबद्धस्यापि राक्षसाः ॥ 11 ॥

छित्त्वा पाशान् समुत्पत्य हन्यामहमिमान्पुनः ।
यदि भर्तुर्हितार्थाय चरंतं भर्तृशासनात् ॥ 12 ॥

बध्नंत्येते दुरात्मनो न तु मे निष्कृतिः कृता ।
सर्वेषामेव पर्याप्तो राक्षसानामहं युधि ॥ 13 ॥

किंतु रामस्य प्रीत्यर्थं विषहिष्येऽहमीदृशम् ।
लंका चारयितव्या वै पुनरेव भवेदिति ॥ 14 ॥

रात्रौ न हि सुदृष्टा मे दुर्गकर्मविधानतः ।
अवश्यमेव द्रष्टव्या मया लंका निशाक्षये ॥ 15 ॥

कामं बद्धस्य मे भूयः पुच्छस्योद्दीपनेन च ।
पीडां कुर्वंतु रक्षांसि न मेऽस्ति मनसश्श्रमः ॥ 16 ॥

ततस्ते संवृताकारं सत्त्ववंतं महाकपिम् ।
परिगृह्य ययुर्हृष्टा राक्षसाः कपिकुंजरम् ॥ 17 ॥

शंखभेरीनिनादैस्तं घोषयंतः स्वकर्मभिः ।
राक्षसाः क्रूरकर्माणश्चारयंति स्म तां पुरीम् ॥ 18 ॥

अन्वीयमानो रक्षोभिर्ययौ सुखमरिंदमः ।
हनुमांश्चारयामास राक्षसानां महापुरीम् ॥ 19 ॥

अथापश्यद्विमानानि विचित्राणि महाकपिः ।
संवृतान् भूमिभागांश्च सुविभक्तांश्च चत्वरान् ॥ 20 ॥

वीथीश्च गृहसंबाधाः कपिश्शृंगाटकानि च ।
तथा रथ्योपरथ्याश्च तथैव गृहकांतरान् ॥ 21 ॥

गृहांश्च मेघसंकाशान् ददर्श पवनात्मजः ।
चत्वरेषु चतुष्केषु राजमार्गे तथैव च ॥ 22 ॥

घोषयंति कपिं सर्वे चारीक इति राक्षसाः ।
स्त्रीबालवृद्धाः निर्जग्मुस्तत्र तत्र कुतूहलात् ॥ 23 ॥

तं प्रदीपितलांगूलं हनुमंतं दिदृक्षवः ।
दीप्यमाने ततस्तत्र लांगूलाग्रे हनूमतः ॥ 24 ॥

राक्षस्यस्ता विरूपाक्ष्य श्शंसुर्देव्यास्तदप्रियम् ।
यस्त्वया कृतसंवाद स्सीते ताम्रमुखः कपिः ॥ 25 ॥

लांगूलेन प्रदीप्तेन स एष परिणीयते ।
श्रुत्वा तद्वचनं क्रूरमात्मापहरणोपमम् ॥ 26 ॥

वैदेही शोकसंतप्ता हुताशनमुपागमत् ।
मंगलाभिमुखी तस्य सा तदाऽसीन्महाकपेः ॥ 27 ॥

उपतस्थे विशालाक्षी प्रयता हव्यवाहनम् ।
यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः ।
यदि चास्त्येकपत्नीत्वं शीतो भव हनूमतः ॥ 28 ॥

यदि किंचिदनुक्रोशस्तस्य मय्यस्ति धीमतः ॥ 29 ॥

यदि वा भाग्यशेषो मे शीतो भव हनूमतः ।
यदि मां वृत्तसंपन्नां तत्समागमलालसाम् ॥ 30 ॥

स विजानाति धर्मात्मा शीतो भव हनूमतः ।
यदि मां तारयेदार्यस्सुग्रीवः सत्यसंगरः ॥ 31 ॥

अस्माद्धुःखांबुसंरोधाच्छीतो भव हनूमतः ।
ततस्तीक्ष्णार्चिरव्यग्रः प्रदक्षिणशिखोऽनलः ॥ 32 ॥

जज्वाल मृगशाबाक्ष्या श्शंसन्निव शिवं कपेः ।
हनुमज्जनकश्चापि पुच्छानलयुतोऽनिलः ॥ 33 ॥

ववौ स्वास्थ्यकरो देव्याः प्रालेयानिलशीतलः ।
दह्यमाने च लांगूले चिंतयामास वानरः ॥ 34 ॥

प्रदीप्तोऽग्निरयं कस्मान्न मां दहति सर्वतः ।
दृश्यते च महाज्वालः करोति न च मे रुजम् ॥ 35 ॥

शिशिरस्येव संघातो लांगूलाग्रे प्रतिष्ठितः ।
अथवा तदिदं व्यक्तं यद्दृष्टं प्लवता मया ॥ 36 ॥

रामप्रभावादाश्चर्यं पर्वत स्सरितां पतौ ।
यदि तावत्समुद्रस्य मैनाकस्य च धीमतः ॥ 37 ॥

रामार्थं संभ्रमस्तादृक्किमग्निर्न करिष्यति ।
सीतायाश्चानृशंस्येन तेजसा राघवस्य च ॥ 38 ॥

पितुश्च मम सख्येन न मां दहति पावकः ।
भूयस्स चिंतयामास मुहूर्तं कपिकुंजरः ॥ 39 ॥

उत्पपाताथ वेगेन ननाद च महाकपिः ।
पुरद्वारं ततश्श्रीमान् शैलशृंगमिवोन्नतम् ॥ 40 ॥

विभक्तरक्षस्संबाधमाससादानिलात्मजः ।
स भूत्वा शैलसंकाशः क्षणेन पुनरात्मवान् ॥ 41 ॥

ह्रस्वतां परमां प्राप्तो बंधनान्यवशातयत् ।
विमुक्तश्चाभवछ्रचीमान् पुनः पर्वतसन्निभः ॥ 42 ॥

वीक्षमाणश्च ददृशे परिघं तोरणाश्रितम् ।
स तं गृह्य महाबाहुः कालायसपरिष्कृतम् ॥ 43 ॥

रक्षिणस्तान् पुनस्सर्वान्सूदयामास मारुतिः ।
स तान्निहत्त्वा रणचंडविक्रम स्समीक्षमाणः पुनरेव लंकाम् ।
प्रदीप्तलांगूलकृतार्चिमाली प्रकाशतादित्य इवार्चिमाली ॥ 44 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे त्रिपंचाशस्सर्गः ॥




Browse Related Categories: