View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

1.37 बालकाण्ड - सप्तत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकाण्डम् ।
अथ सप्तत्रिंशस्सर्गः ।

तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा ।
सेनापतिमभीप्सन्तः पितामहमुपागमन् ॥ 1 ॥

ततोऽब्रुवन् सुरास्सर्वे भगवन्तं पितामहम् ।
प्रणिपत्य सुरास्सर्वे सेन्द्रास्साग्निपुरोगमाः ॥ 2 ॥

यो न स्सेनापतिर्देव दत्तो भगवता पुरा ।
तपः परममास्थाय तप्यते स्म सहोमया ॥ 3 ॥

यदत्रानन्तरं कार्यं लोकानां हितकाम्यया ।
संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः ॥ 4 ॥

देवतानां वचश्श्रुत्वा सर्वलोकपितामहः ।
सान्त्वयन्मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् ॥ 5 ॥

शैल पुत्र्या यदुक्तं तन्न प्रजास्यथ पत्निषु ।
तस्या वचनमक्लिष्टं सत्यमेतन्न संशयः ॥ 6 ॥

इयमाकाशगा गङ्गा यस्यां पुत्रं हुताशनः ।
जनयिष्यति देवानां सेनापतिमरिन्दमम् ॥ 7 ॥

ज्येष्ठा शैलेन्द्रदुहिता मानयिष्यति तत्सुतम् ।
उमायास्तद्बहुमतं भविष्यति न संशयः ॥ 8 ॥

तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनन्दन ।
प्रणिपत्य सुरास्सर्वे पितामहमपूजयन् ॥ 9 ॥

ते गत्वा पर्वतं राम कैलासं धातुमण्डितम् ।
अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः ॥ 10 ॥

देवकार्यमिदं देव संविधत्स्व हुताशन ।
शैलपुत्र्यां महातेजो गङ्गायां तेज उत्सृज ॥ 11 ॥

देवतानां प्रतिज्ञाय गङ्गामभ्येत्य पावकः ।
गर्भं धारय वै देवि देवतानामिदं प्रियम् ॥ 12 ॥

तस्य तद्वचनं श्रुत्वा दिव्यं रूपमधारयत् ।
दृष्ट्वा तन्महिमानं स समन्तादवकीर्यत ॥ 13 ॥

समन्ततस्तदा देवीमभ्यषिञ्चत पावकः ।
सर्वस्रोतांसि पूर्णानि गङ्गाया रघुनन्दन ॥ 14 ॥

तमुवाच ततो गङ्गा सर्वदेवपुरोहितम् ।
अशक्ता धारणे देव तव तेज स्समुद्धतम् ।
दह्यमानाग्निना तेन सम्प्रव्यथितचेतना ॥ 15 ॥

अथाब्रवीदिदं गङ्गां सर्वदेवहुताशनः ।
इह हैमवती पादे गर्भोऽयं सन्निवेश्यताम् ॥ 16 ॥

श्रुत्वा त्वग्निवचो गङगा तं गर्भमतिभास्वरम् ।
उत्ससर्ज महातेज स्स्रोतोभ्यो हि तदानघ ॥ 17 ॥

यदस्या निर्गतं तस्मात्तप्तजाम्बूनदप्रभम् ।
काञ्चनं धरणीं प्राप्तं हिरण्यममलं शुभम् ॥ 18 ॥

ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभ्यजायत ॥ 19 ॥

मलं तस्याभवत्तत्र त्रपु सीसकमेव च ।
तदेतद्धरणीं प्राप्य नानाधातुरवर्धत ॥ 20 ॥

निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरञ्जितम् ।
सर्वं पर्वतसन्नद्धं सौवर्णमभवद्वनम् ॥ 21 ॥

जातरूपमिति ख्यातं तदा प्रभृति राघव ।
सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् ॥ 22 ॥

तृणवृक्षलतागुल्मं सर्वं भवति काञ्चनम् ।
तं कुमारं ततो जातं सेन्द्रास्सह मरुद्गणाः ॥ 23 ॥

क्षीरसम्भावनार्थाय कृत्तिकास्समयोजन् ।
ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् ॥ 24 ॥

ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः ।
ततस्तु देवता स्सर्वाः कार्तिकेय इति ब्रुवन् ॥ 25 ॥

पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः ।
4 तेषां तद्वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे ॥ 26 ॥

स्नापयन् परया लक्ष्म्या दीप्यमानं यथानलम् ।
स्कन्द इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवात् ॥ 27 ॥

कार्तिकेयं महाभागं काकुत्स्थ ज्वलनोपमम् ।
प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् ॥ 28 ॥

षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः ।
गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा ॥ 29 ॥

अजयत्स्वेन वीर्येण दैत्यसेनागणान् विभुः ।
सुरसेनागणपतिं ततस्तमतुलद्युतिम् ॥ 30 ॥

अभ्यषिञ्चन् सुरगणा स्समेत्याग्निपुरोगमाः ।
एष ते राम गङ्गाया विस्तरोऽभिहितो मया ॥ 31 ॥

कुमारसम्भवश्चैव धन्यः पुण्यस्तथैव च ।
भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः ।
आयुष्मान् पुत्रपौत्रैश्च स्कन्दसालोक्यतां व्रजेत् ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकाण्डे सप्तत्रिंशस्सर्गः ॥




Browse Related Categories: