View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.72 बालकांड - द्विसप्ततितम सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ द्विसप्ततितमस्सर्गः ।

तमुक्तवंतं वैदेहं विश्वामित्रो महामुनिः ।
उवाच वचनं वीरं वसिष्ठसहितो नृपम् ॥ 1 ॥

अचिंत्यान्यप्रमेयानि कुलानि नरपुंगव ।
इक्ष्वाकूणां विदेहानां नैषां तुल्योऽस्ति कश्चन ॥ 2 ॥

सदृशो धर्मसंबंधः सदृशो रूपसंपदा ।
रामलक्ष्मणयो राजन् सीता चोर्मिलया सह ॥ 3 ॥

वक्तव्यं च नरश्रेष्ठ श्रूयतां वचनं मम ।
भ्राता यवीयान् धर्मज्ञ एष राजा कुशध्वजः ॥ 4 ॥

अस्य धर्मात्मनो राजन् रूपेणाप्रतिमं भुवि ।
सुताद्वयं नरश्रेष्ठ पत्न्यर्थं वरयामहे ॥ 5 ॥

भरतस्य कुमारस्य शत्रुघ्नस्य च धीमतः ।
वरयामस्सुते राजन् तयोरर्थे महात्मनोः ॥ 6 ॥

पुत्रा दशरथस्येमे रूपयौवनशालिनः ।
लोकपालोपमास्सर्वे देवतुल्यपराक्रमाः ॥ 7 ॥

उभयोरपि राजेंद्र संबंधेनानुबध्यताम् ।
इक्ष्वाकोः कुलमव्यग्रं भवतःपुण्यकर्मणः ॥ 8 ॥

विश्वामित्रवच श्शृत्वा वसिष्ठस्य मते तदा ।
जनकः प्रांजलिर्वाक्यमुवाच मुनिपुंगवौ ॥ 9 ॥

कुलं धन्यमिदं मन्ये येषां नो मुनिपुंगवौ ।
सदृशं कुलसंबंधं यदाज्ञापयथः स्वयम् ॥ 10 ॥

एवं भवतु भद्रं वः कुशध्वजसुते इमे ।
पत्न्यौ भजेतां सहितौ शत्रुघ्नभरतावुभौ ॥ 11 ॥

एकाह्ना राजपुत्रीणां चतसृणां महामुने ।
पाणीन् गृह्णंतु चत्वारो राजपुत्रा महाबलाः ॥ 12 ॥

उत्तरे दिवसे ब्रह्मन् फल्गुनीभ्यां मनीषिणः ।
वैवाहिकं प्रशंसंति भगो यत्र प्रजापतिः ॥ 13 ॥

एवमुक्त्वा वचस्सौम्यं प्रत्युत्थाय कृतांजलिः ।
उभौ मुनिवरौ राजा जनको वाक्यमब्रवीत् ॥ 14 ॥

परो धर्मः कृतो मह्यं शिष्योऽस्मिभवतो सदा ।
इमान्यासनमुख्यानि आसातां मुनिपुंगवौ ॥ 15 ॥

यथा दशरथस्येयं तथाऽयोध्या पुरी मम ।
प्रभुत्वे नास्ति संदेहो यथार्हं कर्तुमर्हथ ॥ 16 ॥

तथा ब्रुवति वैदेहे जनके रघुनंदनः ।
राजा दशरथो हृष्टः प्रत्युवाच महीपतिम् ॥ 17 ॥

युवामसंख्येयगुणौ भ्रातरौ मिथिलेश्वरौ ।
ऋषयो राजसंघाश्च भवद्भ्यामभिपूजिताः ॥ 18 ॥

स्वस्ति प्राप्नुहि भद्रं ते गमिष्यामि स्वमालयम् ।
श्राद्धकर्माणि सर्वाणि विधास्यामीति चाब्रवीत् ॥ 19 ॥

तमापृष्ट्वा नरपतिं राजा दशरथस्तदा ।
मुनींद्रौ तौ पुरस्कृत्य जगामाशु महायशाः ॥ 20 ॥

स गत्वा निलयं राजा श्राद्धं कृत्वा विधानतः ।
प्रभाते काल्यमुत्थाय चक्रे गोदानमुत्तमम् ॥ 21 ॥

गवां शतसहस्राणि ब्राह्मणेभ्यो नराधिपः ।
एकैकशो ददौ राजा पुत्रानुद्दिश्य धर्मतः ॥ 22 ॥

सुवर्णश्रुंगा स्संपन्ना स्सवत्साः कांस्यदोहनाः ।
गवां शतसहस्राणि चत्वारि पुरुषर्षभः ॥ 23 ॥

वित्तमन्यच्च सुबहुद्विजेभ्यो रघुनंदनः ।
ददौ गोदानमुद्दिश्य पुत्राणां पुत्रवत्सलः ॥ 24 ॥

स सुतैः कृतगोदानैर्वृतस्तु नृपतिस्तदा ।
लोकपालैरिवाभाति वृतः स्सौम्यः प्रजापतिः ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे द्विसप्ततितमस्सर्गः ॥




Browse Related Categories: