View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.74 अरण्यकांड - चतुःसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ चतुःसप्ततितमस्सर्गः ।

तौ कबंधेन तं मार्गं पंपाया दर्शितं वने ।
प्रतस्थतुर्दिशं गृह्य प्रतीचीं नृवरात्मजौ ॥ 1 ॥

तौ शैलेष्वाचितानेकान् क्षौद्रकल्पफलांद्रुमान् ।
वीक्षंतौ जग्मतुर्ध्रष्टुं सुग्रीवं रामलक्ष्मणौ ॥ 2 ॥

कृत्वा च शैलपृष्ठे तु तौ वासं रामलक्ष्मणौ ।
पंपायाः पश्चिमं तीरं राघवावुपतस्थतुः ॥ 3 ॥

तौ पुष्करिण्याः पंपायास्तीरमासाद्य पश्चिमम् ।
अपश्यतां ततस्तत्र शबर्या रम्यमाश्रमम् ॥ 4 ॥

तौ तमाश्रममासाद्य द्रुमैर्बहुभीरावृतम् ।
सुरम्यमभिवीक्षंतौ शबरीमभ्युपेयतुः ॥ 5 ॥

तौ च दृष्ट्वा तदा सिद्धा समुत्थाय कृतांजलिः ।
रामस्य पादौ जग्राह लक्ष्मणस्य च धीमतः ॥ 6 ॥

पाद्यमाचमनीयं च सर्वं प्रादाद्यथाविधि ।
तामुवाच ततो रामश्श्रमणीं संशितव्रताम् ॥ 7 ॥

कच्चित्ते निर्जिता विघ्नाः कच्चित्ते वर्धते तपः ।
कच्चित्ते नियतः क्रोध आहारश्च तपोधने ॥ 8 ॥

कच्चित्ते नियमाः प्राप्ताः कच्चित्ते मनसः सुखम् ।
कच्चित्ते गुरुशुश्रूषा सफला चारुभाषिणि ॥ 9 ॥

रामेण तापसी पृष्टा सा सिद्धा सिद्धसम्मता ।
शशंस शबरी वृद्धा रामाय प्रत्युपस्थिता ॥ 10 ॥

अद्य प्राप्ता तपस्सिद्धिस्तव संदर्शनान्मया ।
अद्य मे सफलं तप्तं गुरवश्च सुपूजिताः ॥ 11 ॥

अद्य मे सफलं जन्म स्वर्गश्चैव भविष्यति ।
त्वयि देववरे राम पूजिते पुरुषर्षभ ॥ 12 ॥

चक्षुषा तव सौम्येन पूतास्मि रघुनंदन ।
गमिष्याम्यक्षयान्लोकांस्त्वत्प्रसादादरिंदम ॥ 13 ॥

चित्रकूटं त्वयि प्राप्ते विमानैरतुलप्रभैः ।
इतस्ते दिवमारूढा यानहं पर्यचारिषम् ॥ 14 ॥

तैश्चाहमुक्ता धर्मज्ञैर्महाभागैर्महर्षिभिः ।
आगमिष्यति ते रामस्सुपुण्यमिममाश्रमम् ॥ 15 ॥

स ते प्रतिग्रहीतव्यस्सौमित्रिसहितोतिथिः ।
तं च दृष्ट्वा वरान्लोकानक्षयांस्त्वं गमिष्यसि ॥ 16 ॥

मया तु विविधं वन्यं संचितं पुरुषर्षभ ।
तवार्थे पुरुषव्याघ्र पंपायास्तीरसंभवम् ॥ 17 ॥

एवमुक्तस्स धर्मात्मा शबर्या शबरीमिदम् ।
राघवः प्राह विज्ञाने तां नित्यमबहिष्कृताम् ॥ 18 ॥

दनोस्सकाशात्तत्त्वेन प्रभावं ते महात्मनः ।
श्रुतं प्रत्यक्षमिच्छामि संद्रष्टुं यदि मन्यसे ॥ 19 ॥

एतत्तु वचनं श्रुत्ता रामवक्त्राद्विनिस्सृतम् ।
शबरी दर्शयामास तावुभौ तद्वनं महत् ॥ 20 ॥

पश्य मेघघनप्रख्यं मृगपक्षिसमाकुलम् ।
मतंगवनमित्येव विश्रुतं रघुनंदन ॥ 21 ॥

इह ते भावितात्मानो गुरवो मे महावने ।
जुहवांचक्रिरे तीर्थं मंत्रवन्मंत्रपूजितम् ॥ 22 ॥

इयं प्रत्यक्थ्सली वेदिर्यत्र ते मे सुसत्कृताः ।
पुष्पोपहारं कुर्वंति श्रमादुद्वेपिभिः करैः ॥ 23 ॥

तेषां तपःप्रभावेण पश्याद्यापि रघूद्वह ।
द्योतयंति दिशस्सर्वाश्श्रिया वेद्योऽतुलप्रभाः ॥ 24 ॥

अशक्नुवद्भिस्तैर्गंतुमुपवासश्रमालसैः ।
चिंतितेऽभ्यागतान्पश्य सहितान्सप्तसागरान् ॥ 25 ॥

कृताभिषेकैस्तैर्न्यस्ता वल्कलाः पादपेष्विह ।
अद्यापि नावशुष्यंति प्रदेशे रघुनंदन ॥ 26 ॥

देवकार्याणि कुर्वद्भिर्यानीमानि कृतानि वै ।
पुष्पैःकुवलयैस्सार्धं म्लानत्वं नोपयांतिवै ॥ 27 ॥

कृत्स्नं वनमिदं दृष्टं श्रोतव्यं च श्रुतं त्वया ।
तदिच्छाम्यभ्यनुज्ञाता त्यक्तुमेतत्कलेबरम् ॥ 28 ॥

तेषामिच्छाम्यहं गंतुं समीपं भावितात्मनाम् ।
मुनीनामाश्रमो येषामहं च परिचारिणी ॥ 29 ॥

धर्मिष्ठं तु वचश्श्रुत्वा राघवस्सहलक्ष्मणः ।
प्रहर्षमतुलं लेभे आश्चर्यमिति तत्त्वतः ॥ 30 ॥

तामुवाच ततो रामश्श्रमणीं संशितव्रताम् ।
अर्चितोऽहं त्वया भक्त्या गच्छकामं यथासुखम् ॥ 31 ॥

इत्युक्ता जटिला वृद्धा चीरकृष्णाजिनांबरा ।
तस्मिन्मुहूर्ते शबरी देहं जीर्णं जिहासती ॥ 32 ॥

अनुज्ञाता तु रामेण हुत्वात्मानं हुताशने ।
ज्वलत्पावकसंकाशा स्वर्गमेव जगाम सा ॥ 33 ॥

दिव्याभरणसंयुक्ता दिव्यमाल्यानुलेपना ।
दिव्यांबरधरा तत्र बभूव प्रियदर्शना ॥ 34 ॥

विराजयंती तं देशं विद्युत्सौदामिनी यथा ।
यत्र ते सुकृतात्मानो विहरंति महर्षयः ॥ 35 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे चतुःसप्ततितमस्सर्गः ॥




Browse Related Categories: