श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ एकोननवतितमस्सर्गः ।
ततश्शरान् दाशरथिस्संधायामित्रकर्शणः ।
ससर्जराक्षसेंद्रायकृद्धस्सर्पैवश्वसन् ॥ 1 ॥
तस्यज्यातलनिर्घोषं स श्रुत्वाराक्षसाधिपः ।
विवर्णवदनोभूत्वालक्ष्मणंसमुदैक्षत ॥ 2 ॥
विषण्णवदनंदृष्टवाराक्षसंरावणात्मजे ।
सौमित्रिंयुद्धसंयुक्तंप्रत्युवाचविभीषणः ॥ 3 ॥
निमित्तान्युपपश्यामियान्यस्मिन् रावणात्मजे ।
त्वरतेनमहाबाहोभग्नएष न संशयः ॥ 4 ॥
ततस्संधायसौमित्रिश्शरानग्निशिखोपमान् ।
मुमोचनिशितांस्तस्मिन् सर्पानिवमहाविषान् ॥ 5 ॥
शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतश्शरैः ।
मुहूर्तमभवन्मूक्षःसर्वसंक्षुभितेंद्रियः ॥ 6 ॥
उपलभ्यमुहूर्तेनसंज्ञांप्रत्यागतेंद्रियः ।
ददर्शावस्थितंवीरंवीरोदशरथात्मजम् ॥ 7 ॥
सोऽभिचक्रामसौमित्रिंरोषात्संरक्तलोचनः ।
अब्रवीच्चैनमासाद्यपुनस्सपरुषंवचः ॥ 8 ॥
किं न स्मरसितद्युद्धेप्रथमेमत्पराक्रमम् ।
निबद्धस्त्वंसहभ्रात्रायदाभुविविचेष्टसे ॥ 9 ॥
युवांखलुमहायुद्धेशक्रानिसमैश्शरैः ।
शायितौप्रथमंभूमौविसंज्ञौसपुरस्सरौ ॥ 10 ॥
स्मृतिर्वानास्तितेमन्येव्यक्तंवायमसादनम् ।
गंतुमिच्छसियस्मात्त्वमंधर्षयितुमिच्छसि ॥ 11 ॥
यदितेप्रथमेयुद्धे न दृष्टोमत्पराक्रमः ।
अद्यतेदर्शयिष्यामितिष्ठेदानींव्यवस्थितः ॥ 12 ॥
इत्युक्त्वासप्तभिर्भाणैरभिविव्याथलक्ष्मणम् ।
दशभिस्तुहनूमंतंतीक्ष्णधाश्शरोत्तमैः ॥ 13 ॥
ततःशरशतेनैवसुप्रयुक्तेनवीर्यवान् ।
क्रोथाव्दिगुणसम्रब्धोनिर्बिभेदविभीषणम् ॥ 14 ॥
तद्दष्टवेंद्रजिताकर्मकृतंरामानुजस्तदा ।
अचिंतयित्वाप्रहसन्नैतत्किंचिदितिब्रुवन् ॥ 15 ॥
मुमोच च शरान् घोरान् सम्गृह्यनरपुंगवः ।
अभीतवदनःक्रुद्धोरावणिंलक्ष्मणोयुधि ॥ 16 ॥
नैवंरणगताःशूराःप्रहरंतिनिशाचर ।
लघवश्चाल्पवीर्याश्चशरासुखास्तवहीमे ॥ 17 ॥
नैवंशूरास्तुयुध्यंतेसमरेजयकांक्षिणः ।
इत्येवंतंब्रुवाणस्तुधन्वीशरैरभिववर्ष ह ॥ 18 ॥
स्यबाणैस्सुविध्वस्तंकवचंकांचनंमहत् ।
व्यशीर्यतरथोपस्थेताराजालमिव्बारात् ॥ 19 ॥
विधूतवर्मानाराचैर्भभूव स कृतव्रणः ।
इंद्रजित्समरेवीरःप्रत्यूषेभानुमानिव ॥ 20 ॥
ततःशरसहस्रेणसंक्रुद्धोरावणात्मजः ।
बिभेदसमरेवीरोलक्ष्मणंभीमविक्रमः ॥ 21 ॥
व्यशीर्यतमहद्धिव्यंकवचंलक्ष्मणस्य च ।
कृतप्रतिकृतान्योन्यंबभूवतुरभिद्रुतौ ॥ 22 ॥
अभीक्ष्णंनिश्श्वसंतौतौयुध्येतांतुमुलंयुधि ।
शरसंकृत्तसर्वांगौसर्वतोरुधिरोक्षितौ ॥ 23 ॥
सुदीर्घकालंतौवीरावन्योन्यनिशितैःशरैः ।
ततक्षतुर्महात्मानौरणकर्मविहारदौ ॥ 24 ॥
बभूवतुश्चात्मजयेयत्तौभीमपराक्रमौ ।
तौशरौघैस्तदाकीर्णौनिकृत्तकवचध्वजौ ॥ 25 ॥
सृजंतौरुधिरंचोष्णंजलंप्रस्रवणाविव ।
शरवर्षंततोघोरंमुंचतोर्भीमनिःस्वनम् ॥ 26 ॥
सासारयोरिवाकाशेनीलयोःकालमेघयोः ।
तयोरथमहान्कालोव्यत्ययाद्युध्यमानयोः ॥ 27 ॥
न च तौयुद्धवैमुख्यंश्रमंवाप्युपजग्मतुः ।
अस्त्राण्यस्त्रविदांश्रेष्ठौदर्शयंतौपुनःपुनः ॥ 28 ॥
शरानुच्छावचाकारानंतरिक्षेबबंधतुः ।
न्यपेतदोषमस्यंतौलघुचित्रं च सुष्ठु च ॥ 29 ॥
उभौतुतुमुलंघोरंचक्रतुर्नरराक्षसौ ।
तयोःपृथक् पृथभगीमश्शुश्रुवेतलनिस्स्वनः ॥ 30 ॥
प्रकंपयन्जनंघोरोनिर्घातैवदारुणः ।
सतयोःभ्राजतेशब्दस्तदासमरयत्तयोः ॥ 31 ॥
सुघोरयोर्निष्टनतोर्गगनेमेघयोरिव ।
सुवर्णपुंखैर्नाराचैर्बलवंतौकृतव्रणौ ॥ 32 ॥
प्रसुस्रुवातेरुधिरंकीर्तिमंतौजयेधृतौ ।
तेगात्रयोर्निपतितारुक्मपुंखाःशरायुधि ॥ 33 ॥
असृदगिग्धाविनिष्पेतुर्विविशुर्धरणीतलम् ।
अन्येसुनिशितैश्शस्त्रैराकाशेसंजघट्टिरे ॥ 34 ॥
बभंजुश्चिच्छिदुश्चैवतयोर्बाणाःसहस्रशः ।
सबभूवरणेघोरस्तयोर्बाणमयश्चयः ॥ 35 ॥
अग्निभ्यामिवदीप्ताभ्यांसत्रेकुशमयश्चयः ।
तयोःकृतव्रणौदेहौशुशुभातेमहात्मनोः ॥ 36 ॥
सुपुष्पाविवनिष्पत्रौवनेशाल्मलिकिंशुकौ ।
चक्रतुस्तुमुलंघोरंसन्निपातंमुहुर्मुहुः ॥ 37 ॥
इंद्रजिल्लक्ष्मणश्चैवपरस्परवधैषिणौ ।
लक्ष्मणोरावणिंयुद्धेरावणिश्चापिलक्ष्मणम् ॥ 38 ॥
अन्योन्यंतावभिघ्नंतौ न श्रमंप्रतिपद्यताम् ।
बाणजालैश्शरीरस्थैरवगाढैस्तरस्विनौ ॥ 39 ॥
शुशुभातेमहावीर्यौप्ररूढाविवपर्वतौ ।
तयोरुधिरसिक्तानिसम्वृतांतिशरैर्भृशम् ॥ 40 ॥
बभ्राजुःसर्वगात्राणिज्वलंतैवपावकाः ।
तयोरथमहान् कालोव्यतीयाद्युध्यमानयोः ॥ 41 ॥
न च तौयुद्धवैमुख्यंश्रमंवाप्युपजग्मतुः ।
अथसमरपरिश्रमंनिहंतुंसमरमुखेष्वजितस्यलक्ष्मणस्य ।
प्रियहितमुपपादयन्महौत्मास्समरमुपेत्यविभीषणोऽवतस्थे ॥ 42 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे एकोननवतितमस्सर्गः ॥