View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.58 अयोध्याकांड - अष्टपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ अष्टपंचाशस्सर्गः ।

प्रत्याश्वस्तो यदा राजा मोहात्प्रत्यागतं पुनः ।
अथाऽजुहाव तं सूतं रामवृत्तांतकारणात् ॥ 1 ॥

अथ सूतो महाराजं कृतांजलिरुपस्थितः ।
राममेवानुशोचंतं दुःखशोकसमन्वितम् ॥ 2 ॥

वृद्धं परमसंतप्तं नवग्रहमिव द्विपम् ।
विनिश्वसंतं ध्यायंतमस्वस्थ मिव कुङञरम् ॥ 3 ॥

राजा तु रजसा सूतं ध्वस्तांगं समुपस्थितम् ।
अश्रुपूर्णमुखं दीनमुवाच परमार्तवत् ॥ 4 ॥

क्वनु वत्स्यति धर्मात्मा वृक्षमूलमुपाश्रितः ।
सोऽत्यंतसुखित स्सूत किमशिष्यति राघवः ॥ 5 ॥

दुःखस्यानुचितो दुःखं सुमंत्र शयनोचितः ।
भूमिपालात्मजो भूमौ शेते कथमनाथवत् ॥ 6 ॥

यं यांतमनुयांति स्म पदातिरथकुंजराः ।
स वत्स्यति कथं रामो विजनं वन माश्रितः ॥ 7 ॥

व्यालैर्मृगैराचरितं कृष्णसर्पनिषेवितम् ।
कथं कुमारौ वैदेह्या सार्धं वन मुपस्थितौ ॥ 8 ॥

सुकुमार्या तपस्विन्या सुमंत्र सह सीतया ।
राजपुत्रौ कथं पादैरवरुह्य रथाद्गतौ ॥ 9 ॥

सिद्धार्थः खलु सूत त्वं येन दृष्टौ ममाऽत्मजौ ।
वनांतं प्रविशंतौ तावश्विनाविवमंदरम् ॥ 10 ॥

किमुवाच वचो रामः किमुवाच च लक्ष्मणः ।
सुमंत्र वनमासाद्य किमुवाच च मैथिली ॥ 11 ॥

आसितं शयितं भुक्तं सूत रामस्य कीर्तय ।
जीविष्यामहमेतेन ययातिरिव साधुषु ॥ 12 ॥

इति सूतो नरेंद्रेण बोधित स्सज्जमानया ।
उवाच वाचा राजानं स बाष्पपरिबद्धया ॥ 13 ॥

अब्रवीन्मां महाराज धर्ममेवानुपालयन् ।
अंजलिं राघवः कृत्वा शिरसाऽभिप्रणम्य च ॥ 14 ॥

सूत मद्वचनात्तस्य तातस्य विदितात्मनः ।
शिरसा वंदनीयस्य वंद्यौ पादौ महात्मनः ॥ 15 ॥

सर्वमंतःपुरं वाच्यं सूत मद्वचनात्त्वया ।
आरोग्यमविशेषेण यथार्हं चाभिवादनम् ॥ 16 ॥

माता च मम कौसल्या कुशलं चाभिवादनम् ।
अप्रमादं च वक्तव्या ब्रूयाश्चैनामिदं वचः ॥ 17 ॥

धर्मनित्या यथाकालमग्न्यगारपरा भव ।
देवि देवस्य पादौ च देववत्परिपालय ॥ 18 ॥

अभिमानं च मानं च त्यक्त्वा वर्तस्व मातृषु ।
अनु राजानमार्यां च कैकेयीमंब कारय ॥ 19 ॥

कुमारे भरते वृत्तिर्वर्तितव्या च राजवत् ।
अर्थज्येष्ठा हि राजानो राजधर्ममनुस्मर ॥ 20 ॥

भरतः कुशलं वाच्यो वाच्यो मद्वचनेन च ।
सर्वास्वेव यथान्यायं वृत्तिं वर्तस्व मातृषु ॥ 21 ॥

वक्तव्यश्च महाबाहुरिक्ष्वाकुकुलनंदनः ।
पितरं यौवराज्यस्थो राज्यस्थमनुपालय ॥ 22 ॥

अतिक्रांतवया राजा मास्मैनं व्यवरोरुधः ।
कुमार राज्ये जीव त्वं तस्यैवाज्ञाप्रवर्तनात् ॥ 23 ॥

अब्रवीच्चापि मां भूयो भृशमश्रूणि वर्तयन् ।
मातेव मम माता ते द्रष्टव्या पुत्रगर्धिनी ॥ 24 ॥

इत्येवं मां महराज ब्रुवन्नेव महायशाः ।
रामो राजीवताम्राक्षो भृशमश्रूण्यवर्तयत् ॥ 25 ॥

लक्ष्मणस्तु सुसंकृद्धो निश्श्वसन्वाक्यमब्रवीत् ।
केनायमपराधेन राजपुत्रो विवासितः ॥ 26 ॥

राज्ञा तु खलु कैकेय्या लघुत्वाश्रित्य शासनम् ।
कृतं कार्यमकार्यं वा वयं येनाभिपीडिताः ॥ 27 ॥

यदि प्रव्राजितो रामो लोभकारणकारितम् ।
वरदाननिमित्तं वा सर्वथा दुष्कृतं कृतम् ॥ 28 ॥

इदं तावद्यथाकाममीश्वरस्य कृते कृतम् ।
रामस्य तु परित्यागे न हेतु मुपलक्षये ॥ 29 ॥

असमीक्षय समारब्धं विरुद्धं बुध्दिलाघवात् ।
जनयिष्यति संक्रोशं राघवस्य विवासनम् ॥ 30 ॥

अहं तावन्महाराजे पितृत्वं नोपलक्ष्ये ।
भ्राता भर्ता च बंधुश्च पिता च मम राघवः ॥ 31 ॥

सर्वर्लोकप्रियं त्यक्त्वा सर्वलोकहिते रतम् ।
सर्वलोकोऽनुरज्येत कथं त्वाऽनेनकर्मणा ॥ 32 ॥

सर्वप्रजाभिरामं हि रामं प्रव्राज्य धार्मिकम् ।
सर्वलोकं विरुध्येमं कथं राजा भविष्यसि ॥ 33 ॥

जानकी तु महाराज निश्श्वसंती मनस्विनी ।
भूतोपहतचित्तेव विष्ठिता विस्मृता स्मिता ॥ 34 ॥

अदृष्टपूर्वव्यसना राज्यपुत्री यशस्विनी ।
तेन दुःखेन रुदती नैव मां किंचिदब्रवीत् ॥ 35 ॥

उद्वीक्षमाणा भर्तारं मुखेन परिशुष्यता ।
मुमोच सहसा बाष्पं मां प्रयांतमुदीक्ष्य सा ॥ 36 ॥

तथैव रामोऽश्रुमुखः कृतांजलिः स्थितोऽभवल्लक्ष्मणबाहुपालितः ।
तथैव सीता रुदती तपस्विनी निरीक्षते राजरथं तथैव माम् ॥ 37 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे अष्टपंचाशस्सर्गः ॥




Browse Related Categories: