View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.51 बालकांड - एकपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ एकपंचाशस्सर्गः ।

तस्य तद्वचनं श्रुत्वा विश्वामित्रस्य धीमतः ।
हृष्टरोमा महातेजाश्शतानंदो महातपाः ॥ 1 ॥

गौतमस्य सुतो ज्येष्ठस्तपसा द्योतितप्रभः ।
रामसंदर्शनादेव परं विस्मयमागतः ॥ 2 ॥

स तौ निषण्णौ संप्रेक्ष्य सुखासीनौ नृपात्मजौ ।
शतानंदो मुनिश्रेष्ठं विश्वामित्रमथामब्रवीत् ॥ 3 ॥

अपि ते मुनिशार्दूल मम माता यशस्विनी ।
दर्शिता राजपुत्राय तपो दीर्घमुपागता ॥ 4 ॥

अपि रामे महातेजा मम माता यशस्विनी ।
वन्यैरुपाहरत्पूजां पूजार्हे सर्वदेहिनाम् ॥ 5 ॥

अपि रामाय कथितं यथावृत्तं पुरातनम् ।
मम मातुर्महातेजो दैवेन दुरनुष्ठितम् ॥ 6 ॥

अपि कौशिक भद्रं ते गुरुणा मम संगता ।
मम माता मुनिश्रेष्ठ रामसंदर्शनादितः ॥ 7 ॥

अपि मे गुरुणा रामः पूजितः कुशिकात्मज ।
इहागतो महातेजाः पूजां प्राप्तो महात्मनः ॥ 8 ॥

अपि शांतेन मनसा गुरुर्मे कुशिकात्मज ।
इहाऽगतेन रामेण प्रयतेनाभिवादितः ॥ 9 ॥

तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः ।
प्रत्युवाच शतानंदं वाक्यज्ञो वाक्यकोविदम् ॥ 10 ॥

नातिक्रांतं मुनिश्रेष्ठ यत्कर्तव्यं कृतं मया ।
संगता मुनिना पत्नी भार्गवेणेव रेणुका ॥ 11 ॥

तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य भाषितम् ।
शतानंदो महातेजा रामं वचनमब्रवीत् ॥ 12 ॥

स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव ।
विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम् ॥ 13 ॥

अचिंत्यकर्मा तपसा ब्रह्मर्षिरतुलप्रभः ।
विश्वामित्रो महातेजा वेत्स्येनं परमां गतिम् ॥ 14 ॥

नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन ।
गोप्ता कुशिकपुत्रस्ते येन तप्तं महत्तपः ॥ 15 ॥

श्रूयतां चाभिधास्यामि कौशिकस्य महात्मनः ।
यथा बलं यथा वृत्तं तन्मे निगदतः श्रुणु ॥ 16 ॥

राजाऽभूदेष धर्मात्मा दीर्घकालमरिंदमः ।
धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः ॥ 17 ॥

प्रजापतिसुतश्चासीत्कुशो नाम महीपतिः ।
कुशस्य पुत्रो बलवान् कुशनाभस्सुधार्मिकः ॥ 18 ॥

कुशनाभसुतस्त्वासीद्गाधिरित्येव विश्रृतः ।
गाधेः पुत्रो महातेजा विश्वामित्रो महामुनिः ॥ 19 ॥

विश्वामित्रो महातेजाः पालयामास मेदिनीम् ।
बहुवर्षसहस्राणि राजा राज्यमकारयत् ॥ 20 ॥

कदाचित्तु महातेजा योजयित्वा वरूथिनीम् ।
अक्षौहीणीपरिवृतः परिचक्राम मेदिनीम् ॥ 21 ॥

नगराणि सराष्ट्राणि सरितश्च तथा गिरीन् ।
आश्रमान्क्रमशो राम विचरन्नाजगाम ह ॥ 22 ॥

वसिष्ठस्याश्रमपदं नानावृक्षसमाकुलम् ।
नानामृगगणाकीर्णं सिद्धचारणसेवितम् ॥ 23 ॥

देवदानवगंधर्वैः किन्नरैरुपशोभितम् ।
प्रशांतहरिणाकीर्णं द्विजसंघनिषेवितम् ॥ 24 ॥

ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम् ।
तपश्चरणसंसिद्धैरग्निकल्पैर्महात्मभिः ॥ 25 ॥

अब्भक्षैर्वायुभक्षैश्च शीर्णपर्णाशनैस्तथा ।
फलमूलाशनैर्दांतैर्जितरोषैर्जितेंद्रियैः ॥ 26 ॥

ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः ।
अन्यैर्वैखानसैश्चैव समंतादुपशोभितम् ॥ 27 ॥

वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम् ।
ददर्श जयतां श्रेष्ठो विश्वामित्रो महाबलः ॥ 28 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे एकपंचाशस्सर्गः ॥




Browse Related Categories: