View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.104 युद्धकांड - चतुरधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ चतुरधिकशततमस्सर्गः ।

तस्यक्रुद्धस्यवदनंदृष्टवारामस्यधीमतः ॥ 1 ॥

सर्वभूतानिवित्रेसुःप्राकंपत च मेदिनी ।
सिंहशार्दूलान्शैलस्संचचालचलद्द्रुमः ।
बभूवचापिक्षुभितःसमुद्रःसरितांपतिः ॥ 2 ॥

खराश्चखरनिर्घोषागगनेपरुषाघनाः ।
औत्पातिकानिनर्दंतस्समंतात्परिचक्रमुः ॥ 3 ॥

रामंदृष्टवासुसंक्रुद्धमुत्पातांश्चैवसुदारुणान् ।
वित्रेसुस्सर्वभूतानिरावणस्याभवद्भयम् ॥ 4 ॥

विमानस्थास्तदादेवागंधर्वाश्चमहोरगाः ।
ऋषिदावनदैत्याश्चगरुत्मंतश्चखेचराः ॥ 5 ॥

ददृशुस्तेतदायुद्धंलोकसम्वर्तसंस्थितम् ।
नानाप्रहरणैर्भीमैश्शूरयोस्संप्रयुध्यतोः ॥ 6 ॥

ऊचुस्सुरासुरास्सर्वेतदाविग्रहमागताः ।
प्रेक्षमाणामहर्युद्धंवाक्यंभक्त्याप्रहृष्टवत् ॥ 7 ॥

दशग्रीवंजयेत्याहुरसुराःसमवस्थिताः ।
देवाराममवोचंस्तेत्वंजयेतिपुनःपुनः ॥ 8 ॥

एतस्मिन्नंतरेक्रोधाद्राघवस्य स रावणः ।
प्रहर्तुकामोदुष्टात्मास्पृशन् प्रहरणंमहत् ॥ 9 ॥

वज्रसारंमहानादंसर्वशत्रुनिबर्हणम् ।
शैलशृंगनिभैःकूटैश्चित्तदृष्टिभयावहम् ॥ 10 ॥

सधूममिवतीक्ष्णाग्रंयुगांताग्निचमोपमम् ।
अतिरौद्रमनासाद्यंकालेनापिदुरासदम् ॥ 11 ॥

त्रासनंसर्वभूतानांदारणंभेदनंतथा ।
प्रदीप्तमिवरोषेणशूलंजग्राहरावणः ॥ 12 ॥

तच्छूलंपरमक्रुद्धोमध्येजग्राहवीर्यवान् ।
अनेकैःसमरेश्शूरैराक्षसैःपरिवारितः ॥ 13 ॥

समुद्यम्यमहाकायोननादयुधिभैरवम् ।
संरक्तनयनोरोषात्स्वसैन्यमभिहर्षयन् ॥ 14 ॥

पृथिवींचांतरिक्षं च दिशश्चप्रदिशस्तथा ।
प्राकंपयत्तदाशब्दोराक्षसेंद्रस्यदारुणः ॥ 15 ॥

अतिनादस्य्यदानेनतेनतस्यदुरात्मनः ।
सर्वभूतानिवित्रेसुस्सागरश्चप्रचुक्षुभे ॥ 16 ॥

स गृहीत्वामहावीर्यश्शूलंतद्रावणोमहत् ।
विनद्यसुमहानादंरामंपरुषमब्रवीत् ॥ 17 ॥

शूलोऽयंवज्रसारस्तेरामरोषान्मयोद्यतः ।
तवभ्रातृसहायस्यसम्यक् प्राणान् हरिष्यति ॥ 18 ॥

रक्षसामद्यशूराणांनिहतानांचमूमुखे ।
त्वांनिहत्यरणश्लाघीकरोमितरसासमम् ॥ 19 ॥

तिष्ठेदानींनिहमनित्वामेषशूलेनराघव ।
एवमुक्त्वा स चिक्षेपतच्छूलंराक्षसाधिपः ॥ 20 ॥

तद्रावणकरान्मुक्तंविद्युन्मालासमावृतम् ।
अष्टघंटंमहानादंवियद्गतमशोभत ॥ 21 ॥

तच्छूलंराघवोदृष्टवाज्वलंतंघोरदर्शनम् ।
ससर्जविशिखान्रामश्चापमायम्यवीर्यवान् ॥ 22 ॥

आपतंतंशरौघेणवारयामासराघवः ।
उत्पतंतंयुगांतानगिंजलौघैरिववासवः ॥ 23 ॥

निर्ददाह स तान्बाणान्रामकार्मुकनिःसृतान् ।
रावणस्यमहान् शूलःपतंगानिवपावकः ॥ 24 ॥

तांदृष्टवाभस्मसाद्भूतान्शूलसम्स्पर्शचूर्णितान् ।
सायकानंतरिक्षस्थान् राघवःक्रोधमाहरत् ॥ 25 ॥

स तांमातलिनानीतांशक्तिंवासवसम्मताम् ।
जग्राहपरमक्रुद्धोराघवोरघुनंदनः ॥ 26 ॥

सातोलिताबलवताशक्तिर्घंटाकृतस्वना ।
नभःप्रज्वालयामासयुगांतोल्केवसप्रभा ॥ 27 ॥

साक्षिप्ताराक्षसेंद्रस्यतस्मिन्कूलेपपात ह ।
भिन्नःशक्त्यामहान् शूलोनिपपातहतद्युतिः ॥ 28 ॥

निर्भिभेदततोबाणैर्हयानस्यमहाजवान् ।
रामस्त्रीक्ष्णैर्महावेगैर्भाणवद्भिरजिह्मगैः ॥ 29 ॥

निर्बिभेदोरपितदारावणंनिशितैश्शरैः ।
राघवःपरमायत्तोललाटेपत्रतिभिस्त्रिभिः ॥ 30 ॥

स शरैर्भिन्नसर्वांगोगात्रप्रसृतशोणितः ।
राक्षसेंद्रस्समूहस्थःफुल्लाशोकैवाबभौ ॥ 31 ॥

स रामबाणैरतिविद्धगात्रोनिशाचरेंद्रःक्षतजार्द्रगात्रः ।
जगामखेदं च समाजमध्येक्रोधं च चक्रेसुभृशंतदानीम् ॥ 32 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे चतुरधिकशततमस्सर्गः ॥




Browse Related Categories: