View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.60 सुंदरकांड - षष्टितम सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ षष्टितमस्सर्गः ।

तस्य तद्वचनं श्रुत्वा वालिसूनुरभाषत ।
अयुक्तं तु विना देवीं दृष्टवद्भिश्च वानराः ॥ 1 ॥

समीपं गंतुमस्माभी राघवस्य महात्मनः ।
दृष्टा देवी न चानीता इति तत्र निवेदनम् ॥ 2 ॥

अयुक्तमिव पश्यामि भवद्भिः ख्यातविक्रमैः ।
न हि नः प्लवने कश्चिन्नापि कश्चित्पराक्रमे ॥ 3 ॥

तुल्य स्सामरदैत्येषु लोकेषु हरिसत्तमाः ।
तेष्वेवं हतवीरेषु राक्षसेषु हनूमता ॥ 4 ॥

किमन्यदत्र कर्तव्यं गृहीत्वा याम जानकीम् ।
तमेवं कृतसंकल्पं जांबवान् हरिसत्तमः ॥ 5 ॥

उवाच परमप्रीतो वाक्यमर्थवदर्थवित् ।
न तावदेषा मतिरक्षमा नो यथा भवान् पश्यति राजपुत्र ।
यथा तु रामस्य मतिर्निविष्टा तथा भवान् पश्यतु कार्यसिद्धिम् ॥ 6 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे षष्टितमस्सर्गः ॥




Browse Related Categories: