View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.46 युद्धकांड - षट्चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ षट्चत्वारिंशस्सर्गः ।

ततोद्यांपृथिवींचैववीक्षमाणावनौकसः ।
ददृशुःसंततौबाणैर्भ्रातरौरामलक्ष्मणौ ॥ 1 ॥

वृष्टवेवोपरतेदेवेकृतकर्मणिराक्षसे ।
आजगामाथतंदेशंससुग्रीवोविभीषणः ॥ 2 ॥

नीलद्विविदमैंदाश्चसुषेणःकुमुदांगदाः ।
तूर्णंहनुमतासार्धमन्वशोचंतराघवौ ॥ 3 ॥

अचेष्टौमंदनिश्श्वासौशोणितौघपरिप्लुतौ ।
शरजालाचितौस्तब्दौशयानौशरतल्पयोः ॥ 4 ॥

निःश्वसंतौयथासर्पौनिश्चेष्टौमंदविक्रमौ ।
रुधिरस्राद्विग्धांगौतापनीयाविवध्वजौ ॥ 5 ॥

तौवीरशयनेवीरौशयानौमंदचेष्टितौ ।
यूथपैस्तैः परिवृतौबाष्पव्याकुललोचनैः ॥ 6 ॥

राघवौपतितौदृष्टवाशरजालसमावृतौ ।
बभूवुर्वेर्व्यथितास्सर्वेवानरास्सविभीषणाः ॥ 7 ॥

अंतरिक्षंनिरीक्षंतोदिशस्सर्वाश्चवानराः ।
नचैनंमाययाछन्नंददृशूरावणिःरणे ॥ 8 ॥

तंतुमायाप्रतिच्छन्नंमाययैवविभीषणः ।
वीक्षमाणोददर्शाथभ्रातुःपुत्रमवस्थितम् ॥ 9 ॥

तमप्रतिकर्माणमप्रतिद्वंद्वमाहवे ।
ददर्शांतर्हितंवीरंवरदानाद्विभीषणः ॥ 10 ॥

तेजसायशसाचैवविक्रमेणचसम्युतम् ।
इंद्रजित्त्वात्मनःकर्मतौशयानौसमीक्ष्यच ॥ 11 ॥

उवाचपरमप्रीतोहर्षयन् सर्वनैरृतान् ।
दूषणस्यचहंतारौखरस्यचमहाबलौ ॥ 12 ॥

सादितौमामकैर्बाणैर्भ्रातरौरामलक्ष्मणौ ।
नेमौमोक्षयितुंशक्यावेतस्मादिषुबंधनात् ॥ 13 ॥

सर्वैरपिसमागम्यसर्षिसंघैस्सुरासुरैः ।
यत्कृतेचिंतयानस्यशोकार्तस्यपितुर्मम ॥ 14 ॥

अस्पृष्टवाशयनंगात्रैस्त्रियामायातिशर्वरी ।
त्स्नेयंयत्कृतेलंकानदीवर्षास्विवाकुला ॥ 15 ॥

सोऽयंमूलहरोऽनर्थःसर्वेषांनिहतोमया ।
रामस्यलक्ष्मणस्यैवसर्वेषांचवनौकसाम् ।
विक्रमानिष्फलाःसर्वेयथाशरदितोयदाः ॥ 16 ॥

एवमुक्त्वातुतान् सर्वान्राक्षसान्परिपार्श्वतः ॥ 17 ॥

यूथपानपितान्सर्वांस्ताडयामासरावणिः ।
नीलंनवभिराहत्यमैंदंचद्विविदंतथा ॥ 18 ॥

त्रिभिस्त्रिभिरमित्रघ्नस्ततापप्रवरेषुभिः ।
जांबवंतंमहेष्वासोविद् ध्वाबाणेनवक्षसि ॥ 19 ॥

हनूमतोवेगवतोविससर्जशरांदश ।
गवाक्षंशरभंचैवद्वावप्यमिततेजसौ ॥ 20 ॥

द्वाभ्यांद्वाभ्यांमहावेगोविव्याधयुधिरावणिः ।
गोलांगूलेश्वरंचैववालिपुत्रमथांगदम् ॥ 21 ॥

विव्याधबहुभिर्बाणैस्त्वरमाणोऽथरावणिः ।
तान्वानरवरान्भित्त्वाशरैरग्निशिखोपमैः ॥ 22 ॥

ननादबलवांस्तत्रमहासत्त्वस्सरावणिः ।
तानर्धयित्वाबाणौघैस्त्रासयित्वाचवानरान् ॥ 23 ॥

प्रजहासमहाबाहुर्वचनंचेदमब्रवीत् ।
शरशब्देनघोरेणमयाबद्धौचमूमुखे ॥ 24 ॥

सहितौभ्रातरवेतौनिशामयतराक्षसाः ।
एवमुक्तास्तुतेसर्वेराक्षसाःकूटयोधिनः ॥ 25 ॥

परंविस्मयामाजग्मुःकर्मणातेनहर्षिताः ।
विनेदुश्चमहानादान् सर्वेतेजलदोपमाः ॥ 26 ॥

हतो राम;इति ज्नात्वा रावणिं समपूजयन् ।
निष्पंदौ तु तदा दृष्ट्वा ताव् उभौ राम लक्ष्मणौ ॥ 27 ॥

वसुधायां निरुच्च्वासौ हताव् इत्य् अन्वमन्यत ।
हर्षेण तु समाविष्ट;इंद्रजित् समितिं जयः ॥ 28 ॥

प्रविवेशपुरींलंकांहर्षयन् सर्वनैर्वृतान् ।
रामलक्ष्मणयोर्दृष्टवाशरीरेसायकैश्चिते ॥ 29 ॥

सर्वाणिचांगोपांगानिसुग्रीवंभयमाविशत् ।
पर्यवस्थापयात्मानमनाथंमांचवानर ॥ 30 ॥

सत्यधर्माभिरक्तानांनास्तिमृत्युकृतंभयम् ।
एवमुक्त्वाततस्तस्यजलक्लन्नेनपाणिना ॥ 31 ॥

सुग्रीवस्यशुभेनेत्रेप्रममार्जविभीषणः ।
ततस्सलिलमादायविद्ययापरिजप्यच ॥ 32 ॥

सुग्रीवनेत्रेधर्मात्मासममार्जविभीषणः ।
विमृज्यवदनंतस्यकपिराजस्यधीमतः ॥ 33 ॥

अब्रवीत्कालसंप्राप्तसंभ्रांतमिदंवचः ।
नकालःकपिराजेंद्रवैक्लब्यमवलंबितुम् ॥ 34 ॥

अतिस्नेहोऽप्यकालेऽस्मिन्मरणायोपकल्पते ।
तस्मादुत्सृज्यवैक्लब्यंसर्वकार्यविनाशनम् ॥ 35 ॥

हितंरामपुरोगणांसैन्यानानुचिंत्यताम् ।
अथवारक्ष्यतांरामोयावत्संज्ञाविपर्ययः ॥ 36 ॥

लब्धसंज्ञौहिकाकुत्स्थौभयंनौव्यपनेष्यतः ।
नैतत्किंचनरामस्यनचरामोमुमूर्षति ॥ 37 ॥

नह्येनंहास्यतेलक्ष्मीद्दुर्लभायागतायुषाम् ।
तस्मादाश्वासयात्मानंबलंचाश्वासयस्वकम् ॥ 38 ॥

यावत्कार्याणिसर्वाणिपुनःसंस्थापयाम्यहम् ।
एतेहिफुल्लनयनास्त्रासादागतसाध्वसाः ॥ 39 ॥

कर्णेकर्णेप्रकथिताहरयोहरिसत्तम ।
मांतुदृष्टवाप्रधावंतमनीकंसंप्रहर्षितुम् ॥ 40 ॥

त्यजस्तुहरयस्त्रासंभुक्तपूर्वामिवस्रजम् ।
समाश्वास्यतुसुग्रीवंराक्षसेंद्रोविभीषणः ॥ 41 ॥

विद्रुतंवानरानीकंतत्समाश्वासयत्पुनः ।
इंद्रजित्तुमहामायःसर्वसैन्यसमावृतः ॥ 42 ॥

कर्णे कर्णे प्रकथिता हरयो हरि पुम्गव ।
मां तु दृष्ट्वा प्रधावंतं अनीकं संप्रहर्षितुम् ॥ 43 ॥

आचचक्षेप्रियंपित्रेनिहतौरामलक्ष्मणौ ।
उत्पपातततोहृष्टःपुत्रंचपरिषस्वजे ॥ 44 ॥

रावणोरक्षसांमध्येश्रुत्वाशत्रूनिपातितौ ।
उपाघ्रायचतंमूद् र्नेनंपप्रच्छप्रीतमानसः ॥ 45 ॥

पृच्छतेचयथावृत्तंपित्रेतस्मैसर्वंन्यवेदयत् ।
यथातौशरबंधेननिश्चेष्टौनिष्प्रभौकृतौ ॥ 46 ॥

सहर्षवेगानुगतांतरात्माश्रुत्वावचस्तस्यमहारथस्य ।
जहौज्वरंदाशरथेःसमुत्थितंप्रहृष्यवाचाऽभिननंदपुत्रम् ॥ 47 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे षट्चत्वारिंशस्सर्गः ॥




Browse Related Categories: