View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.124 युद्धकांड - चतुर्विंशत्यधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ चतुर्विंशत्यधिकशततमस्सर्गः ।

तांरात्रिमुषितंरामंसुखोत्थिमरिंदमम् ।
अब्रवीत्प्रांजलिर्वाक्यंजयंपृष्टवाविभीषणः ॥ 1 ॥

स्नानानिचांगरागाणिवस्त्राण्याभरणानि च ।
चंदनानि च दिव्यानिमाल्यानिविविधानि च ॥ 2 ॥

अलंकारविदश्चेमानार्यःपद्मनिभेक्षणाः ।
उपस्थितास्त्वांविधवत्स्नापयिष्यंतिराघव ॥ 3 ॥

एवमुक्तस्तुकाकुत्स्थः प्रत्युवाचविभीषणम् ।
हरीन्सुग्रीवमुख्यांस्त्वंस्नानेनोपनिमंत्रय ॥ 4 ॥

स तुताम्यतिधर्मात्माममहेतोस्सुखोचितः ।
सुकुमारोमहाबाहोकुमारः सत्यसंश्रयः ॥ 5 ॥

तंविनाकैकयीपुत्रंभरतंधर्मचारिणम् ।
न मेस्नानंबहुमतंवस्त्राण्याभरणानि च ॥ 6 ॥

एतत्पश्ययथाक्षिप्रंप्रतिगच्छामतांपुरीम् ।
अयोध्यांगच्छतोह्येषपंथाःपरमदुर्गमः ॥ 7 ॥

एवमुक्तस्तुकाकुत्स्थंप्रत्युवाचविभीषणः ।
अह्नात्वांप्रापयिष्यामितांपुरींपार्थिवात्मज ॥ 8 ॥

पुष्पकंनामभद्रंतेविमानंसूर्यसन्निभम् ।
ममभ्रातुःकुबेरस्यरावणेनबलीयसा ॥ 9 ॥

हृतंनिर्जित्यसंग्रामेकामगंदिव्यमुत्तमम् ।
त्वदर्थंपालितंचेदंतिष्ठत्यतुलविक्रम ॥ 10 ॥

तदिदंमेघसंकाशंविमानमिहतिष्ठति ।
तेनयास्यसियानेनत्वमयोध्यांगतज्वरः ॥ 11 ॥

अहंतेयुद्यनुग्राह्योयदिस्मरसिमेगुणान् ।
वसतावदिहप्राज्ञ यद्यस्तिमयिसौहृदम् ॥ 12 ॥

लक्ष्मणेनसहभ्रात्रावैदेह्याभार्ययासह ।
अर्चितस्सर्वकामैस्त्वंततोराम गमिष्यसि ॥ 13 ॥

प्रीतियुक्तस्यविहितांससैन्यःससुहृद्गणः ।
सक्रतियांराममेतावद्गृहेणत्वंमयोद्यताम् ॥ 14 ॥

प्रणयाद्भहुमानाच्चसौहार्देन च राघव ।
प्रसादायामिप्रेष्योऽहं न खल्वाज्ञापयामिते ॥ 15 ॥

एवमुक्तस्ततोरामःप्रत्युवाचविभीषणम् ।
रक्षसांवानराणां च सर्वेषामेवशृण्वताम् ॥ 16 ॥

पूजितोऽस्मित्वयावीर साचिव्येनपरंतप ।
सर्वात्मना च चेष्टाभिःसौहार्देनपरेण च ॥ 17 ॥

न खल्वेतन्नकुर्यांतेवचनंराक्षसेश्वर ।
तंतुमेभ्रातरंद्रष्टुंभरतंत्वरतेमनः ॥ 18 ॥

मांनिवर्तयितुंयोऽसौचित्रकूटमुपागतः ।
शिरसायाचतोयस्यवचनं न कृतंमया ॥ 19 ॥

कौसल्यां च सुमित्रां च कैकेयीं च यशस्विनीम् ।
गुहं च सुहृदंचैवपौरान्जनपदैस्सह ॥ 20 ॥

अनुजानीहमांसौम्य पूजितोऽस्मिविभीषण ।
मन्युर्नखलुकर्तव्यःसखेत्वांचानुमानये ॥ 21 ॥

उपस्थापयमेशीघ्रंविमानंराक्षसेश्वर ।
कृतकार्यस्यमेवासःकथंस्यादिहसम्मतः ॥ 22 ॥

एवमुक्तस्तुरामेणराक्षसेंद्रोविभीषणः ।
विमानसूर्यसंकाशमाजुहावत्वरान्वितः ॥ 23 ॥

ततःकांचनचित्रांगंवैदूर्यमणिवेदिकम् ।
कूटागारैःपरिक्षिप्तंसर्वतोरजतप्रभम् ॥ 24 ॥

पांडुराभिःपताकाभिर्ध्वजैश्चसमलंकृतम् ।
शोभितंकांचनैर्हर्म्यैर्हेमपद्मविभूषितैः ॥ 25 ॥

प्रकीर्णंकिंकिणीजालैर्मुक्तामणिगवाक्षकम् ।
घंटाजालैःपरिक्षिप्तंसर्वतोमधुरस्वनम् ॥ 26 ॥

यन्मेरुशिखराकारंनिर्मितंविश्वकर्मणा ।
बृहभिर्भूषितंहर्म्यैर्मुक्तारजतशोभितैः ॥ 27 ॥

तलैस्स्फटिकचित्रांगैदूर्यैश्चवरासनैः ।
महार्हास्तरणोपेतैरुपपन्नंमहाधनैः ॥ 28 ॥

उपस्थितमनाधृष्यंतद्विमानंमनोजवम् ।
निवेदयित्वारामायतस्थौतत्रविभीषणः ॥ 29 ॥

तत्पुष्पकंकामगमंविमानमुपस्थितंभूधरसन्निकाशम् ।
दृष्टवातदाविस्मयमाजगामरामस्ससौमित्रिरुदारसत्त्वः ॥ 30 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे चतुर्विंशत्यधिकशततमस्सर्गः ॥




Browse Related Categories: