View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.70 युद्धकांड - सप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ सप्ततितमस्सर्गः ।

नरांतकंहतंदृष्टवाचुक्रुशुर्नैरृतर्षभाः ।
देवांतकस्त्रिमूर्धा च पौलस्त्यश्चमहोदरः ॥ 1 ॥

आरूढोमेघसंकाशंवारणेंद्रंमहोदरः ।
वालिपुत्रंमहावीर्यमभिदुद्राववीर्यवान् ॥ 2 ॥

भ्रारातृव्यसनसंतप्तस्तदादेवांतकोबली ।
आदायपरिघंदीप्तमंगदंसमभिद्रवत् ॥ 3 ॥

रथमादित्यसंकाशंयुक्तंपरमवाजिभिः ।
आस्थायत्रिशिरावीरोवालिपुत्रमथाभ्ययात् ॥ 4 ॥

स त्रिभिर्देवदर्पघ्नेर्नेरृतींद्रेरभिद्रुतः ।
वृक्षमुत्पाटयामासमहाविटपमंगदः ॥ 5 ॥

देवांतकायतंवीरच्शिक्षेपसहसांगदः ।
महावृक्षंमहाशाखंशक्रोदीप्तमिवाशनिम् ॥ 6 ॥

स ववर्ष ततो वृक्षान् शिलासःच कपि कुन्जरः ।
तान् प्रचिच्चेद सम्क्रुद्धस् त्रिशिरा निशितैःशरैः ॥ 7 ॥

स ववर्षततोवृक्षान् शैलाश्चकपिकुंजरः ।
तान् प्रचिच्छेदसंकृद्धस्त्रिशिरानिशितैश्शरैः ॥ 8 ॥

परिघाग्रेणतान् वृक्षान्बभंज च महोदरः ।
त्रिशिराश्चांगदंवीरमभिदुद्रावसायकैः ॥ 9 ॥

गजेनसमभिद्रुत्यवालिपुत्रंमहोदरः ।
जघानोरसिसंकृद्धस्तोमरैर्वज्रसन्निभैः ॥ 10 ॥

देवांतकश्चसंकृद्धःपरिघेणतदांगदम् ।
उपगम्याभिहत्याशुव्यपचक्रामवेगवान् ॥ 11 ॥

सत्रिभिर्नैरृतश्रेष्ठैर्युगतपत्समभिद्रुतः ।
न विव्यथेमहातेजावालिपुत्रःप्रतापवान् ॥ 12 ॥

स वेगवान्महावेगंकृत्वापरमदुर्जयः ।
तलेनभृशमुत्पत्यजघानास्यमहागजम् ॥ 13 ॥

तस्यतेनप्रहारेणनागराजस्यसंयुगे ।
पेततुर्लोचनेतस्यविननाद स वारणः ॥ 14 ॥

विषाणंचास्यसःनिष्कृष्यवालिपुत्रोमहाबलः ।
देवांतकमभिप्लुत्यताडयामाससंयुगे ॥ 15 ॥

परिघ अभिहतसःच अपि वानर इंद्र आत्मजस् तदा ।
जानुभ्यां पतितो भूमौ पुनर् एव उत्पपात ह ॥ 16 ॥

अथाश्वस्यमहातेजाःकृच्छ्राद्देवांतकोबली ।
आविध्यपरिघंवेगादाजघानतदांगदम् ॥ 17 ॥

परिघाभिहतश्चापिवानरेंद्रात्मजस्तदा ।
जानुभ्यांपतितोबूमौपुनरेवोत्पपात ह ॥ 18 ॥

तमुत्पतंतंत्रिशिरास्त्रिभिर्बाणैरजिह्मगैः ।
घोरैर्हरिपतेःपुत्रेंललाटेऽभिजघान ह ॥ 19 ॥

ततोऽंगदंपरिक्षिप्तंत्रिभिर्नैरृतपुंगवैः ।
हनूमानपिविज्ञायनीलश्चापिप्रतस्थतुः ॥ 20 ॥

तश्चिक्षेपशैलाग्रंनीलस्त्रिशिरसेतदा ।
तद्रावणसुतोधीमाबनिभेदनिशितैश्शरैः ॥ 21 ॥

तद्बाणशतनिर्भिन्नंविदारितशिलातलम् ।
सविस्फुलिंगंसज्वालंनिपपातगिरेशशिरः ॥ 22 ॥

ततोजृंभितमालोक्यहर्षाद्वेवांतकस्तदा ।
परिघेणाभिदुद्रावमारुतात्मजमाहवे ॥ 23 ॥

तमापतंतमुत्प्लुत्यहनुमान्मारुतात्मजः ।
आजघानतदामूर्ध्निवज्रकल्पेनमुष्टिना ॥ 24 ॥

शिरसिप्रहरवनीरस्तदावायुसुतोबली ।
नादेनाकंपयच्चैवराक्षसान् स महाकपिः ॥ 25 ॥

मुष्टिनिष्पिष्टविभिन्नमूर्धानिर्वांतदंताक्षिविलंबिजिव्वाः ।
देवांतकोराक्षसराजसूनुर्गतासुरुत्व्यांसहसापपात ॥ 26 ॥

तस्मिन्हतेराक्षसयोधमुख्येमहाबलेसंयतिदेवशत्रौ ।
क्रुद्धस्त्रिमूर्धानिशिताग्रमुग्रंववर्षनीलोरसिबाणवर्षम् ॥ 27 ॥

महोदरस्तुसंकृद्धःकुंजरंपर्वतोपमम् ।
भूयस्समधिरुह्याशुमंदरंरमशिमानिव ॥ 28 ॥

ततोबाणमयंवर्षंनीलस्योरस्यपातयत् ।
गिरौवर्षंतडिच्चक्रचापवानिवतोयदः ॥ 29 ॥

ततश्शरौघेरभिवर्ष्यमाणोविभिन्नगात्रःकपिसैन्यपालः ।
नीलोबभूवाथविसृष्टगात्रोविष्टंभितस्तेनमहाबलेन ॥ 30 ॥

ततस्तुनीलःप्रतिलभ्यसंज्ञांशैलंसमुत्पाट्यसवृक्षषंंडम् ।
ततस्समुत्पत्यभृशोग्रवेशोमहादरंतेनजघानमूर्ध्नि ॥ 31 ॥

ततः स्सशैलेद्रनिपातभग्नोमहोदरस्तेनमहाद्विपेन ।
विपोथितोभूमितलेगतासुःपपातवज्राभिहतोयथाद्रिः ॥ 32 ॥

पितृव्यंनिहतंदृष्टवात्रिशिराश्चापमाददे ।
हनूमंतं च संकृद्धोविव्याथनिशितैश्शरैः ॥ 33 ॥

स वायुसुनूःकुपितश्चिक्षेपशिखरंगिरेः ।
त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेदबहुधाबली ॥ 34 ॥

तद्व्यर्थंशिखरंदृष्टवाद्रुमवर्षंमहाकपिः ।
विससर्जरणेतस्मिन्रावणस्यसुतंप्रति ॥ 35 ॥

तमापतंतमाकाशेद्रुमवर्षंप्रतापवान् ।
त्रिशिरानिशितैर्बाणैश्चिच्छेद च ननाद च ॥ 36 ॥

हनूमानुतोप्लुत्यहयंस्त्रीशिरसस्तदा ।
विददारनखैःक्रुद्धोनागेंद्रंमृगराडिव ॥ 37 ॥

तां दृष्ट्वा घोर सम्काशां शक्तिं भग्नां हनूमता ।
प्रहृष्टा वानर गणा विनेदुर् जलदा;इव ॥ 38 ॥

दिवःक्षिप्तामिवोल्कांतांशक्तिंक्षिप्तामसंगताम् ।
गृहीत्वाहरिशार्दूलोबभंज च ननाद च ॥ 39 ॥

तांदृष्टवाघोरसंकाशांशक्तिंभग्नांहनूमता ।
प्रहृष्टावानरगणाविनेदुर्जलदाइव ॥ 40 ॥

तःखडगंसमुद्यम्यत्रिशिराराक्षसोत्तमः ।
निजघानतदाव्यूढेवायुपुत्रस्यवक्षसि ॥ 41 ॥

खडगप्रहाराभिहतोहनुमान्मारुतात्मजः ।
आजघानतिशिरसंतलेनोरसिवीर्यवान् ॥ 42 ॥

सतलाभिहतस्तेनस्रस्तहस्तायुधोभुवि ।
निपपातमहातेजास्त्रिशिरास्त्यक्तचेतनः ॥ 43 ॥

स तस्यपततःखंगंतमाच्छिद्यमहाकपिः ।
ननादगिरिसंकाशस्त्रासयन् सर्वनैरृता ॥ 44 ॥

अमृष्यमाणस्तंघोषमुत्पपातनिशाचरः ।
उत्पत्य च हनूमंतंताडयामासमुष्टिना ॥ 45 ॥

तेनमुष्टिप्रहोरेणसंचुकोपमहाकपिः ।
कुपितश्चनिजग्राहकिरीटेराक्षसर्षभम् ॥ 46 ॥

स तस्यशीर्षाण्यसिनाशितेनकिरीटजुष्टानिसकुंडलानि ।
क्रुद्धःप्रचिच्छेदसुतोऽनिलस्यत्वष्टुस्सुतस्येवशिरांसिशक्रः ॥ 47 ॥

तान्यायताक्षाण्यगसन्निभानिप्रदीप्तवैश्वानरलोचनानि ।
पेतुशिरांसींद्ररिपोःर्धरण्यांज्योतींषिमुक्तानियथार्कमार्गात् ॥ 48 ॥

तस्मिन् न्हतेदेवरिपौत्रिशीर्षेहनूमताशक्रपराक्रमेण ।
नेदुःप्लवंगाःप्रचचालभूमीरक्षांस्यथोदुद्रुविरेसमंतात् ॥ 49 ॥

हतंत्रिशिरसंदृष्टवातथैवचमहोदरम् ।
हतौप्रेक्षयदुराधर्षौदेवांतकनरांतकौ ॥ 50 ॥

चुकोपपरमामर्षीमत्तोराक्षसपुंगवः ।
जग्राहार्चिष्मतींघोरांगदांसर्वायसींशुभाम् ॥ 51 ॥

हेमपट्टपरिक्षिप्तांमांसशोणितफेनिलाम् ।
विराजमानांवपुषांशत्रुशोणितरंजिताम् ॥ 52 ॥

तेजसासंप्रदीप्ताग्रांरक्तमाल्यविभूषिताम् ।
ऐरावतमहापद्मसार्वभौमभयावहाम् ॥ 53 ॥

गदामादायसंकृद्धोमत्तोराक्षसपुंगवः ।
हरीन् समभिदुद्रावयुगांतानगिरिवज्वलन् ॥ 54 ॥

अथर्षभस्समुत्पत्यवानरोरावणानुजम् ।
मत्तानीकमुपागम्यतस्थौतस्याग्रतोबली ॥ 55 ॥

तंपुरस्तात् स्थितंदृष्टवावानरंपर्वतोपमम् ।
आजघानोरसिक्रुद्धोगदयावज्रकल्पया ॥ 56 ॥

स तयाऽभिहतस्तेनगदयावानरर्षभः ।
भिन्नवक्षास्समाधूतस्सुस्रावरुधिरंबहु ॥ 57 ॥

स संज्ञांप्राप्यसुचिरादृषभोवानरर्षभः ।
क्रुद्धोविस्फुरमाणौष्ठोमहापार्श्वमुदैक्षत ॥ 58 ॥

स वेगवान् वेगवदभ्युपेत्यतंराक्षसंवानरवीरमुख्यः ।
सम्वर्त्यमुष्टिंसहसाजघानबाह्वंतरेशैलनिकाशरूपः ॥ 59 ॥

स कृत्तमूलस्सहसेववृक्षःक्षितौपपातक्षतजोक्षितांगः ।
तांचास्यघोरांयमदंडकल्पांगदांप्रगृह्याशुतदाननाद ॥ 60 ॥

मुहूर्तमासीत्सगतासुकल्पःप्रत्यागतात्मासहसासुरारिः ।
उत्पत्यसंध्याभ्रसमानवर्णस्तंवारिराजात्मजमाजघान ॥ 61 ॥

स मूर्भितोभूमितलेपपातमुहूर्तमुत्पत्यपुनस्ससंज्ञः ।
तामेवतस्याद्रिवराद्रिकल्पांगदांसमाविध्यजघानसंख्ये ॥ 62 ॥

मत्त अनीकं महा पार्श्वं जघान रण मूर्धनि ।
स स्वया गदया भिन्नो विकीर्ण दशन ईक्षणः ।
निपपात महा पार्श्वो वज्र आहत;इव अचलः ॥ 63 ॥

अभिदुद्राववेगेनगदांतस्यमहात्मनः ।
गृहीत्वातांगदांभीमामाविध्य च पुनःपुनः ॥ 64 ॥

मत्तानीकंमहात्मानंजघानरणमूर्धनि ।
स स्वयागदयाभग्नोविदीर्णदशनेक्षणः ॥ 65 ॥

निपपातततोमत्तोवज्राहतैवाचलः ।
विदीर्णनयनेभूमौगतसत्त्वेगतायुषि ॥ 66 ॥

पतितेराक्षसेतस्मिन् विद्रुतंराक्षसंबलम् ।
तस्मिन्न्हतेभ्रातरिरावणस्यतन्नैरृतानांबलमर्णवाभम् ।
त्यक्तायुधंकेवलजीवितार्थंदुद्रावभिन्नार्णवसन्निकाशम् ॥ 67 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे सप्ततितमस्सर्गः ॥




Browse Related Categories: