View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.117 अयोध्याकांड - सप्तदशाधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ सप्तदशाधिकशततमस्सर्गः ।

राघव स्त्वथ यातेषु तपस्विषु विचिंतयन् ।
न तत्रारोचयद्वासं कारणैर्बहुभिस्तदा ॥ 1 ॥

इह मे भरतो दृष्टो मातरश्च सनागराः ।
सा च मे स्मृतिरन्वेति तान्नित्यमनुशोचतः ॥ 2 ॥

स्कंधावारनिवेशेन तेन तस्य महात्मनः ।
हयहस्तिकरीषैश्च उपमर्दः कृतो भृशम् ॥ 3 ॥

तस्मादन्यत्र गच्छाम इति संचिंत्य राघवः ।
प्रातिष्ठत स वैदेह्या लक्ष्मणेन च संगतः ॥ 4 ॥

सोऽत्रेराश्रममासाद्य तं ववंदे महायशाः ।
तं चापि भगवानत्रिः पुत्रवत्प्रत्यपद्यत ॥ 5 ॥

स्वयमातिथ्यमादिश्य सर्वमन्यत्सुसत्कृतम् ।
सौमित्रिं च महाभागां सीतां च समसांत्वयत् ॥ 6 ॥

पत्नीं च समनुप्राप्तां वृद्धामामंत्र्य सत्कृताम् ।
सांत्वयामास धर्मज्ञः सर्वभूतहिते रतः ॥ 7 ॥

आनसूयां महाभागां तापसीं धर्मचारिणीं प्रतिगृह्णीष्व वैदेहीमब्रवीदृषिसत्तमः ।
रामाय चाऽचचक्षे तां तापसीं धर्मचारिणीम् ॥ 8 ॥

दश वर्षाण्यनावृष्ट्या दग्धे लोके निरंतरम् ॥ 9 ॥

यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता ।
उग्रेण तपसा युक्ता नियमैश्चाप्यलंकृता ॥ 10 ॥

दश वर्ष सहास्राणि तया तप्तं महत्तपः ।
अनसूया व्रतै स्स्नाता प्रत्यूहाश्च निवर्तिताः ॥ 11 ॥

देवकार्यनिमित्तं च यया संत्वरमाणया ।
दशरात्रं कृता रात्रि स्सेयं मातेव तेऽनघ ॥ 12 ॥

दश वर्षाण्यनावृष्ट्या दग्धे लोके निरंतरम् ॥ 13 ॥

यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता ।
उग्रेण तपसा युक्ता नियमैश्चाप्यलंकृता ॥ 14 ॥

दश वर्षसहास्राणि यया तप्तं महत् तपः ।
अनसूया व्रतै स्स्नाता प्रत्यूहाश्च निवर्तिताः ॥ 15 ॥

देवकार्यनिमित्तं च यया संत्वरमाणया ।
दशरात्रं कृता रात्रि स्सेयं मातेव तेऽनघ ॥ 16 ॥

दश वर्षाण्यनावृष्ट्या दग्धे लोके निरंतरम् ॥ 17 ॥

यया मूलफले सृष्टे जाह्नवी च प्रवर्तिता ।
उग्रेण तपसा युक्ता नियमैश्चाप्यलंकृता ॥ 18 ॥

दश वर्ष सहास्राणि तया तप्तं महत्तपः ।
अनसूया व्रतै स्स्नाता प्रत्यूहाश्च निवर्तिताः ॥ 19 ॥

देवकार्यनिमित्तं च यया संत्वरमाणया ।
दशरात्रं कृता रात्रि स्सेयं मातेव तेऽनघ ॥ 20 ॥

तामिमां सर्वभूतानां नमस्कार्यां यशस्विनीं अभिगच्छतु वैदेही वृद्धामक्रोधनां सदा ।
अनसूयेति या लोके कर्मभिः ख्यातिमागता ॥ 21 ॥

एवं ब्रुवाणं तमृषिं तथेत्युक्त्वा स राघवः ।
सीतामुवाच धर्मज्ञामिदं वचनमुत्तमम् ॥ 22 ॥

राजपुत्रि श्रुतमिदं मुनेरस्य समीरितम् ।
श्रेयोऽर्थमात्मनश्शीघ्रमभिगच्छ तपस्विनीम् ॥ 23 ॥

सीता त्वेतद वचः श्रुत्वा राघवस्य हितैषिणः ।
तामत्रिपंतीं धर्मज्ञामभिचक्राम मैथिली ॥ 24 ॥

शिथिलां वलितां वृद्धां जरापांडुरमूर्धजाम् ।
सततं वेपमानांगीं प्रवाते कदलीं यथा ॥ 25 ॥

तां तु सीता महाभागामनसूयां पतिव्रताम् ।
अभ्यवादयदव्यग्रा स्वं नाम समुदाहरत् ॥ 26 ॥

शिथिलां वलितां वृद्धां जरापांडुरमूर्धजाम् ।
सततं वेपमानांगीं प्रवाते कदलीं यथा ॥ 27 ॥

तां तु सीता महाभागामनसूयां पतिव्रताम् ।
अभ्यवादयदव्यग्रा स्वंनाम समुदाहरत् ॥ 28 ॥

अभिवाद्य च वैदेही तापसीं तामनिंदिताम् ।
बद्धांजलिपुटा हृष्टा पर्यपृच्छदनामयम् ॥ 29 ॥

ततस्सीतां महाभागां दृष्ट्वा तां धर्मचारिणीम् ।
सांत्वयंत्यब्रवीद्धृष्टा दिष्ट्या धर्ममवेक्षसे ॥ 30 ॥

त्यक्त्वा ज्ञातिजनं सीते मानमृद्धं च भामिनि ।
अवरुद्धं वने रामं दिष्ट्या त्वमनुगच्छसि ॥ 31 ॥

नगरस्थो वनस्थो वा पापो वा यदि वा शुभः ।
यासां स्त्रीणां प्रियो भर्ता तासां लोका महोदयाः ॥ 32 ॥

दुश्शीलः कामवृत्तो वा धनैर्वा परिवर्जितः ।
स्त्रीणामार्यस्वभावानां परमं दैवतं पतिः ॥ 33 ॥

नातो विशिष्टं पश्यामि बांधवं विमृशंत्यहम् ।
सर्वत्र योग्यं वैदेहि तपः कृतमिवाव्ययम् ॥ 34 ॥

न त्वेवमवगच्छंति गुणदोषमसत्त्स्रियः ।
कामवक्तव्यहृदया भर्तृनाथाश्चरंति याः ॥ 35 ॥

प्राप्नुवंत्य यशश्चैव धर्मभ्रंशं च मैथिलि ।
अकार्यवशमापन्नाः स्त्रियो याः खलु तद्विधाः ॥ 36 ॥

त्वद्विधास्तु गुणैर्युक्ता दृष्ट लोक परावराः ।
स्त्रिय स्स्वर्गे चरिष्यंति यथा धर्मकृतस्तथा ॥ 37 ॥

तदेवमेनं त्वमनुव्रता सती पतिव्रतानां समयानुवर्तिनी ।
भव स्वभर्तु स्सहधर्मचारिणी यशश्च धर्मं च तत स्समाप्स्यसि ॥ 38 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे सप्तदशाधिकशततमस्सर्गः ॥




Browse Related Categories: