View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.35 युद्धकांड - पंचत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ पंचत्रिंशस्सर्गः ।

तेनशंखविमिश्रेणभेरीशब्देनराघवः ।
उपयातिमहाबाहूरामःपरपुरंजयः ॥ 1 ॥

तंनिनादंनिशम्याथरावणोराक्षसेश्वरः ।
मुहूर्तंध्यानमास्थायसचिवानभ्युदैक्षत ॥ 2 ॥

अथतान्सचिवांस्तत्रसर्वानाभाष्यरावणः ।
सभांसन्नादयन् सर्वामित्युवाचमहाबलः ॥ 3 ॥

जगत्संतापन्क्रूरोगर्हयन्राक्षसेश्वरः ।
तरणंसागरस्यापिविक्रमंबलसंजियम् ॥ 4 ॥

यदुक्तवंतोरामस्यभवंतस्तन्मयाश्रुतम् ।
भवतश्चाप्यहंवेमदियुद्धेसत्यपराक्रमान् ॥ 5 ॥

तूषिकानीक्षतोऽन्योन्यंविदित्वारामविक्रमम् ।
ततस्तुसुमहाप्राज्ञोमाल्यवान्नामराक्षसः ॥ 6 ॥

रावणस्यवचश्श्रुत्वामातुःपैतामहोऽब्रवीत् ।
विद्यास्वभिविनीतोयोराजाराजन्नयानुगः ॥ 7 ॥

सशास्तिचिरमैश्वर्यमरींश्चकुरुतेवशे ।
संदधानोहिकालेनविगृह्णंश्चारिभिस्सह ॥ 8 ॥

स्वपक्षवर्थनंकुर्वन्महदैश्वर्यमश्नुते ।
हीयमानेनकर्तव्योराज्ञासंधिस्समेवच ॥ 9 ॥

नशत्रुमवमन्येतज्यायान्कुर्वीतविग्रहम् ।
तन्मह्यंरोचतेसंधिस्सहरामेणरावण ॥ 10 ॥

यदर्थमभियुक्ताः स्मसीतातस्मैप्रदीयताम् ।
यस्यदेवर्षयस्सर्वेगंधर्वाश्चजयैषिणः ॥ 11 ॥

विरोथंमागमस्तेनसंधिस्तेतेनरोचताम् ।
असृजद्भगवान्पक्षौद्वावेनहिपितामहः ॥ 12 ॥

सुराणामसुराणांचधर्माधर्मौतदाश्रयौ ।
धर्मोहिश्रूयतेपक्षीह्यमराणांमहात्मनाम् ॥ 13 ॥

अधर्मोरक्षसांपक्षोह्यसुराणांचराक्षस ।
धर्मोवैग्रसतेऽधर्मंततःकृतमभूद्युगम् ॥ 14 ॥

अधर्मोग्रसतेधर्मंततस्तिष्यःप्रवर्तते ।
तत्त्वयाचरयालोकांधर्मोपिविनिहतोमहान् ॥ 15 ॥

अधर्मःप्रगृहीतश्चतेनास्मद्बलिनःपरे ।
सप्रमादावदिवृद्धस्तेऽधर्मोहिग्रसतेहिनः ॥ 16 ॥

विवर्थयतिपक्षंचसुराणांसुरभावनः ।
विषयेषुप्रसक्तेनयत्किंचित्कारणात्वया ॥ 17 ॥

ऱ्षीणां अग्नि कल्पानां उद्वेगो जनितो महान् ।
तेषां प्रभावो दुर्धर्षः प्रदीप्त;इव पावकः ॥ 18 ॥

तपसाभावितात्मानोधर्मस्यानुग्रहेरताः ।
मुख्यर्यज्ञैर्यजंत्येतेनित्यंतैस्सैर्द्विजातयः ॥ 19 ॥

जुह्वत्यनगींश्चविधिवद्वेदांश्चोच्चैरधीयते ।
अभिभूयचरक्षांसिब्रह्मघोषानुदैरयन् ॥ 20 ॥

दिशोऽपिविद्रुतास्सर्वेस्तनयित्नुरिवोष्णगे ।
ऋषीणामग्निकल्पानामग्निहोत्रासमुत्थितः ॥ 21 ॥

अदत्तेरक्षसांतेजोधूमोव्याप्यदिशोदश ।
तेषुतेषुचदेशेषुपुण्येष्वेवदृढव्रतैः ॥ 22 ॥

चर्यमाणंतपस्तीव्रंसंतापयतिराक्षसान् ।
देवदानवयक्षेभ्योगृहीतश्चवरस्त्वया ॥ 23 ॥

मनुष्या वानरा ऋक्षा गोलांगूला महाबलाः ।
बलवंत इहागम्य गर्जंति दृढविक्रमाः ॥ 24 ॥

उत्पातान्विविधांदृष्टवाघोरन्बहुविधांस्तथा ।
विनाशमनुपश्यामिसर्वेषांरक्षसामहम् ॥ 25 ॥

खराभिसंतिताघोरामेघाःप्रतिभयंकराः ।
शोणितेनाभिवर्षंतिलंकामुष्णेनसर्वतः ॥ 26 ॥

रुदतांवाहनानांचप्रपवंत्यौस्रबिंदवः ।
ध्वजाध्वस्ताविवर्णाश्चनप्रभांतियथापुरम् ॥ 27 ॥

व्याला गोमायवो ग्R​ इध्रा वाशंति च सुभैरवम् ।
प्रविश्य लन्कां अनिशं समवायांसः च कुर्वते ॥ 28 ॥

कालिकाः पांडुरैर् दंतैः प्रहसंत्य् अग्रतः स्थिताः ।
स्त्रियः स्वप्नेषु मुष्णंत्यो गृहाणि प्रतिभाष्य च ॥ 29 ॥

गृहाणांबलिकर्माणिश्वानःपर्युपभुंजते ।
खरागोषुप्रजायंतेमूषकानकुलैस्सह ॥ 30 ॥

मार्जाराद्वीपिभिस्सार्थंसूकराश्शुनकैस्सह ।
किन्नराराक्षसैश्चापिसमीयुर्मानुषैस्सह ॥ 31 ॥

पांडुरारक्तपादाश्चविहंगाःकालचोदिताः ।
राक्षसानांविनाशायकपोताविचरंतिच ॥ 32 ॥

वीचीकूचीतिवाश्य्नत्यश्शारिकावेश्मसुस्थिताः ।
पतंतिग्रथिताश्चापिनिर्जिताःकलहैषिणः ॥ 33 ॥

पक्षिणश्च मृगाः सर्वे प्रत्यादित्यं रुदंति ते ।
करालो विकटो मुंडः पुरुषः कृष्ण पिन्गलः ॥ 34 ॥

कालोगृहाणिसर्वेषांकालेकालेऽन्ववेक्षते ।
एतान्यन्यानिदुष्टानिनिमित्तान्युत्पतंतिच ॥ 35 ॥

विष्णुंमन्यामहेरामंमानुषंरूपमास्थितम् ।
नहिमानुषमात्रोऽसौराघवोदृढविक्रमः ॥ 36 ॥

येनबद्धःसमुद्रेचसेतुःसपरमाद्भुतः ।
कुरुष्वनरराजेनसधनिंरामेणरावण ॥ 37 ॥

ज्ञात्वावधार्यकर्माणिक्रियतामायतिक्षमम् ।
इदंवचस्तत्रनिशम्यमाल्यवान्परीक्ष्यरक्षोधिपतेर्मनःपुनः ।
अनुत्तमेषूत्तमपौरुषोबलीबभूवतूष्णींसमवेक्ष्यरावणम् ॥ 38 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे पंचत्रिंशस्सर्गः ॥




Browse Related Categories: