View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.4 युद्धकांड - चतुर्थ सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ चतुर्थस्सर्गः ।

श्रुत्वा हनुमतो वाक्यं यथावदनुपूर्वशः ।
ततोऽब्रवीन्महातेजा रामस्सत्यपराक्रमः ॥ 1 ॥

यां निवेदयसे लंकां पुरीं भीमस्य रक्षसः ।
क्षिप्रमेनां मथिष्यामि सत्यमेतद्ब्रवीमि ते ॥ 2 ॥

अस्मिन् मुहूर्ते सुग्रीव प्रयाणमभिरोचये ।
युक्तो मुहूर्तो विजयः प्राप्तो मध्यं दिवाकर ॥ 3 ॥

सीतां हृत्वा तु मे जातु क्वासौ यास्यति यास्यतः ।
सीता श्रुत्वाभियानं मे अशामेष्यति जीविते ।
जीवितांतेऽ मृतं स्पृष्टवा पीत्वा विषमिवातुरः ॥ 4 ॥

उत्तरा फल्गुनी ह्यद्य श्वस्तु हस्तेन योक्ष्यते ।
अभिप्रायाम सुग्रीव सर्वानीकसमावृताः ॥ 5 ॥

निमित्तानि च पश्यामि यानि प्रादुर्भवंति च ।
निहत्य रावणं सीतामानयिष्यामि जानकीम् ॥ 6 ॥

उपरिष्टाद्धि नयनं स्फुरमाणमिदं मम ।
विजयं समनुप्राप्तं शंसतीव मनोरथम् ॥ 7 ॥

ततो वानरराजेन लक्ष्मणेन सुपूजितः ।
उवाच रामो धर्मात्मा पुनरप्यर्धकोविदः ॥ 8 ॥

अग्रे यातु बलस्यास्य नीलो मार्गमवेक्षितुम् ।
वृतश्शतसहस्रेण वानराणां तरस्विनाम् ॥ 9 ॥

फलमूलवता नील शीतकाननवारिणा ।
पथा मधुमता चाशु सेनां सेनापते नय ॥ 10 ॥

दूषयेयुर्दुरात्मनः पथि मूलफलोदकम् ।
राक्षसाः परिरक्षेथास्तेभ्यस्त्वं नित्यमुद्यतः ॥ 11 ॥

निम्नेषु वनदुर्गेषु वनेषु च वनौकसः ।
अभिप्लुत्याभिपश्येयुः परेषां निहितं बलम् ॥ 12 ॥

यच्च फल्गु बलं किंचित्त दत्रैवोपपद्यताम् ।
एतद्धि कृत्यं घोरं नो विक्रमेण प्रयुज्यताम् ॥ 13 ॥

सागरौघनिभं भीममग्रानीकं महाबलाः ।
कपिसिंहाः प्रकर्षस्तु शतशोऽथ सहस्रशः ॥ 14 ॥

कपि सिम्हा प्रकर्षंतु शतशो अथ सहस्रशः ।
गजः च गिरि सम्काशो गवयः च महाबलः ॥ 15 ॥

यातु वानरवाहिन्या वानरः प्लवतां वरः ।
पालयंदक्षिणं पार्श्वमृषभो वानरर्षभः ॥ 16 ॥

गंधहस्तीव दुर्धर्षस्तरस्वी गंधमादनः ।
यातु वानरवाहिन्या स्सव्यं पार्श्वमधिष्ठितः ॥ 17 ॥

यास्यामि बलमध्येऽहं बलौघमभिहर्षयन् ।
अधिरुह्य हनूमंत मैरावत मिवेश्वरः ॥ 18 ॥

अंगदेनैष संयातु लक्ष्मणश्चांत कोपमः ।
सार्वभौमेन भूतेशो द्रविणाधिपतिर्यथा ॥ 19 ॥

जांबवांश्च सुषेणश्च वेगदर्शी च वानरः ।
ऋक्षराजो महासत्त्वः कुक्षिं रक्षंतु ते त्रयः ॥ 20 ॥

राघवस्य वचश्श्रुत्वा सुग्रीवो वाहिनीपतिः ।
व्यादिदेश महावीर्यो वानरान्वानरर्षभ ः ॥ 21 ॥

ते वानरगणास्सर्वे समुत्पत्य युयुत्सवः ।
गुहाभ्यश्शिखरेभ्यश्च अशु पुप्लुविरे तदा ॥ 22 ॥

ततो वानरराजेन लक्ष्मणेन च पूजितः ।
जगाम रामोधर्मात्मा ससैन्यो दक्षिणां दिशम् ॥ 23 ॥

शतैः शतसहस्रैश्च कोटिभिश्चायुतैरपि ।
वारणाभैश्च हरिभिर्ययौ परिवृतस्तदा ॥ 24 ॥

तं यांतमनुयांती सा महती हरिवाहिनी ।
दृप्ताः प्रमुदितास्सर्वे सुग्रीवेणाभिपालिताः ॥ 25 ॥

हृष्टाः प्रमुदिताः सर्वे सुग्रीवेण अभिपालिताः ।
आप्लवंतः प्लवंतः च गर्जंतः च प्लवं गमाः ॥ 26 ॥

भक्ष्यंत स्सुगंधीनि मधूनि च फलानि च ।
उद्वहंतो महावृक्षान् मंजरीपुंजधारिणः ॥ 27 ॥

अन्योन्यं सहसा दृप्ता निर्वहांति क्षिपंति च ।
पतंतश्पोत्पत्नत्यन्ये पातयंत्यपरे परान् ॥ 28 ॥

रावणो नो निहंतव्यस्सर्वे च रजनीचराः ।
इति गर्जंति हरयो राघवस्य समीपतः ॥ 29 ॥

पुरस्तादृषभो वीरो नीलः कुमुद एव च ।
पंथानं शोधयंतिस्म वानरैर्बहुभि स्सह ॥ 30 ॥

मध्ये तु राजा सुग्रीवो रामो लक्ष्मण एव च ।
बलभिर्बहुभि र्भीमैर्वृताश्शत्रुनिबर्हणाः ॥ 31 ॥

हरिश्शतवलिर्वीरः कोटीभिर्दशभिर्वृतः ।
सर्वामेको ह्यावष्टभ्य ररक्ष हरिवाहिनीम् ॥ 32 ॥

कोटीशतपरीवारः केसरी पनसो गजः ।
अर्कश्चातिबलः पार्श्वमेकं तस्याभिरक्षति ॥ 33 ॥

सुषेणो जांबवांश्चैव ऋक्षैर्बहुभिरावृतौ ।
सुग्रीवं पुरतः कृत्वा जघनं सम्ररक्षतुः ॥ 34 ॥

तेषां सेनापतिर्वीरो नीलो वानरपुंगवः ।
संपतन्पततां श्रेष्ठस्तद्बलं पर्यपालयात् ॥ 35 ॥

दरीमुखः प्रजंघश्च रंभोऽथ रभसः कपिः ।
सर्वतश्च ययुर्वीरास्त्वरयंतः प्लवंगमान् ॥ 36 ॥

एवं ते हरिशार्दूला गच्छंतो बलदर्पिताः ।
अपश्यंस्ते गिरिश्रेष्ठं सह्यं द्रुमालतायुतम् ॥ 37 ॥

सरांसि च सुपुल्लानि तटाकानि वनानि च ॥ 38 ॥

रामस्य शासनं ज्ञात्वा भीमकोपस्य भीतवत् ।
वर्जयन्नगराभ्याशां स्तथा जनपदानपि ॥ 39 ॥

सागरौघनिभं भीमं तद्वानरबलं महत् ।
उत्ससर्प महाघोषं भीमघोषमिवार्णवः ॥ 40 ॥

तस्यदाशरथेः पार्श्वे शूरास्ते कपिकुङजराः ।
तोर्णमापुप्लुवु स्सर्वे सदश्वा इव चोदिताः ॥ 41 ॥

कपिभ्यामुह्यमानौ तौ शुशुभाते नरर्षभौ ।
महाद्भ्यामिव सम्स्पृष्टौ ग्रहाभ्यां चंद्रभास्करौ ॥ 42 ॥

ततो वानरराजेन लक्ष्मणेन सुपूजितः ।
जगाम रामो धर्मात्मा ससैन्यो दक्षिणां दिशम् ॥ 43 ॥

तमंगदगतो रामं लक्ष्मणश्शुभया गिरा ।
उवाच परिपूर्णार्थः स्मृतिमान् प्रतिभानवान् ॥ 44 ॥

हृतामवाप्य वैदेहीं क्षिप्रं हत्वा च रावणम् ।
समृद्धार्थस्समृद्धार्थमयोध्यां प्रतियास्यसि ॥ 45 ॥

महांति च निमित्तानि दिवि भूमौ च राघव ।
शुभानि तव पश्यामि सर्वाण्येनार्थसिद्धये ।
अनुवाति शिवो वायु स्सेवां मृदुहित स्सुखः ॥ 46 ॥

पूर्णवल्गुस्वराश्चेमे प्रवदंति मृगद्विजाः ।
प्रसन्नाश्च दिश स्सर्वा विमलश्च दिवाकरः ॥ 47 ॥

उशना च प्रसन्नार्चिरनु त्वां भार्गवो गतः ॥ 48 ॥

ब्रह्मराशिर्विशुद्धश्च शुद्दाश्च परमर्षयः ।
अर्चिष्मंतः प्रकाशंते ध्रुवं सर्वे प्रदक्षिणम् ॥ 49 ॥

त्रिशंकुर्विमलो भाति राजर्षिस्सपुरोहितः ।
पितामहाः पुरोऽस्माकमिक्ष्वाकूणां महात्मनाम् ॥ 50 ॥

विमले च प्रकाशेते विशाखे निरुपप्लुवे ।
नक्षत्र वरमस्माकमिक्ष्वाकूणां महात्मनाम् ॥ 51 ॥

नैरृतं नैरृतानां च नक्षत्रमभिपीड्यते ।
मूलो मूलवता स्पृष्टो धूप्यते धूमकेतुना ॥ 52 ॥

सर्वं चैतद्विनाशाय राक्षसानामुप स्थितम् ।
काले कालगृहीतानां नक्षत्र ग्रहपीडितम् ॥ 53 ॥

प्रसन्ना स्सुरसाश्चापो वनानि फलवंति च ।
प्रवांत्यभ्य नाधिकं गंधान्यथर्तुकुसुमा द्रुमाः ॥ 54 ॥

व्यूढानि कपिसैन्यानि प्रकाशंतेऽधिकं प्रभो ॥ 55 ॥

देवानामिव सैन्यानि संग्रामे तारकामये ।
एवमार्य ।
समीक्ष्यैतान्प्रीतो भवितुमर्हसि ॥ 56 ॥

इति भ्रातरमाश्वास्य हृष्ट स्सौमित्रिरब्रवीत् ।
अथावृत्य महीं कृत्स्नां जगाम महती चमूः ॥ 57 ॥

ऋक्षवानरशर्दूलैर्न खदंष्ट्रायुधैर्वुता ।
काराग्रैश्चरणाग्रैश्च वानरै रुत्थितं रजः ।
भीममंतर्दधे लोकं निवार्य सवितुः प्रभाम् ॥ 58 ॥

पर्वतवनाकाशां दक्षिणां हरिवाहिनी ।
छादयंती ययौ भीमा द्यामिवांबुदसंततिः ॥ 59 ॥

उत्तरंत्यां च सेनायां स्सततं बहुयोजनम् ।
नदीस्रोतांसि सर्वाणि सस्यंदुर्विपरीतवत् ॥ 60 ॥

सरांसि विमलांभांसि द्रुमाकीर्णांश्च पर्वता ।
समान् भूमिप्रदेशांश्च वनानि फलवंति च ।
मध्येन च समंताच्च तिर्यक्चाथश्च समाऽविशत् ॥ 61 ॥

समावृत्य महीं कृत्स्नां जगाम महती चमूः ।
तेहृष्टवदना स्सर्वे जग्मुर्मारुतरंहसः ॥ 62 ॥

हरयो राघवस्यार्थे समारोपितविक्रमाः ॥ 63 ॥

हर्षंवीर्य बलोद्रेकांदर्शयंतः परस्परम् ।
यौवनोत्सेकजांदर्पाद्विविधांश्चक्रुरध्वनि ॥ 64 ॥

तत्र केचिद्द्रुतं जग्मुरुत्पेतुश्च तथापरे ।
केचित्किलकिलां चक्रुर्वानरा वनगोचराः ॥ 65 ॥

प्रास्पोटयंश्च पुच्छानि सन्निजग्मुः पदान्यपि ।
भुजावनिक्षिप्य शैलांश्च द्रुमानन्ये बभंजिरे ॥ 66 ॥

आरोहंतश्च शृंगाणि गिरीणां गिरिगोचराः ।
महानादान् प्रमुंचंति क्ष्वेडामन्ये प्रचक्रिते ॥ 67 ॥

ऊरुवेगैश्च ममृदुर्लताजालान्यनेकशः ।
जृंभमाणाश्च विक्रांता विचिक्रीडुश्शिलाद्रुमै ः ॥ 68 ॥

शतश्शतसहस्रैश्च कोटिभिश्च सहस्रशः ।
वानराणां सुघोराणां श्रीमत्परिवृता मही ॥ 69 ॥

सा स्म याति दिवारात्रं महती हरिवाहिनी ।
प्रहृष्टमुदितास्सेना सुग्रीवेणाभिपालिताः ॥ 70 ॥

वानरास्त्वरितं यांति सर्वे युद्धाभिनंदिनः ।
प्रमोक्षयिषव स्सीतां मुहूर्तं क्वापि नावसन् ॥ 71 ॥

ततः पादपसंभाधं नानामृगसमायुताम ।
सह्यपर्वतमासेदुर्मलयंच महीधरम् ॥ 72 ॥

काननानि विचित्राणि नदीः प्रस्रवणानि च ।
पश्यन्ननि ययौ रामस्सह्यस्य मलयस्य च ॥ 73 ॥

चंपकांस् तिलकामः चूतान् अशोकान् सिंदु वारकान् ।
तिनिशान् करवीरामः च तिमिशान् भन्जंति स्म प्लवं गमाः ॥ 74 ॥

अंकोलांश्च करंचांश्च प्लक्षन्यग्रोधतिंदुकान् ।
जंबुकामलकान्नापान्भजंति स्म प्लवंगमाः ॥ 75 ॥

प्रस्तरेषु च रम्येषु विविधाः काननद्रुमाः ।
वायुवेगप्रचलिताः पुष्पैरवकिरंति तान् ॥ 76 ॥

मारुतस्सुखसंस्पर्शो वाति चंदनशीतलः ।
षटपदैरनुकूजद्भिर्वनेषु मधुगंधिषु ॥ 77 ॥

अधिकं शैलराजस्तु धातुभिस्सुविभूषितः ।
धातुभ्यःप्रसृतो रेणुर्वायुवेग विघट्टितः ।
सुमहद्वानरानीकं छादयामास सर्वतः ॥ 78 ॥

गिरिप्रस्थेषु रम्येषु सर्वत संप्र पुष्पिताः ।
केतकस्सिंदुवाराश्च वासंत्यश्च मनोरमाः ॥ 79 ॥

माधव्यो गंधपूर्णाश्च कुंदगुल्माश्च पुष्पिताः ।
चिरिबिल्वा मधूकाश्च वंजुला प्रियकास्तथा ॥ 80 ॥

सुफूर्जकास्तिलकाश्चैव नागवृक्षाश्च पुष्पिताः ।
चूताः पाटलयकाश्चैव कोविदाराश्च पुष्पिताः ॥ 81 ॥

मुचुलिंदार्जुनाश्चैव शिंशुपाः कुटजास्तथा ।
धवा श्शाल्मलयश्चैव रक्ताः कुरवकास्तथा ॥ 82 ॥

हिंतालास्तिनिशाश्चैव चूर्णका नीपकास्तथा ।
नीलाशोकाश्च वरणा अंकोलाः पद्मकास्तथा ॥ 83 ॥

प्लवमानैः प्लवंगैस्तु सर्वे पर्याकुलीकृताम् ॥ 84 ॥

वाप्यस्तस्मिन् गिरौ शिताः पल्वलानि तथैव च ।
चक्रवाकानुचरिताः कारंडवनिषेविताः ॥ 85 ॥

प्लवैः क्रौंचेश्च संकीर्णा वराहमृग सेविताः ।
ऋक्षैस्तरक्षुभिस्सिम्हैश्शार्दूलैश्च भयावहैः ॥ 86 ॥

व्यालैश्च बहुभिर्भीमै स्सेव्यमाना स्समंततः ।
पद्मैस्सौगंदिकैः पुल्लैः कुमुदैश्चोत्पलैस्तथा ॥ 87 ॥

वारिजैर्विविधैः पुष्पै रम्यास्तत्र जलाशयाः ।
तस्य सानुषु कूजंति नानाद्विजगणास्तथा ॥ 88 ॥

स्नात्वा पीत्वोदकान्यत्र जले क्रीडंति वानराः ।
अन्योन्यं प्लावयंति स्म शैलमारुह्य वानराः ॥ 89 ॥

फलान्य मृतगंधीनि मूलानि कुसुमानि च ।
बभंजुर्वास्तत्र पादपानं मदोत्कटाः ॥ 90 ॥

द्रोणमात्रप्रमाणानि लंबमानानि वानराः ।
ययुः पिबंत हृष्टास्ते मधूनि मधुपिंगलाः ॥ 91 ॥

पादपानवभंजंतो विकर्षंत स्तथा लताः ।
विधमंतो गिरिवरान्प्रययुः प्लवगर्षभाः ॥ 92 ॥

वृक्षेभ्योऽन्ये तु कपयो नदंतो मधुदर्पिताः ।
अन्ये वृक्षान्प्रपद्यंते प्रपिबंत्यपि चापरे ॥ 93 ॥

बभूव वसुधा तैस्तु संपूर्णा हरियूथपैः ।
यथा कलमकेदारैः पक्वैरिव वसुंदरा ॥ 94 ॥

महेंद्रमथ संप्राप्य रामो राजीवलोचनः ।
अध्यारोहन्महाबाहुश्शिखरं द्रुमभूषितम् ॥ 95 ॥

ततश्शिखरमारुह्य रामो दशरथात्मजः ।
कूर्ममीनसमाकीर्णमपश्यत्सलिलाकुलम् ॥ 96 ॥

ते सह्यं समतिक्रम्य मलयं च महागिरिम् ।
आसेदुरानुपूर्व्येण समुद्रं भमनिस्स्वनम् ॥ 97 ॥

अवरुह्य जगामाशु वेलावनमनुत्तमम् ।
रामो रमयतां श्रेष्ट स्ससुग्रीव स्सलक्ष्मणः ॥ 98 ॥

अथ धौतोपलतलां तोयौघै स्सहसोत्थितैः ।
वेलामासाद्य विपुलान्रामो वचनमब्रवीत् ॥ 99 ॥

एते वयमनुप्राप्ता स्सुग्रीव वरुणालयम् ।
इहेदानीं विचिंता साया नः पूर्वसमुत्थिता ॥ 100 ॥

अतः परमतीरोऽयं सागर स्सरितां पतिः ।
न चायमनुपायेन शक्यस्तरितुमर्णवः ॥ 101 ॥

तदिहैव निवेशोऽस्तु मंत्रः प्रस्तूयतामिह ।
यथेदं वानरबलं परं पारमवाप्नुयात् ॥ 102 ॥

इतीव स महाबाहुस्सीताहरणकर्शितः ।
रामस्सागरमासाद्य वासमाज्ञापयत्तदा ॥ 103 ॥

सर्वा स्सेना निवेश्यंतां वेलायां हरिपुंगव ।
संप्राप्तो मंत्रकालो नस्सागरस्येह लंघने ॥ 104 ॥

स्वां स्वां सेनां समुत्सृज्य मा च कश्चित्कुतो व्रजेत् ।
गच्छंतु वानराश्शूराज्ञेयं छन्नं भयं च नः ॥ 105 ॥

रामस्य वचनं श्रुत्वा सुग्रीव स्सहलक्ष्मणः ।
सेनां निवेशयततीरे सागरस्य द्रुमायुते ॥ 106 ॥

विरराज समीपस्थं सागरस्य तु तद्बलम् ।
मधुपांडुजल श्रशीमान् द्वितीय इव सागरः ॥ 107 ॥

वेलावनमुपागम्य ततस्ते हरिपुंगवाः ।
निविष्टाश्च परं पारं कांक्षमाणा महोदधेः ॥ 108 ॥

तेषां निविशमानानां सैन्यसन्नाहनिस्स्वनः ।
अंतर्धाय महानादमर्णवस्य प्रशुश्रुवे ॥ 109 ॥

सा वानराणां ध्वजिनी सुग्रीवेणाभिपालिता ।
त्रिधा निविष्टा महती रामस्यार्थपराऽभवत् ॥ 110 ॥

सा महार्णवमासाद्य हृष्टा वानरवाहिनी ।
वायुवेगसमाधूतं पश्यमाना महार्णवम् ॥ 111 ॥

दूरपारमसंबाधं रक्षोगणनिषेवितम् ।
पश्यंतो वरुणावासं निषेदुर्हरियूथपाः ॥ 112 ॥

चंडनक्रग्राहं घोरं क्षपादौ दिवसक्ष्ये ।
हसंतमिव फेनौघैर्नृत्यंतमिव चोर्मिभिः ॥ 113 ॥

चंद्रोदये समुद्भूतं प्रतिचंद्रसमाकुलम् ।
चंडानिलमहाग्राहैः कीर्णं तिमितिमिंगिलैः ॥ 114 ॥

दीप्तभोगैरिवाकीर्णं भुजंगैर्वरुणालयम् ।
अवगाढं महासत्त्वैर्नानाशैलसमाकुलम् ।
सुदुर्गं दुर्गमार्गं तमगाध मसुरालयम् ॥ 115 ॥

मकरैर्नागभोगैश्च विगाढा वातलोलिताः ।
उत्पेतुश्च निपेतुश्च प्रवृद्धा जलराशयः ॥ 116 ॥

उत्पेतुः च निपेतुः च प्रवृद्धा जल राशयः ।
अग्नि चूर्णं इव आविद्धं भास्कर अंबु मनो रगम् ॥ 117 ॥

सागरं चांबरप्रख्यमंबरं सागरोपमम् ।
सागरं चांबरं चेति निर्विशेष मदृश्यत ॥ 118 ॥

संपृक्तं नभसाप्यंभस्संपृक्तं च नभोऽंभसा ।
तादृग्रूपेच दृश्यते तारारत्नसमाकुले ॥ 119 ॥

समुत्पतितमेघस्य वीचिमालाकुलस्य च ।
विशेषो न द्वयोरासीत्सागरस्यांबरस्य च ॥ 120 ॥

अन्योन्यैराहता स्सक्ता स्सस्वनुर्भीमनिस्स्वनाः ।
ऊर्मयस्सिंधुराजस्य महाभेर्य इवाहवे ॥ 121 ॥

रत्नौघ जलसन्नादं विषक्तमिव वायुना ।
उत्पतंतमिव क्रुद्धं यादोगणसमाकुलम् ॥ 122 ॥

ददृशुस्ते महोत्साह वाताहतजलाशयम् ।
अनिलोद्धूतमाकाशे प्रवल्गंत ममिवोर्मिभिः ॥ 123 ॥

ततो विस्मयमापन्ना हरयो ददृशुर्हरयस्तदा ।
भ्रांतोर्मिजालसन्नादं प्रलोलमिव सागरम् ॥ 124 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे चतुर्थस्सर्गः ॥




Browse Related Categories: