View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.9 युद्धकांड - नवम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ नवमस्सर्गः ।

ततोनिकुंभोरभसस्सूर्यशत्रुर्महाबलः ।
सुप्तघ्नोयज्ञहारक्षोमहापार्श्वमहोदरौ ॥ 1 ॥

अग्निकेतुश्चदुर्धर्षोरश्मिकेतुश्चराक्षसः ।
इंद्रजिच्चमहातेजाबलवान्रावणात्मजः ॥ 2 ॥

प्रहस्तोऽथविरूपाक्षोवज्रदंष्ट्रोमहाबलः ।
धूम्राक्षश्चातिकायश्चदुर्मुखश्चैवराक्षसः ॥ 3 ॥

परिघान्पट्टिशान्प्रासान्शक्तिशूलपरश्वधान् ।
चापानिचसबाणानिखंगांश्चविपुलान्शितान् ॥ 4 ॥

प्रगृह्यपरमक्रुद्धास्समुत्पत्यचराक्षसाः ।
अब्रुवन्रावणंसर्वेप्रदीप्ताइवतेजसा ॥ 5 ॥

अद्यरामंवधिष्यामस्सुग्रीवंसचलक्ष्मणम् ।
कृपणंचहनूमंतंलंकायेनप्रधर्षिता ॥ 6 ॥

तान्गृहीतायुधान् सर्वान्वारयित्वाविभीषणः ।
अब्रवीत्प्रांजलिर्वाक्यंपुनःप्रत्युपवेश्यतान् ॥ 7 ॥

अप्युपायैस्त्रिभिस्तातयोऽर्थःप्राप्तुंनशक्यते ।
तस्यविक्रमकालांस्तान्युक्तानाहुर्मनीषिणः ॥ 8 ॥

प्रमत्तेष्यभियुक्तेषुदैवेनप्रहतेषुच ।
विक्रमास्तातसिध्यंतिपरीक्ष्यविधिनाकृताः ॥ 9 ॥

अप्रमत्तंकथंतंतुविजिगीषुंबलेस्थितम् ।
जितरोषंदुराधर्षतंप्रधर्षयितुमिच्छथ ॥ 10 ॥

समुद्रंलंघयित्वातुघोरंनदनदीपतिम् ।
गतिंहनूमतोलोकेकोविद्यात्तर्कयेतवा ॥ 11 ॥

बलान्यपरिमेयानिवीर्याणिचनिशाचराः ।
परेषांसहसाऽवज्ञानकर्तव्याकथंचन ॥ 12 ॥

किंचराक्षसराजस्यरामेणापकृतंपुरा ।
आजहारजनस्थानाद्यस्यभार्यांयशस्विनः ॥ 13 ॥

खरोयद्यतिवृत्तस्तुरामेणनिहतोरणे ।
अवश्यंप्राणिनांप्राणारक्षितव्यायथाबलम् ॥ 14 ॥

एतन्निमित्तंवैदेहीभयंनस्सुमहद्भवेत् ।
आहृतासापरित्याज्याकलहार्थेकृतेनकिम् ॥ 15 ॥

नतुक्षमंवीर्यवतातेनधर्मानुवर्तिना ।
वैरंनिरर्थकंकर्तुंदीयतामस्यमैथिली ॥ 16 ॥

यावन्नसगजांसाश्वांबहुरत्नसमाकुलाम् ।
पुरींदारयतेबाणैर्दीयतामस्यमैथिली ॥ 17 ॥

यावत्सुघोरामहतीदुर्धर्षाहरिवाहिनी ।
नावस्कंदतिनोलंकांतावत्सीताप्रदीयताम् ॥ 18 ॥

विनश्येद्धिपुरीलंकाशूरास्सर्वेचराक्षसाः ।
रामस्यदयितापत्नीनस्वयंनयदिदीयते ॥ 19 ॥

प्रसादयेत्वांबंधुत्वात्कुरुष्यवचनंमम ।
हितंतथ्यमहंब्रूमिदीयतामस्यमैथिली ॥ 20 ॥

पुराशरत्सूर्यमरीचिसन्निभान्नवाग्रपुंखान् सुदृढान्नृपात्मजः ।
सृजत्यमोघान्विशिखान्वधायतेप्रदीयतांदशरधायमैथिली ॥ 21 ॥

त्वजस्वकोपंसुखधर्मनाशनंभजस्वधर्मंरतिकीर्तिवर्धनम् ।
प्रसीदजीवेमसपुत्रबांधवाःप्रदीयतांदाशरथायमैथिली ॥ 22 ॥

विभीषणवच्शुत्वारावणोराक्षसेश्वराः ।
विसर्जयित्वातान्सर्वान्प्रविवेशस्वकंगृहम् ॥ 23 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे नवमस्सर्गः ॥




Browse Related Categories: