श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ षट्षष्टितमस्सर्गः ।
स लंघयित्वाप्राकारंगिरिकूटोपमोमहान् ।
निर्ययौनगरात्तूर्णंकुंभकर्णोमहाबलः ॥ 1 ॥
ननाद च महानादंसमुद्रमभिनादयन् ।
विजयन्निवनिर्घातन्विधमन्निवपर्वतान् ॥ 2 ॥
तमवध्यंमघवतायमेनवरुणेनवा ।
प्रेक्ष्यभीमाक्षमायांतंवानराविप्रदुद्रुवुः ॥ 3 ॥
तांस्तुविप्रद्रुतान् दृष्टवाराजपुत्रोऽंगदोऽब्रवीत् ।
नलंनीलंगवाक्षं च कुमुदं च महाबलम् ॥ 4 ॥
आत्मानमत्रविस्मृत्यवीर्याण्यभिजनानि च ।
क्वगच्छतभयत्रस्ताःप्राकृताहरयोयथा ॥ 5 ॥
साधुसौम्या निवर्तध्वंकिप्राणान्परिरक्षथ ।
नालंयुद्धायवैरक्षोमहतीयंबिभीषका ॥ 6 ॥
महतीमुथतितामेनांराक्षसानांबिभीषिकाम् ।
विक्रमाद्विधमिष्यामोनिवर्तध्वंप्लवंगमाः ॥ 7 ॥
कृच्छ्रेणतुसमाश्वस्यसंगम्य च ततस्ततः ।
वृक्षाद्रिहस्ताहरयस्संप्रतस्थूरणाजिरम् ॥ 8 ॥
तेनिवृत्यतुसंकृद्धाःकुंभकर्णंवनौकसः ।
निर्जघ्नुःपरमक्रुद्धास्समदाइवकुंजराः ॥ 9 ॥
प्रांशुभिर्गिरिशृंगैश्चशिलाभिश्चमहाबलः ।
पादपैःपुष्पिताग्रैश्चहन्यमानो न कंपते ॥ 10 ॥
तस्यगात्रेषुपतिताभिद्यंतेशतशश्शिलाः ।
पादपाःपुष्पिताग्राश्चभग्नाःपेतुर्महीतले ॥ 11 ॥
सोऽपिसैन्यानिसंक्रुद्धोवानराणांमहौजसाम् ।
ममंथपरमायत्तोवनान्यग्निरिवोत्थितः ॥ 12 ॥
लोहितार्द्रास्तुबहवश्शेरतेवानरर्षभाः ।
निरस्तांपतिताभूमौताम्रपुष्पाइवद्रुमाः ॥ 13 ॥
लंघयंतःप्रधावंतोवानरानावलोकयन् ।
केचित्समुद्रेपतिताःकेचिद्गगनमास्थिताः ॥ 14 ॥
वध्यमानास्तुतेवीराराक्षसेन च लीलया ।
सागरंयेनतेतीर्णाःपथातेनदुद्रुवुः ॥ 15 ॥
तेस्थलानितदानिम्नंविवर्णमानाभयात् ।
ऋक्षावृक्षान् समारूढाःकेचित्पर्वतमाश्रिताः ॥ 16 ॥
ममज्जुरर्णवेकेचिद्गुहाःकेचित्समाश्रिताः ।
निपेतुःकेचिदपरेकेचिन्नैवावतस्थिरे ॥ 17 ॥
केचिद्भूमौनिपतिताःकेचित्सुप्तामृताइव ।
तान्समीक्ष्यांगदोभग्नान्वानरानिदमब्रवीत् ॥ 18 ॥
अवतिष्ठतयुध्यामोनिवर्तध्वंप्लवंगमाः ।
भग्नानांवो न पश्यामिपरिगम्यमहीमिमाम् ॥ 19 ॥
स्थानंसर्वेनिवर्तध्वंकिंप्राणान् परिरक्षथ ।
निरायुधानांद्रवतामसंगगतिपौरुषाः ॥ 20 ॥
दाराह्युपहसिष्यंति स वैघातस्तुजीवताम् ।
कुलेषुजातास्सर्वेस्मविस्तीर्णेषुमहत्सु च ॥ 21 ॥
क्वगच्छतभयत्रस्ताःहरयःप्राकृतायथा ।
अनार्याःखलुयद्भीतास्त्यक्त्वावीर्यंप्रधावत ॥ 22 ॥
विकत्थनानिवोयानि तदावैजनसंसदि ।
तानिवःक्वनुयातानिसोदग्राणिम हितानि च ॥ 23 ॥
भीरुप्रवादाश्श्रूयंतेयस्तुजीवतिधिक्कृतः ।
मार्गस्सत्पुरुषैर्जष्टःसेव्यतांत्यज्यतांभयम् ॥ 24 ॥
शयामहेऽनिहताःपृथिव्यामल्पजीविताः ।
दुष्प्रापंब्रह्मलोकंवाप्राप्नुयामोयुधिसूदिता ॥ 25 ॥
संप्राप्नुयामःकीर्तिंवानिहत्वाशत्रुमाहवे ।
जीवितंवीरलोकस्यमोक्ष्यामोवसुवानराः ॥ 26 ॥
न कुंभकर्णःकाकुत्स्थंदृष्टवाजीवन् गमिष्यति ।
दीप्यमानमिवासाद्यपतंगोज्वलनंयथा ॥ 27 ॥
लायनेनचोद्धिष्टाःप्राणान् रक्षामहेवयम् ।
एकेनबहवोभग्नायशोनाशंगमिष्यति ॥ 28 ॥
एवंब्रुवाणंतंशूरमंगदंकनकांगदम् ।
द्रवमाणास्ततोवाक्यमूचुःशूरुविगर्हितम् ॥ 29 ॥
कृतंनःकदनंघोरंकुंभकर्णेनरक्षसा ।
न स्थानकालोगच्छामोदयितंजीवितंहिनः ॥ 30 ॥
एतावदुक्त्वावचनंसर्वेतेभेजिरेदिशः ।
भीमंभीमाक्षमायांतंदृष्टवावानरयूथपाः ॥ 31 ॥
द्रवमाणस्तुतेवीराअंगदेनवलीमुखाः ।
सांत्वैश्चैहनुमानैश्चततस्सर्वेनिवर्तिताः ॥ 32 ॥
प्रहर्षमुपनीताश्चवालिपुत्रेणधीमता ।
आज्ञाप्रतीक्षास्तस्थुश्चसर्वेवानरयूथपाः ॥ 33 ॥
ऋषभशरभमैंदधूम्रनीलाःकुमुदसुषेणगवाक्षरंभताराः ।
द्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखंरणम् ॥ 34 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे षट्षष्टितमस्सर्गः ॥