View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.2 युद्धकांड - द्वितीय सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ द्वितीयस्सर्गः ।

तंतुशोकपरिद्यूनंरामंदशरथात्मजम् ।
उवाचवचनंश्रीमान् सुग्रीवश्शोकनाशनम् ॥ 1 ॥

किं त्वया तप्यते वीर यथान्यः प्राकृतस्तथा ।
मैवं भूस्त्यज सतापं कृतघ्न इव सौहृदम् ॥ 2 ॥

संतापस्यचतेस्थानंनहिपश्यामिराघव ।
प्रवृत्तावुपलब्धायांज्ञातेचनिलयेरिपोः ॥ 3 ॥

मतिमान्शास्त्रवित्प्राज्ञःपंडितश्चासिराघव ।
त्यजेमांपापिकांबुद्धिंकृतात्मेवार्थदूषणीम् ॥ 4 ॥

समुद्रंलंघयित्वातुमहानक्रसमाकुलम् ।
लंकामारोहयिष्यामोहनिष्यामश्चतेरिपुम् ॥ 5 ॥

निरुत्साहस्यदीनस्यशोकपर्याकुलात्मनः ।
सर्वार्थाव्यवसीदंतिव्यसनंचाधिगच्छति ॥ 6 ॥

इमेशूरास्समर्थाश्चसर्वनोहरियूथपाः ।
त्वत्प्रियार्थंकृतोत्साहाःप्रवेष्टुमपिपावकम् ।
एषांहर्षेणजानामितर्कश्चास्मिन् दृढोमम ॥ 7 ॥

विक्रमेणसमानेष्येसीतांहत्वायथारिपुम् ।
रावणंपापकर्माणंतथात्वंकर्तुमर्हसि ॥ 8 ॥

सेतुरत्रयथाबध्येद्यथापश्येमतांपुरीम् ।
तस्यराक्षसराजस्यतथात्वंकुरुराघव ॥ 9 ॥

दृष्टवातांतुपुरींलंकांत्रिकूटशिखरेस्थिताम् ।
हतंचरावणंयुद्धेदर्शनावधारय ॥ 10 ॥

अबध्वासागरेसेतुंघोरेचतुवरुणालये ।
लंकांनमर्दितुंशक्यासेंद्रैरपिसुरासुरैः ॥ 11 ॥

सेतुर्बद्धस्समुद्रेचयावल्लंकास्समीपतः ॥ 12 ॥

सर्वंतीर्णंचमेसैन्यंजितमित्युपधारय ।
इमेहिसमरेवीराहरयःकामरूपिण ॥ 13 ॥

तदलंविक्लबांबुद्धिं राजन सर्वार्थनाशनीम् ।
पुरुषस्यहिलोकेऽस्मिन् शोकश्शौर्यापकर्षणः ॥ 14 ॥

यत्तुकार्यंमनुष्येणशौंडीर्यमवलंबता ।
अस्मिन् कालेमहाप्राज्ञसत्त्वमातिष्ठतेजसा ॥ 15 ॥

शूराणांहिमनुष्याणांत्वद्विधानांमहात्मनाम् ।
विनष्टेवाप्रणष्टेवाशोकस्सर्वार्थनाशनः ॥ 16 ॥

तत्त्वंबुद्धिमतांश्रेष्ठस्सर्वशास्त्रार्थकोविदः ।
मद्विधैस्सचिवैस्सार्थमरिंजेतुमिहार्हसि ॥ 17 ॥

नहिपश्याम्यहंकंचित् त्रिषुलोकेषुराघव ।
गृहीतधनुषेयस्तेतिष्ठेदभिमुखोरणे ॥ 18 ॥

वानरेषुसमासक्तंनतेकार्यंविपत्स्यते ।
अचिराद्द्रक्ष्यसेसीतांतीर्त्वासागरमक्ष्यम् ॥ 19 ॥

तदलंशोकमालंब्यक्रोधमालंबभूपते ।
निश्चेष्टाःक्षत्रियामंदास्सर्वेचंडस्यबिभ्यति ॥ 20 ॥

लंघनार्थंचघोरस्यसमुद्रस्यनदींपतेः ।
सहास्माभिरिहोपेतस्सूक्ष्मबुद्धिर्विचारय ॥ 21 ॥

लंघितेतस्यतैस्सैन्यंजितमित्युपधारय ।
सर्वंतीर्णंचमेसैन्यंजितमित्यवधार्यताम् ॥ 22 ॥

इमेहिहरयश्शूरास्समरेकामरूपिणः ।
तानरीन्विधमिष्यंतिशिलापादपवृष्टिभिः ॥ 23 ॥

कथंचित्संतरिष्यामस्तेवयंवरुणालयम् ।
हतमित्येवतंमन्येयुद्धेशत्रुनिबर्हण ॥ 24 ॥

किमुक्त्वाबहुधाचापिसर्वथाविजयीभवान् ।
निमित्तानिचपश्यामिमनोमेसंप्रहृष्यति ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे द्वितीयस्सर्गः ॥




Browse Related Categories: