श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकोनविंशत्यधिकशततमस्सर्गः ।
एवमुक्तातुवैदेहिपरुषंरोमहर्षणम् ।
राघवेणसरोषेणश्रुत्वाप्रव्यथिताऽभवत् ॥ 1 ॥
सातदश्रुतपूर्वंहिजनेमहतिमैथिली ।
श्रुत्वाभर्तृर्वचोरूक्षंलज्जयावनताभवत् ॥ 2 ॥
प्रविशंतीवगात्राणिस्वानिसाजनकात्मजा ।
वाक्षरैस्स्सैःसशल्येवभृशमाश्रूण्यवर्तयत् ॥ 3 ॥
ततोबाष्पपरिक्लिन्नंप्रमार्जंतीस्वमाननम् ।
शनैर्गद्गदयावाचाभर्तारमिदमब्रवीत् ॥ 4 ॥
किंमामसदृशंवाक्यमीदृशंश्रोत्रदारुणम् ।
रूक्षंश्रावयसेवीर प्राकृतःप्राकृतमिव ॥ 5 ॥
न तथास्मिमहाबाहो यथामामवगच्छसि ।
प्रत्ययंगच्छमेस्वेनचारित्रेणैवतेशपे ॥ 6 ॥
पृथकस्त्रीणांप्रचारेणजातिंत्वंपरिशंकसे ।
परित्यजैनांशंकांतुयदितेऽहंपरीक्षिता ॥ 7 ॥
यदहंगात्रसंपर्शंगतास्मिविशवाप्रभो ।
कामकारो न मेतत्रदैवंतत्रापराध्यति ॥ 8 ॥
मदधीनंतुयत्तन्मेहृदयंत्वयिवर्तते ।
पराधीनेषुगात्रेषुकिंकरिष्याम्यनीश्वरी ॥ 9 ॥
सहसम्वृद्धभावेनसंसर्गेण च मानद ।
यदितेऽहं न विज्ञाताहतातेनास्मिशाश्वतम् ॥ 10 ॥
प्रेषितस्तेमहावीरोहनुमानवलोककः ।
लंकास्थाहंत्वयाराजन्किंतदा न विसर्जिता ॥ 11 ॥
प्रत्यक्षंवानरस्यास्यतद्वाक्यसमनंतरम् ।
त्वयासंत्यक्तयावीरत्यक्तंस्याजजीवितंमया ॥ 12 ॥
न वृथातेश्रमोऽयंस्यात्संशयेन्यस्यजीवितम् ।
सुहृज्जनपरिक्लेशो न चायंविपुलस्तव ॥ 13 ॥
त्वयातुनृपशार्दूलदोषमेवानुवर्तता ।
लघुनेवमनुष्येणस्त्रीत्वमेवपुरस्कृतम् ॥ 14 ॥
अपदेशेनजनकादुत्पततिर्वसुथातलात् ।
ममवृत्तं च वृत्तज्ञबहुते न पुरस्कृतम् ॥ 15 ॥
न प्रमाणीकृतंपाणिर्भाल्येममनिपीडितः ।
ममभक्तिश्चशीलं च सर्वंतेपृष्ठतःकृतम् ॥ 16 ॥
इतिब्रुवंतीरुदतीबाष्पगद्गगभाषिणी ।
उवाचलक्ष्मणंसीतादीनंध्यानपरायणम् ॥ 17 ॥
चितांमेकुरुसौमित्रेव्यवनस्यास्यभेषजम् ।
मिध्यापवादोपहतानाहंजीवितुमुत्सहे ॥ 18 ॥
अप्रीतेनगुणैर्भर्त्रात्यक्तायाजनसंसदि ।
याक्षमामेगतिर्गंतुंप्रवेक्ष्येहव्यवाहनम् ॥ 19 ॥
एवमुक्तस्तुवैदेह्यालक्ष्मणःपरवीरहा ।
अमर्षवशमापन्नोराघवंसमुदैक्षत ॥ 20 ॥
स विज्ञायततश्छंदंरामस्याकारसूचितम् ।
चितांचकारसौमित्रिर्मतेरामस्यवीर्यवान् ॥ 21 ॥
नहिरामंतदाकश्चित्कालांतकयमोपमम् ।
अनुनेतुमथोवक्तुंद्रष्टुंवाप्यशकत्सुहृत् ॥ 22 ॥
अधोमुखंस्थितंरामंततःकृत्वाप्रदक्षिणम् ।
उपावर्ततवैदेहीदीप्यमानंहुताशनम् ॥ 23 ॥
प्रणम्यदैवतेभ्यश्चब्राह्मणेभ्यश्चमैथिली ।
बद्धांजलिपुटाचेदमुवाचानगिसमीपतः ॥ 24 ॥
यथामेहृदयंनित्यंनापसर्पतिराघवात् ।
तथालोकस्यसाक्षीमांसर्वतःपातुपावकः ॥ 25 ॥
यथामांशुद्धचरितांदुष्टांजानातिराघवः ।
तथालोकस्यसाक्षीमांसर्वतःपातुपावकः ॥ 26 ॥
कर्मणामनसावाचायथानातिचराम्यहम् ।
राघवंसर्वधर्मज्ञंतथामांपातुपावकः ॥ 27 ॥
आदित्योभगवान्वायुर्धिशश्चंद्रस्तथैव च ।
अहश्चापितथासंध्येरात्रिश्चपृथिवीतथआ ॥ 28 ॥
यथान्येऽपिविजानंतितथाचारित्रसंयुताम् ।
एवमुक्त्वातुवैदेहीपरिक्रम्यहुताशनम् ।
विवेशज्वलनंदीप्तंनिःशंकेनांतरात्मना ॥ 29 ॥
नश्चसुमहांस्तत्रबालवृद्धसमाकुलः ॥ 30 ॥
ददर्शमैथिलींदीप्तांप्रविशंतींहुताशनम् ।
सातप्तनवहेमाभातप्तकांचनभूषणा ॥ 31 ॥
पपातज्वलनंदीप्तंसर्वलोकस्यसन्निधौ ।
ददृशुस्तांविशालाक्षींपतंतींहव्यवाहनम् ॥ 32 ॥
सीतांसर्वाणिरूपाणिरुक्मवेदिनिभांतदा ।
ददृशुस्तांमहाभागांप्रविशंतींहुताशनम् ॥ 33 ॥
सीतांकृत्स्नास्त्रयोलोकाःपुण्यामाज्याहुतीमिव ।
प्रचुक्रुशुःस्त्रियःसर्वास्तांदृष्टवाहव्यवाहवे ॥ 34 ॥
पतंतींसंस्कृतांमन्रन्स्सैर्वसोर्दारामिवाध्वरे ।
ददृशुस्तांत्रयोलोकादेवगंधर्वदानवाः ॥ 35 ॥
शस्तांपतंतींनिरयेत्रिविवाद्धेवतामिव ।
तस्यामग्निंविशंत्यांतुहाहेतिविपुलःस्वनः ॥ 36 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकोनविंशत्यधिकशततमस्सर्गः ॥