View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.30 किष्किंधाकांड - त्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ त्रिंशस्सर्गः ।

गुहं प्रविष्टे सुग्रीवे विमुक्ते गगने घनैः ।
वर्षरात्रोषितो रामः कामशोकाभिपीडितः ॥ 1 ॥

पांडुरं गगनं दृष्ट्वा विमलं चंद्रमंडलम् ।
शारदीं रजनीं चैव दृष्ट्वा ज्योत्स्नानुलेपनाम् ॥ 2 ॥

कामवृत्तं च सुग्रीवं नष्टां च जनकात्मजाम् ।
बुद्ध्वा कालमतीतं च मुमोह परमातुरः ॥ 3 ॥

स तु संज्ञामुपागम्य मुहूर्तान्मतिमान्पुनः ।
मनस्स्थामपि वैदेहीं चिंतयामास राघवः ॥ 4 ॥

आसीनः पर्वतस्याग्रे हेमधातुविभूषिते ।
शारदं गगनं दृष्ट्वा जगाम मनसा प्रियाम् ॥ 5 ॥

दृष्ट्वा च विमलं व्योम गतविद्युद्वलाहकम् ।
सारसारावसंघुष्ठं विललापार्तया गिरा ॥ 6 ॥

सारसारावसन्नादैस्सारसारवनादिनी ।
याऽऽश्रमे रमते बाला साऽद्य मे रमते कथम् ॥ 7 ॥

पुष्पितांश्चासनान् दृष्ट्वा कांचनानिव निर्मलान् ।
कथं सा रमते बाला पश्यंती मामपश्यती ॥ 8 ॥

या पुरा कलहंसानां स्वरेण कलभाषिणी ।
बुध्यते चारुसर्वांगी साऽद्य मे बुद्ध्यते कथम् ॥ 9 ॥

निस्वनं चक्रवाकानां निशम्य नहचारिणाम् ।
पुंडरीकविशालाक्षी कथमेषा भविष्यति ॥ 10 ॥

सरांसि सरितो वापीः काननानि वनानि च ।
तां विना मृगशाबाक्षीं चरन्नाद्य सुखं लभे ॥ 11 ॥

अपि तां मद्वियोगाच्छ सौकुमार्याच्च भामिनीम् ।
सुदूरं पीडयेत्कामश्शरद्गुणनिरंतरः ॥ 12 ॥

एवमादि नरश्रेष्ठो विललाप नृपात्मजः ।
विहंग इव सारंगस्सलिलं त्रिदशेश्वरात् ॥ 13 ॥

ततश्चंचूर्य रम्येषु फलार्थी गिरिसानुषु ।
ददर्श पर्युपावृत्तो लक्ष्मीवान्लक्ष्मणोऽग्रजम् ॥ 14 ॥

तं चिंतया दुस्सहया परीतं विसंज्ञमेकं विजने मनस्वी ।
भ्रातुर्विषादात्परितापदीनः समीक्ष्य सौमित्रिरुवाच रामम् ॥ 15 ॥

किमार्य कामस्य वशंगतेन किमात्मपौरुष्यपराभवेन ।
अयं सदा संह्रियते समाधिः किमत्र योगेन निवर्तितेन ॥ 16 ॥

क्रियाभियोगं मनसः प्रसादं समाधियोगानुगतं च कालम् ।
सहायसामर्थ्यमदीनसत्त्वः स्वकर्म हेतुं च कुरुष्व हेतुम् ॥ 17 ॥

न जानकी मानव वंशनाथ त्वया सनाथा सुलभा परेण ।
न चाग्निचूडां ज्वलितामुपेत्य न दह्यते वीर वरार्ह कच्छित् ॥ 18 ॥

सलक्षणं लक्ष्मणमप्रधृष्यं स्वभावजं वाक्यमुवाच रामः ।
हितं च पथ्यं च नयप्रसक्तं ससाम धर्मार्थसमाहितं च ॥ 19 ॥

निस्संशयं कार्यमवेक्षितव्यं क्रियाविशेषोऽह्यनुवर्तितव्यः ।
ननु प्रवृत्तस्य दुरासदस्य कुमार कार्यस्य फलं च चिंत्यम् ॥ 20 ॥

अथ पद्मपलाशाक्षीं मैथिलीमनुचिंतयन् ।
उवाच लक्ष्मणं रामो मुखेन परिशुष्यता ॥ 21 ॥

तर्पयित्वा सहस्राक्षस्सलिलेन वसुंधराम् ।
निर्वर्तयित्वा सस्यानि कृतकर्मा व्यवस्थितः ॥ 22 ॥

स्निग्धगंभीरनिर्घोषाश्शैलद्रुमपुरोगमाः ।
विसृज्य सलिलं मेघाः परिश्रांता नृपात्मज ॥ 23 ॥

नीलोत्पलदलश्यामाश्श्यामीकृत्वा दिशो दश ।
विमदा इव मातंगाश्शांतवेगाः पयोधराः ॥ 24 ॥

जलगर्भा महामेघा कुटजार्जुनगंधिनः ।
चरित्वा विरतास्सौम्य वृष्टिवातास्समुद्यताः ॥ 25 ॥

घनानां वारणानां च मयूराणां च लक्ष्मण ।
नादः प्रस्रवणानां च प्रशांतस्सहसाऽनघ ॥ 26 ॥

अभिवृष्टा महामेघैर्निर्मलाश्चित्रसानवः ।
अनुलिप्ता इवाऽभांति गिरयश्चित्रदीप्तिभिः ॥ 27 ॥

शाखासु सप्तच्छदपादपानां प्रभासु तारार्कनिशाकराणाम् ।
लीलासु चैवोत्तम वारणानां श्रियं विभज्याद्य शरत्प्रवृत्ता ॥ 28 ॥

संप्रत्यनेकाश्रय चित्रशोभा लक्ष्मीश्शरत्कालगुणोपनीता ।
सूर्याग्रहस्तप्रतिबोधितेषु पद्माकरेष्वभ्यधिकं विभाति ॥ 29 ॥

सप्तच्छदानां कुसुमोपगंधी षट्पादबृंदैरनुगीयमानः ।
मत्तद्विपानां पवनोऽनुसारी दर्पं विनेष्यन्नधिकं करोति ॥ 30 ॥

अभ्यागतैश्चारुविशालपक्षै स्सरःप्रियैः पद्मरजोवकीर्णैः ।
महानदीनां पुलिनोपयातैः क्रीडंति हंसास्सह चक्रवाकैः ॥ 31 ॥

मदप्रगल्भेषु च वारणेषु गवां समूहेषु च दर्पितेषु ।
प्रसन्नतोयासु च निम्नगासु विभाति लक्ष्मीर्बहुधा विभक्ता ॥ 32 ॥

नभस्समीक्ष्यांबुधरैर्विमुक्तं विमुक्तबर्हाभरणा वनेषु ।
प्रियास्वसक्ता विनिवृत्तशोभा गतोत्सवा ध्यानपरा मयूराः ॥ 33 ॥

मनोज्ञगंधैः प्रियकैरनल्पैः पुष्पातिभारावनताग्रशाखैः ।
सुवर्णगौरैर्नयनाभिरामै रुद्योतितानीव वनांतराणि ॥ 34 ॥

प्रियान्वितानां नलिनीप्रियाणां वने रतानां कुसुमोद्धतानाम् ।
मदोत्कटानां मदलालसानां गजोत्तमानां गतयोऽद्य मंदाः ॥ 35 ॥

व्यभ्रं नभश्शस्त्रविधौतवर्णं कृशप्रवाहानि नदीजलानि ।
कह्लारशीताः पवनाः प्रवांति तमोविमुक्ताश्च दिशः प्रकाशाः ॥ 36 ॥

सूर्यातपक्रामणनष्टपंका भूमिश्चिरोदधाटितसांद्ररेणुः ।
अन्योन्यवैरेणसमायुताना मुद्योगकालोऽद्य नराधिपानाम् ॥ 37 ॥

शरद्गुणाप्यायितरूपशोभाः प्रहर्षिताः पांशुसमुत्क्षितांगाः ।
मदोत्कटास्संप्रति युद्धलुब्धा वृषा गवां मध्यगता नदंति ॥ 38 ॥

समन्मथं तीव्रगतानुरागाः कुलान्विता मंदगतिं करिण्यः ।
मदान्वितं संपरिवार्य यांतं वनेषु भर्तारमनुप्रयांति ॥ 39 ॥

त्यक्त्वा वराण्यात्मविभूषणानि बर्हाणि तीरोपगता नदीनाम् ।
निर्भर्त्स्यमाना इव सारसौघैः प्रयांति दीना विमदा मयूराः ॥ 40 ॥

वित्रास्य कारंडवचक्रवाका न्महारवैर्भिन्नकटा गजेंद्राः ।
सरस्सु बद्धांबुजभूषणेषु विक्षोभ्य विक्षोभ्य जलं पिबंति ॥ 41 ॥

व्यपेतपंकासु सवालुकासु प्रसन्नतोयासु सगोकुलासु ।
ससारसारावनिनादितासु नदीषु हृष्टा निपतंति हंसाः ॥ 42 ॥

नदीघनप्रस्रवणोदकाना मतिप्रवृद्धानिलबर्हिणानाम् ।
प्लवंगमानां च गतोत्सवानां द्रुतं रवास्संप्रति संप्रणष्टाः ॥ 43 ॥

अनेकवर्णास्सुविनष्टकाया नवोदितेष्वंबुधरेषु नष्टाः ।
क्षुधार्दिता घोरविषा बिलेभ्य श्चिरोषिता विप्रसरंति सर्पाः ॥ 44 ॥

चंचच्चंद्रकरस्पर्शहर्षोन्मीलिततारका ।
अहो रागवती संध्या जहाति स्वयमंबरम् ॥ 45 ॥

रात्रिश्शशांकोदितसौम्यवक्त्रा तारागणोन्मीलितचारुनेत्रा ।
ज्योत्स्नांशुकप्रावरणा विभाति नारीव शुक्लांशुकसंवृतांगी ॥ 46 ॥

विपक्वशालिप्रसवानि भुक्त्वा प्रहर्षिता सारसचारुपंक्तिः ।
नभस्समाक्रामति शीघ्रवेगाः वातावधूता ग्रथितेव माला ॥ 47 ॥

सुप्तैकहंसं कुमुदैरुपेतं महाह्रदस्थं सलिलं विभाति ।
घनैर्विमुक्तं निशि पूर्णचंद्रं तारागणाकीर्णमिवांतरिक्षम् ॥ 48 ॥

प्रकीर्णहंसाकुलमेखलानां प्रबुद्धपद्मोत्पलमालिनीनाम् ।
वाप्युत्तमानामधिकाऽद्य लक्ष्मी र्वरांगनानामिव भूषितानाम् ॥ 49 ॥

वेणुस्वनव्यंजिततूर्यमिश्रः प्रत्यूषकालानिलसंप्रवृद्धः ।
सम्मूर्छितो गर्गरगोवृषाणा मन्योन्यमापूरयतीव शब्दः ॥ 50 ॥

नवैर्नदीनां कुसुमप्रभासै र्व्याधूयमानैर्मृदुमारुतेन ।
धौतामलक्षौमपटप्रकाशैः कूलानि काशैरुपशोभितानि ॥ 51 ॥

वनप्रचंडा मधुपानशौंडाः प्रियान्विताष्षट्चरणाः प्रह्रृष्टाः ।
वनेषु मत्ताः पवनानुयात्रां कुर्वंति पद्मासनरेणुगौराः ॥ 52 ॥

जलं प्रसन्नं कुमुदं प्रभासं क्रौंचस्वनश्शालिवनं विपक्वम् ।
मृदुश्च वायुर्विमलश्च चंद्र श्शंसंति वर्षव्यपनीतकालम् ॥ 53 ॥

मीनोपसंदर्शितमेखलानां नदीवधूनां गतयोऽद्य मंदाः ।
कांतोपभुक्तालसगामिनीनां प्रभातकालेष्विव कामिनीनाम् ॥ 54 ॥

सचक्रवाकानि सशैवलानि काशैर्दुकूलैरिव संवृतानि ।
सपत्रलेखानि सरोचनानि वधूमुखानीव नदीमुखानि ॥ 55 ॥

प्रफुल्लबाणासनचित्रितेषु प्रहृष्टषट्पादनिकूजितेषु ।
गृहीतचापोद्यतचंडदंडः प्रचंडचारोऽद्य वनेषु कामः ॥ 56 ॥

लोकं सुवृष्ट्या परितोषयित्वा नदीस्तटाकानि च पूरयित्वा ।
निष्पन्नसस्यां वसुधां च कृत्वा त्यक्त्वा नभस्तोयधराः प्रणष्टाः ॥ 57 ॥

दर्शयंति शरन्नद्यः पुलिनानि शनैः शनैः ।
नवसंगमसव्रीडा जघनानीव योषितः ॥ 58 ॥

प्रसन्नसलिलास्सौम्य कुररीभिर्विनादिताः ।
चक्रवाकगणाकीर्णा विभांति सलिलाशयाः ॥ 59 ॥

असनास्सप्तपर्णाश्च कोविदाराश्च पुष्पिताः ।
दृश्यंते बंधुजीवाश्च श्यामाश्च गिरिसानुषु ॥ 60 ॥

हंससारसचक्राह्वैः कुररैश्च समंततः ।
पुलिनान्यवकीर्णानि नदीनां पश्य लक्ष्मण ॥ 61 ॥

अन्योन्यबद्धवैराणां जिगीषूणां नृपात्मज ।
उद्योगसमयस्सौम्य पार्थिवानामुपस्थितः ॥ 62 ॥

इयं सा प्रथमा यात्रा पार्थिवानां नृपात्मज न च पश्यामि सुग्रीवमुद्योगं वा तथाविधम् ॥ 63 ॥

चत्वारो वार्षिका मासा गता वर्षशतोपमाः ।
मम शोकाभिभूतस्य सौम्य सीतामपश्यतः ॥ 64 ॥

चक्रवाकीव भर्तारं पृष्ठतोऽनुगता वनम् ।
विषमं दंडकारण्यमुद्यानमिव याऽगता ॥ 65 ॥

प्रियाविहीने दुःखार्ते हृतराज्ये विवासिते ।
कृपां न कुरुते राजा सुग्रीवो मयि लक्ष्मण ॥ 66 ॥

अनाथो हृतराज्योऽयं रावणेन च धर्षितः ।
दीनो दूरगृहः कामी मां चैव शरणं गतः ॥ 67 ॥

इत्येतैः कारणैस्सौम्य सुग्रीवस्य दुरात्मनः ।
अहं वानरराजस्य परिभूतः परंतप ॥ 68 ॥

स कालं परिसंख्याय सीतायाः परिमार्गणे ।
कृतार्थस्समयं कृत्वा दुर्मतिर्नावबुध्यते ॥ 69 ॥

त्वं च किष्किंधां प्रविश्य ब्रूहि वानरपुंगवम् ।
मूर्खं ग्राम्यसुखे सक्तं सुग्रीवं वचनान्मम ॥ 70 ॥

अर्थिनामुपपन्नानां पूर्वं चाप्युपकारिणाम् ।
आशां संश्रुत्य यो हंति स लोके पुरुषाधमः ॥ 71 ॥

शुभं वा यदि वा पापं यो हि वाक्यमुदीरितम् ।
सत्येन प्रतिगृह्णाति स वीरः पुरुषोत्तमः ॥ 72 ॥

कृतार्था ह्यकृतार्थानां मित्राणां न भवंति ये ।
तान्मृतानपि क्रव्यादाः कृतघ्नान्नोपभुंजते ॥ 73 ॥

नूनं कांचनपृष्ठस्य विकृष्टस्य मया रणे ।
द्रष्टुमिच्छति चापस्य रूपं विद्युद्गणोपमम् ॥ 74 ॥

घोरं ज्यातलनिर्घोषं क्रुद्धस्य मम संयुगे ।
निर्घोषमिव वज्रस्य पुनस्संश्रोतुमिच्छसि ॥ 75 ॥

काममेवंगतेऽप्यस्य परिज्ञाते पराक्रमे ।
त्वत्सहायस्य मे वीर न चिंता स्यान्नृपात्मज ॥ 76 ॥

यदर्थमयमारंभः कृतः परपुरंजयः ।
समयं नाभिजानाति कृतार्थः प्लवगेश्वरः ॥ 77 ॥

वर्षासमयकालं तु प्रतिज्ञाय हरीश्वरः ।
व्यतीतांश्चतुरो मासान्विहरन्नावबुध्यते ॥ 78 ॥

सामात्यपरिषत्क्रीडन्पानमेवोपसेवते ।
शोकदीनेषु नास्मासु सुग्रीवः कुरुते दयाम् ॥ 79 ॥

उच्यतां गच्छ सुग्रीवस्त्वया वत्स महाबल ।
मम रोषस्य यद्रूपं ब्रूयाश्चैवमिदं वचः ॥ 80 ॥

न च संकुचितः पंथा येन वाली हतो गतः ।
समये तिष्ठ सुग्रीव मा वालिपथमन्वगाः ॥ 81 ॥

एक एव रणे वाली शरेण निहतो मया ।
त्वां तु सत्यादतिक्रांतं हनिष्यामि सबांधवम् ॥ 82 ॥

तदेवं विहिते कार्ये यद्धितं पुरुषर्षभ ।
तत्तद्भ्रूहि नरश्रेष्ठत्वर कालव्यतिक्रमः ॥ 83 ॥

कुरुष्व सत्यं मयि वानरेश्वर प्रतिश्रुतं धर्ममवेक्ष्य शाश्वतम् ।
मा वालिनं प्रेत्य गतो यमक्षयं त्वमद्य पश्येर्मम चोदितैश्शरैः ॥ 84 ॥

स पूर्वजं तीव्रविवृद्धकोपं लालप्यमानं प्रसमीक्ष्य दीनम् ।
चकार तीव्रां मतिमुग्रतेजा हरीश्वरे मानववंशनाथः ॥ 85 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे त्रिंशस्सर्गः ॥




Browse Related Categories: