View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.13 युद्धकांड - त्रयोदश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ त्रयोदशस्सर्गः ।

रावणंक्रुद्धमाज्ञायमहापार्श्वोमहाबलः ।
मुहूर्तमनुसंचिंत्यप्रांजलिर्वाक्यमब्रवीत् ॥ 1 ॥

यःखल्वपिवनंप्राप्यमृगव्यालनिषेवितम् ।
नपिबेन्मधुसंप्राप्यसनरोबालिशोभवेत् ॥ 2 ॥

ईश्वरस्येश्वरःकोऽस्तितवशत्रुनिबर्हणः ।
रमस्वसहवैदेह्याशत्रूनाक्रम्यमूर्धसु ॥ 3 ॥

बलात्कुक्कुटवृत्तेनप्रवर्तस्वमहाबलः ।
आक्रम्याक्रम्यसीतांवैतांभुङ् क्ष्वचरमस्वच ॥ 4 ॥

लब्धकामस्यतेपश्चादागमिष्यतियद्भयम् ।
प्राप्तमप्राप्तकालंवासर्वंप्रतिसहिष्यति ॥ 5 ॥

कुंभकर्णस्सहास्माभिरिंद्रजिच्चमहाबलः ।
प्रतिषेधयितुंशक्तौसवज्रमपिवज्रिणम् ॥ 6 ॥

उपप्रदानंसांत्वंवाभेदंवाकुशलैःकृतम् ।
समतिक्रम्यदंडेनसिद्धिमर्थेषुरोचये ॥ 7 ॥

इहप्राप्तान्वयंसर्वान् शत्रूंस्तवमहाबलः ।
वशेशस्त्रप्रतापेनकरिष्यामोनसंशयः ॥ 8 ॥

एवमुक्तस्तदाराजामहापार्श्वेनरावणः ।
तस्यसंपूजयन्वाक्यमिदंवचनमब्रवीत् ॥ 9 ॥

महापार्श्वनिबोधत्वंरहस्यंकिंचिदात्मनः ।
चिरवृत्तंतदाख्यास्येयदवाप्तंपुरामया ॥ 10 ॥

पितामहस्यभवनंगच्छंतींपुंजिकस्थलाम् ।
चंचूर्यमाणामद्राक्षमाकाशेऽग्निशिखामिव ॥ 11 ॥

साप्रसह्यमयाभुक्ताकृताविवसनाततः ।
स्वयंभूभवनंप्राप्तालोलितानलिनीयथा ॥ 12 ॥

तच्चतस्यतदामन्येज्ञातमासीन्महात्मनः ।
अथसंकुपितोदेवोमामिदंवाक्यमब्रवीत् ॥ 13 ॥

अद्यप्रभृतियामन्याबलान्नारींगमिष्यसि ।
तदातेशतधामूर्धाफलिष्यतिनसंशयः ॥ 14 ॥

इत्यहंतस्यशापस्यभीतःप्रसभमेवताम् ।
नारोहयेबलात्सीतांवैदेहींशयनेशुभे ॥ 15 ॥

सागरस्येनमेवेगोमारुतस्येवमेगतिः ।
नैतद्दाशरथिर्वेदह्यासादयतितेनमाम् ॥ 16 ॥

कोहिसिंहमिवासीनंसुप्तंगिरिगुहाशये ।
क्रुद्धंमृत्युमिवाऽसीनंसंभोधयितुमिच्छति ॥ 17 ॥

नमत्तोनिशितान्बाणांद्विजिह्वान्पन्नगानिव ।
रामःपश्यतिसंग्रामेतेनमामभिगच्छति ॥ 18 ॥

क्षिप्रंवज्रसमैर्बाणैश्शतथाकार्मुकच्युतैः ।
राममादीपयिष्यामिउल्काभिरिवकुंजरम् ॥ 19 ॥

तच्चास्यबलमादास्येबलेनमहतावृतः ।
उदितस्सविताकालेनक्षत्राणामिवप्रभाम् ॥ 20 ॥

नवासनेनापिसहस्रचक्षुषायुधाऽस्मिशक्योवरुणेनवापुनः ।
मयात्वियंबाहुबलेननिर्जितापुरापुरीवैश्रवणेनपालिता ॥ 21 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे त्रयोदशस्सर्गः ॥




Browse Related Categories: