View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.54 युद्धकांड - चतुःपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ चतुःपंचाशस्सर्गः ।

स्वबलस्य च घातेन अंगदस्य बलेन च ।
राषसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः ॥ 1 ॥

विष्पार्यचधनुर्घोरंशक्राशनिसमस्वनम् ।
वानराणामनीकानिप्राकिरच्छरवृष्टिभिः ॥ 2 ॥

राक्षसाश्चापिमुख्यास्तेरथेषुसमवस्थिताः ।
नानाप्रहरणाश्शूराःप्रायुध्यंतस्तदारणे ॥ 3 ॥

वानराणांचशूरायेतेसर्वेप्लवगर्षभाः ।
आयुध्यंतशिलाहस्तास्समवेतास्समंततः ॥ 4 ॥

तत्रायुधसहस्राणितस्मिन्नायोधनेभृशम् ।
राक्षसाःकपिमुख्येषुपातयांचक्रिरेतदा ॥ 5 ॥

वानराश्चापिरक्षस्सुगिरवृक्षान्महाशिलाः ।
प्रवीराःपातयामासुर्मत्तमातंगसन्निभाः ॥ 6 ॥

शूराणांयुद्यमानानांसमरेष्न्विवर्तिनाम् ।
तद्राक्षसगणानांचसुयुद्धंसमवर्तत ॥ 7 ॥

प्रभिन्नशिरसःकेचिछचिन्नैःपादैश्चबाहुभिः ।
शस्स्रैरर्दितदेहाभ्यरुधिरेणसमुक्षिताः ॥ 8 ॥

हरयो राक्षसाश्चैन शेरते गां समाश्रिताः ।
कंकगृध्राबलाढ्यश्च गोमायुकुलसंकुलाः ॥ 9 ॥

कबंधानिसमुत्पेतुर्भीमाणांभीषणानिवै ।
भुजपाणिशिरश्छिन्नकायाश्चभूतले ॥ 10 ॥

वानराराक्षसाश्चापिनिपेतुस्तत्रवैरणे ।
ततोवानरसैन्येनहन्यमानंनिशाचरम् ॥ 11 ॥

प्राभज्यतबलंसर्वंवज्रदंष्ट्रस्यपश्यतः ।
राक्षसान्भयवित्रस्तान्हन्यमानान् प्लवंगमैः ॥ 12 ॥

दृष्टवासरोषताम्राक्षोवज्रदंष्ट्रःप्रतापवान् ।
प्रविवेशधनुष्पाणिस्त्रासयन्हरिवाहिनीम् ॥ 13 ॥

शरैर्विदारयामासकंकपत्रैरजिह्मगैः ।
बिभेदवानरांस्तत्रसप्ताष्टौनवपंचच ॥ 14 ॥

विव्याधपरमक्रुद्धोवज्रदंष्ट्रःप्रतापवान् ।
त्रस्ताःसर्वेहरिगणाःशरैःसंकृत्तकंदराः ॥ 15 ॥

अंगदंसंप्रधावंतिप्रजापतिमिवप्रजाः ।
ततोहरिगणान् भग्नान् दृष्टवावालिसुतस्तदा ॥ 16 ॥

क्रोधेनवज्रदंष्ट्रंतमुदीक्षंतमुदैक्षत ।
वज्रदंष्ट्रोऽंगदश्चोभौसंगतौहरिराक्षसौ ॥ 17 ॥

चेरतुःपरमक्रुद्धौहरिमत्तगजाविव ।
ततश्शतसहस्रेणहरिपुत्रंमहाबलः ॥ 18 ॥

जघानमर्मदेशेषुमातंगमिवतोमरैः ।
रुधिरोक्षितसर्वांगोवालिसूनुर्महाबलः ॥ 19 ॥

चिक्षेपवज्रदंष्ट्रायवृक्षंभीमपराक्रमः ।
दृष्टापतंतंतंवृक्षमसंभ्रांतश्चराक्षसः ॥ 20 ॥

चिच्छेदबहुधासोऽपिमथितःप्रादतद्भुवि ।
तंदृष्टवावज्रदंष्ट्रस्यविक्रमंप्लवगर्षभ ॥ 21 ॥

प्रगृह्यविपुलंशैलंचिक्षेपचननादच ।
समापतंतंदृष्टवासरथादाप्लुत्यवीर्यवान् ॥ 22 ॥

गदापाणिरसंभ्रांतःपृथिव्यांसमतिष्ठत ।
सांगदेनगदाक्षिप्तागत्वातुरणमूर्धनि ॥ 23 ॥

सचक्रकूबरंसाश्वंप्रममाथरथंतदा ।
ततोऽन्यच्छिखरंगृह्यविपुलंद्रुमभूषितम् ॥ 24 ॥

वज्रदंष्ट्रस्यशिरसिपातयामाससाऽंगदः ।
अभवच्छोणितोद्गारीवज्रदंष्ट्रस्समूर्छितः ॥ 25 ॥

मुहूर्तमभवन्मूढोगदामालिङ् ग्यनिश्श्वसन् ।
संलब्दसंज्ञोगदयावालिपुत्रमवस्थितम् ॥ 26 ॥

जघानपरमक्रुद्धोवक्षोदेशेनिशाचरः ।
गदांत्यक्त्वाततस्तत्रमुष्टियुद्धमवर्तत ॥ 27 ॥

अन्योन्यंजघ्नतुस्तत्रतावुभौहरिराक्षसौ ।
रुधिरोद्गारिणौतौतुप्रहारैर्जनितश्रमौ ॥ 28 ॥

बभूवतुस्सुविक्रांतावंगारकबुधाविव ।
ततःपरमतेजस्वीअंगदःप्लवगर्षभः ॥ 29 ॥

उत्पाट्यवृक्षंस्थितवान् बहुपुष्पफलांचितम् ।
जग्राहचार्षभंचर्मखडगंचविपुलंशुभम् ॥ 30 ॥

किंकिणाजालसंछन्नंचर्मणाचपरिष्कृतम् ।
चित्रांश्चरुचिरान्मार्गांश्चेरतुःकपिराक्षसौ ॥ 31 ॥

जघ्नतुश्चतदान्योन्यंनिर्दयंजयकाङ् क्षिणौ ।
व्रणैस्सास्त्रैरशोभेतांपुष्पिताविवकिंशुकौ ॥ 32 ॥

युध्यमानौ परिश्रानौ जानुभ्यामवनीं गतौ ।
निमेषांतरमात्रेण अंगदह् कपिकुंजरः ॥ 33 ॥

उदतिष्ठत दीप्ताक्षो दंडाहत इवोरगः ।
निर्मलेन सुधौतेन खड्गेनास्य महच्छिरः ॥ 34 ॥

जघानवज्रदंष्ट्रस्यवालिसूमर्महाबलः ।
रुधिरोक्षितगात्रस्यबभूवपतितंद्विधा ॥ 35 ॥

सरोषपरिवृत्ताक्षंशुभंखडगहतंशिरः ।
वज्रदंष्ट्रंहतंदृष्टवाराक्षसाभयमोहिताः ॥ 36 ॥

त्रस्ताह्यभ्यद्रवन् लंकांवध्यमानाःप्लवंगमैः ।
विषण्णवदनाः दीनाह्रियाकिंचिदवाङ्मुखाः ॥ 37 ॥

निहत्यतंवज्रधरप्रतापःसवालिसूनुःकपिसैन्यमध्ये ।
जगामहर्षंमहितोमहाबलःसहस्रनेत्रस्त्रिदशैरिवावृतः ॥ 38 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे चतुःपंचाशस्सर्गः ॥




Browse Related Categories: