View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.66 युद्धकांड - षट्षष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ षट्षष्टितमस्सर्गः ।

स लंघयित्वाप्राकारंगिरिकूटोपमोमहान् ।
निर्ययौनगरात्तूर्णंकुंभकर्णोमहाबलः ॥ 1 ॥

ननाद च महानादंसमुद्रमभिनादयन् ।
विजयन्निवनिर्घातन्विधमन्निवपर्वतान् ॥ 2 ॥

तमवध्यंमघवतायमेनवरुणेनवा ।
प्रेक्ष्यभीमाक्षमायांतंवानराविप्रदुद्रुवुः ॥ 3 ॥

तांस्तुविप्रद्रुतान् दृष्टवाराजपुत्रोऽंगदोऽब्रवीत् ।
नलंनीलंगवाक्षं च कुमुदं च महाबलम् ॥ 4 ॥

आत्मानमत्रविस्मृत्यवीर्याण्यभिजनानि च ।
क्वगच्छतभयत्रस्ताःप्राकृताहरयोयथा ॥ 5 ॥

साधुसौम्या निवर्तध्वंकिप्राणान्परिरक्षथ ।
नालंयुद्धायवैरक्षोमहतीयंबिभीषका ॥ 6 ॥

महतीमुथतितामेनांराक्षसानांबिभीषिकाम् ।
विक्रमाद्विधमिष्यामोनिवर्तध्वंप्लवंगमाः ॥ 7 ॥

कृच्छ्रेणतुसमाश्वस्यसंगम्य च ततस्ततः ।
वृक्षाद्रिहस्ताहरयस्संप्रतस्थूरणाजिरम् ॥ 8 ॥

तेनिवृत्यतुसंकृद्धाःकुंभकर्णंवनौकसः ।
निर्जघ्नुःपरमक्रुद्धास्समदाइवकुंजराः ॥ 9 ॥

प्रांशुभिर्गिरिशृंगैश्चशिलाभिश्चमहाबलः ।
पादपैःपुष्पिताग्रैश्चहन्यमानो न कंपते ॥ 10 ॥

तस्यगात्रेषुपतिताभिद्यंतेशतशश्शिलाः ।
पादपाःपुष्पिताग्राश्चभग्नाःपेतुर्महीतले ॥ 11 ॥

सोऽपिसैन्यानिसंक्रुद्धोवानराणांमहौजसाम् ।
ममंथपरमायत्तोवनान्यग्निरिवोत्थितः ॥ 12 ॥

लोहितार्द्रास्तुबहवश्शेरतेवानरर्षभाः ।
निरस्तांपतिताभूमौताम्रपुष्पाइवद्रुमाः ॥ 13 ॥

लंघयंतःप्रधावंतोवानरानावलोकयन् ।
केचित्समुद्रेपतिताःकेचिद्गगनमास्थिताः ॥ 14 ॥

वध्यमानास्तुतेवीराराक्षसेन च लीलया ।
सागरंयेनतेतीर्णाःपथातेनदुद्रुवुः ॥ 15 ॥

तेस्थलानितदानिम्नंविवर्णमानाभयात् ।
ऋक्षावृक्षान् समारूढाःकेचित्पर्वतमाश्रिताः ॥ 16 ॥

ममज्जुरर्णवेकेचिद्गुहाःकेचित्समाश्रिताः ।
निपेतुःकेचिदपरेकेचिन्नैवावतस्थिरे ॥ 17 ॥

केचिद्भूमौनिपतिताःकेचित्सुप्तामृताइव ।
तान्समीक्ष्यांगदोभग्नान्वानरानिदमब्रवीत् ॥ 18 ॥

अवतिष्ठतयुध्यामोनिवर्तध्वंप्लवंगमाः ।
भग्नानांवो न पश्यामिपरिगम्यमहीमिमाम् ॥ 19 ॥

स्थानंसर्वेनिवर्तध्वंकिंप्राणान् परिरक्षथ ।
निरायुधानांद्रवतामसंगगतिपौरुषाः ॥ 20 ॥

दाराह्युपहसिष्यंति स वैघातस्तुजीवताम् ।
कुलेषुजातास्सर्वेस्मविस्तीर्णेषुमहत्सु च ॥ 21 ॥

क्वगच्छतभयत्रस्ताःहरयःप्राकृतायथा ।
अनार्याःखलुयद्भीतास्त्यक्त्वावीर्यंप्रधावत ॥ 22 ॥

विकत्थनानिवोयानि तदावैजनसंसदि ।
तानिवःक्वनुयातानिसोदग्राणिम हितानि च ॥ 23 ॥

भीरुप्रवादाश्श्रूयंतेयस्तुजीवतिधिक्कृतः ।
मार्गस्सत्पुरुषैर्जष्टःसेव्यतांत्यज्यतांभयम् ॥ 24 ॥

शयामहेऽनिहताःपृथिव्यामल्पजीविताः ।
दुष्प्रापंब्रह्मलोकंवाप्राप्नुयामोयुधिसूदिता ॥ 25 ॥

संप्राप्नुयामःकीर्तिंवानिहत्वाशत्रुमाहवे ।
जीवितंवीरलोकस्यमोक्ष्यामोवसुवानराः ॥ 26 ॥

न कुंभकर्णःकाकुत्स्थंदृष्टवाजीवन् गमिष्यति ।
दीप्यमानमिवासाद्यपतंगोज्वलनंयथा ॥ 27 ॥

लायनेनचोद्धिष्टाःप्राणान् रक्षामहेवयम् ।
एकेनबहवोभग्नायशोनाशंगमिष्यति ॥ 28 ॥

एवंब्रुवाणंतंशूरमंगदंकनकांगदम् ।
द्रवमाणास्ततोवाक्यमूचुःशूरुविगर्हितम् ॥ 29 ॥

कृतंनःकदनंघोरंकुंभकर्णेनरक्षसा ।
न स्थानकालोगच्छामोदयितंजीवितंहिनः ॥ 30 ॥

एतावदुक्त्वावचनंसर्वेतेभेजिरेदिशः ।
भीमंभीमाक्षमायांतंदृष्टवावानरयूथपाः ॥ 31 ॥

द्रवमाणस्तुतेवीराअंगदेनवलीमुखाः ।
सांत्वैश्चैहनुमानैश्चततस्सर्वेनिवर्तिताः ॥ 32 ॥

प्रहर्षमुपनीताश्चवालिपुत्रेणधीमता ।
आज्ञाप्रतीक्षास्तस्थुश्चसर्वेवानरयूथपाः ॥ 33 ॥

ऋषभशरभमैंदधूम्रनीलाःकुमुदसुषेणगवाक्षरंभताराः ।
द्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखंरणम् ॥ 34 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे षट्षष्टितमस्सर्गः ॥




Browse Related Categories: