View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.37 बालकांड - सप्तत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ सप्तत्रिंशस्सर्गः ।

तप्यमाने तपो देवे देवाः सर्षिगणाः पुरा ।
सेनापतिमभीप्संतः पितामहमुपागमन् ॥ 1 ॥

ततोऽब्रुवन् सुरास्सर्वे भगवंतं पितामहम् ।
प्रणिपत्य सुरास्सर्वे सेंद्रास्साग्निपुरोगमाः ॥ 2 ॥

यो न स्सेनापतिर्देव दत्तो भगवता पुरा ।
तपः परममास्थाय तप्यते स्म सहोमया ॥ 3 ॥

यदत्रानंतरं कार्यं लोकानां हितकाम्यया ।
संविधत्स्व विधानज्ञ त्वं हि नः परमा गतिः ॥ 4 ॥

देवतानां वचश्श्रुत्वा सर्वलोकपितामहः ।
सांत्वयन्मधुरैर्वाक्यैस्त्रिदशानिदमब्रवीत् ॥ 5 ॥

शैल पुत्र्या यदुक्तं तन्न प्रजास्यथ पत्निषु ।
तस्या वचनमक्लिष्टं सत्यमेतन्न संशयः ॥ 6 ॥

इयमाकाशगा गंगा यस्यां पुत्रं हुताशनः ।
जनयिष्यति देवानां सेनापतिमरिंदमम् ॥ 7 ॥

ज्येष्ठा शैलेंद्रदुहिता मानयिष्यति तत्सुतम् ।
उमायास्तद्बहुमतं भविष्यति न संशयः ॥ 8 ॥

तच्छ्रुत्वा वचनं तस्य कृतार्था रघुनंदन ।
प्रणिपत्य सुरास्सर्वे पितामहमपूजयन् ॥ 9 ॥

ते गत्वा पर्वतं राम कैलासं धातुमंडितम् ।
अग्निं नियोजयामासुः पुत्रार्थं सर्वदेवताः ॥ 10 ॥

देवकार्यमिदं देव संविधत्स्व हुताशन ।
शैलपुत्र्यां महातेजो गंगायां तेज उत्सृज ॥ 11 ॥

देवतानां प्रतिज्ञाय गंगामभ्येत्य पावकः ।
गर्भं धारय वै देवि देवतानामिदं प्रियम् ॥ 12 ॥

तस्य तद्वचनं श्रुत्वा दिव्यं रूपमधारयत् ।
दृष्ट्वा तन्महिमानं स समंतादवकीर्यत ॥ 13 ॥

समंततस्तदा देवीमभ्यषिंचत पावकः ।
सर्वस्रोतांसि पूर्णानि गंगाया रघुनंदन ॥ 14 ॥

तमुवाच ततो गंगा सर्वदेवपुरोहितम् ।
अशक्ता धारणे देव तव तेज स्समुद्धतम् ।
दह्यमानाग्निना तेन संप्रव्यथितचेतना ॥ 15 ॥

अथाब्रवीदिदं गंगां सर्वदेवहुताशनः ।
इह हैमवती पादे गर्भोऽयं सन्निवेश्यताम् ॥ 16 ॥

श्रुत्वा त्वग्निवचो गङगा तं गर्भमतिभास्वरम् ।
उत्ससर्ज महातेज स्स्रोतोभ्यो हि तदानघ ॥ 17 ॥

यदस्या निर्गतं तस्मात्तप्तजांबूनदप्रभम् ।
कांचनं धरणीं प्राप्तं हिरण्यममलं शुभम् ॥ 18 ॥

ताम्रं कार्ष्णायसं चैव तैक्ष्ण्यादेवाभ्यजायत ॥ 19 ॥

मलं तस्याभवत्तत्र त्रपु सीसकमेव च ।
तदेतद्धरणीं प्राप्य नानाधातुरवर्धत ॥ 20 ॥

निक्षिप्तमात्रे गर्भे तु तेजोभिरभिरंजितम् ।
सर्वं पर्वतसन्नद्धं सौवर्णमभवद्वनम् ॥ 21 ॥

जातरूपमिति ख्यातं तदा प्रभृति राघव ।
सुवर्णं पुरुषव्याघ्र हुताशनसमप्रभम् ॥ 22 ॥

तृणवृक्षलतागुल्मं सर्वं भवति कांचनम् ।
तं कुमारं ततो जातं सेंद्रास्सह मरुद्गणाः ॥ 23 ॥

क्षीरसंभावनार्थाय कृत्तिकास्समयोजन् ।
ताः क्षीरं जातमात्रस्य कृत्वा समयमुत्तमम् ॥ 24 ॥

ददुः पुत्रोऽयमस्माकं सर्वासामिति निश्चिताः ।
ततस्तु देवता स्सर्वाः कार्तिकेय इति ब्रुवन् ॥ 25 ॥

पुत्रस्त्रैलोक्यविख्यातो भविष्यति न संशयः ।
4 तेषां तद्वचनं श्रुत्वा स्कन्नं गर्भपरिस्रवे ॥ 26 ॥

स्नापयन् परया लक्ष्म्या दीप्यमानं यथानलम् ।
स्कंद इत्यब्रुवन् देवाः स्कन्नं गर्भपरिस्रवात् ॥ 27 ॥

कार्तिकेयं महाभागं काकुत्स्थ ज्वलनोपमम् ।
प्रादुर्भूतं ततः क्षीरं कृत्तिकानामनुत्तमम् ॥ 28 ॥

षण्णां षडाननो भूत्वा जग्राह स्तनजं पयः ।
गृहीत्वा क्षीरमेकाह्ना सुकुमारवपुस्तदा ॥ 29 ॥

अजयत्स्वेन वीर्येण दैत्यसेनागणान् विभुः ।
सुरसेनागणपतिं ततस्तमतुलद्युतिम् ॥ 30 ॥

अभ्यषिंचन् सुरगणा स्समेत्याग्निपुरोगमाः ।
एष ते राम गंगाया विस्तरोऽभिहितो मया ॥ 31 ॥

कुमारसंभवश्चैव धन्यः पुण्यस्तथैव च ।
भक्तश्च यः कार्तिकेये काकुत्स्थ भुवि मानवः ।
आयुष्मान् पुत्रपौत्रैश्च स्कंदसालोक्यतां व्रजेत् ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे सप्तत्रिंशस्सर्गः ॥




Browse Related Categories: