View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.94 युद्धकांड - चतुर्नवतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ चतुर्नवतितमस्सर्गः ।

स प्रविश्यसभांराजादीनःपरमदुःखितः ।
निषपादासनेमुख्येसिंहःक्रुद्धैवश्वसन् ॥ 1 ॥

अब्रवीच्च स तान्सर्वान् बलमुख्यान् महाबलः ।
रावणःप्रांजलिर्वाक्यंपुत्रव्यसनकर्शितः ॥ 2 ॥

सर्वेभवंतस्सर्वेणहस्त्यश्वेनसमावृताः ।
निर्यांतुरथसंघैश्चपादातैश्चोपशोभिताः ॥ 3 ॥

एकंरामंपरिक्षिप्यसमरेहंतुमर्हथ ।
वर्षंतश्शरवर्षाणिप्रावृट् कालैवांबुदाः ॥ 4 ॥

अथवाहंशरैस्तीक्ष्णैर्भिन्नगात्रंमहाहवे ।
भवद्भिःश्वोनिहंतास्मिरामंलोकस्यपश्यतः ॥ 5 ॥

इत्येतद्वाक्यमादायरक्षसेंद्रस्यराक्षसाः ।
निर्ययुस्तेरथैःशीघ्रैर्नानानीकैश्चसंयुताः ॥ 6 ॥

परिघान् पट्टसांश्चैवशरखंगपरश्वधान् ।
शरीरांतकरान् सर्वेचिक्षिपुर्वानरान् प्रति ॥ 7 ॥

वानराश्चद्रुमान्शैलान्राक्षसान्प्रतिचिक्षिपुः ।
स संग्रामोमहाभीमस्सूर्यस्यदयनंप्रति ॥ 8 ॥

रक्षसांवानराणां च तुमुलस्समपद्यत ।
तेगदाभिश्चचित्राभिःप्रासैःखडगैःपरश्वधैः ॥ 9 ॥

अन्योन्यंसमरेजघ्नुस्तदावानरराक्षसाः ।
एवंप्रवृत्तेसंग्रामेह्यद्भुतंसुमहद्रजः ॥ 10 ॥

रक्षसांवानराणां च शांतंशोणितविस्रवैः ।
मातंगरथकूलाश्चवाजिमत्सास्यध्वजद्रुमाः ॥ 11 ॥

शरीरसंघाटवहाःप्रसस्रुःशोणितापगाः ।
ततस्तेवानराःसर्वेशोणितौघपरिप्लुताः ॥ 12 ॥

ध्वजवर्मरथानश्वान्नानाप्रहरणानि च ।
आप्लुत्याप्लुत्यसमरेवानरेंद्राबभंचिरे ॥ 13 ॥

केशान् कर्णललाटं च नासिकाश्चप्लवंगमाः ।
रक्षसांदशनैस्तीक्ष्णैर्नखैश्चापिव्यकर्तयन् ॥ 14 ॥

एकैकंराक्षसंसंख्येशतंवानरपुंगवाः ।
अभ्यधावंतफलिनंवृक्षंशकुनयोयथा ॥ 15 ॥

तदागदाभिर्गुर्वीभिःप्रासैःखडगैःपरश्वधैः ।
निर्जघ्नुर्वानरान्घोरान्राक्षसाःपर्वतोपमाः ॥ 16 ॥

राक्षसैर्वध्यमानानांवानराणांमहाचमूः ।
शरण्यंशरणंयातारामंदशरथात्मजम् ॥ 17 ॥

ततोरामोमहातेजाधनुरादायवीर्यवान् ।
प्रविश्यराक्षसंसैन्यंशरवर्षंववर्ष ह ॥ 18 ॥

प्रविष्टंतुतदारामंमेघास्सूर्यमिवांबरे ।
नाथिजग्मुर्महाघोरानिर्दहंतंशराग्निना ॥ 19 ॥

कृतान्येवसुघोराणिरामेणरजनीचराः ।
ददृशुस्ते न वैरामंकर्माण्यसुकराणिते ॥ 20 ॥

चालयंतंमहासैन्यंविधमंतंमहारथान् ।
ददृशुस्ते न वैरामंवातंवनगतंयथा ॥ 21 ॥

छिन्नंभिन्नंशरैर्दग्धंप्रभन्नंशस्त्रपीडितम् ।
बलंरामेणददृशुर्नरामंशीघ्रकारिणम् ॥ 22 ॥

प्रहरंतंशरीरेषु न तेपश्यंतिराघवम् ।
इंद्रियार्थेषुतिष्ठंतंभूतात्मानमिवप्रजाः ॥ 23 ॥

एषहंतिगजानीकमेषहंतिमहारथान् ।
एषहंतिशरैस्तीक्ष्णैःपदातीस्वाजिभिःसह ॥ 24 ॥

इतितेराक्षसास्सर्वेरामस्यसदृशान्रणे ।
अन्योन्यंकुपिताजघ्नुस्सादृश्याद्राघवस्यते ॥ 25 ॥

न तेददृशिरेरामंदहंतमपिवाहिनीम् ।
मोहिताःपरमास्त्रणगांधर्वेणमहात्मना ॥ 26 ॥

तेतुरामसहस्राणिरणेपश्यंतिराक्षसाः ।
पुनःपश्यंतिकाकुत्स्थमेकमेवमहाहवे ॥ 27 ॥

भ्रमंतीकांचनींकोटिंकार्मुकस्यमहात्मनः ।
अलातचक्रप्रतिमांददृशुस्ते न राघवम् ॥ 28 ॥

शरीरनाभिसत्त्वार्चिश्शरारंनेमिकार्मुकम् ।
ज्याघोषतलनिर्घोषंतेजोबुधदिगुणप्रभम् ॥ 29 ॥

दिव्यास्त्रगुणपर्यंतंनिघ्नंतंयुधिराक्षसान् ।
ददृशूरामचक्रंतत्कालचक्रमिवप्रजाः ॥ 30 ॥

अनीकंदशसाहस्रंरथानांवातरम्हसाम् ।
अष्टादशसहस्राणिकुंजराणांतरस्विनाम् ॥ 31 ॥

चतुर्दशसहस्राणिसारोहाणां च वाजिनाम् ।
पूर्णेशतसहस्रेद्वेराक्षसानांपदातिनाम् ॥ 32 ॥

दिवसस्याष्टभागेनशरैरग्निशिखोपमैः ।
हतात्यान्येकेनरामेणरक्षसांकामरूपिणाम् ॥ 33 ॥

तेहताश्वाहतरथाश्शांताविमथितध्वजाः ।
अभिपेतुःपुरींलंकांहतशेषानिशाचराः ॥ 34 ॥

हतैर्गजपदात्यश्वैस्तद्बभूवरणाजिरम् ।
अक्रीडभूमिःक्रुद्धस्यरुद्रस्येवमहात्मनः ॥ 35 ॥

ततोदेवास्कसगंधर्वास्सिद्धाश्चपरमर्षयः ।
साधुसावधितिरामस्यतत्कर्मसमपूजयन् ॥ 36 ॥

अब्रवीच्छतदारामःसुग्रीवंप्रत्यनंतरम् ।
विभीषणं च धर्मात्माहनूमंतं च वानरम् ॥ 37 ॥

जांबवंतंहरिश्रेष्ठंमैंदंद्विविदमेव च ।
एतदस्त्रबलंदिव्यंममवात्ऱ्यंबकस्यवा ॥ 38 ॥

निहत्यतांराक्षसराजवाहिनींरामस्तदाशक्रसमोमहात्मा ।
अस्त्रषुशस्त्रषुजितक्लमश्चसंस्तूयतेदेवगणैःप्रहृष्टैः ॥ 39 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे चतुर्नवतितमस्सर्गः ॥




Browse Related Categories: