View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

2.119 अयोध्याकांड - एकोनविंशत्यधिकशततम सर्गः

श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ एकोनविंशत्यधिकशततमस्सर्गः ।

अनसूया तु धर्मज्ञा श्रुत्वा तां महतीं कथाम् ।
पर्यष्वजत बाहुभ्यां शिरस्याघ्राय मैथिलीम् ॥ 1 ॥

व्यक्ताक्षरपदं चित्रं भाषितं मधुरं त्वया ।
यथा स्वयंवरं वृत्तं तत्सर्वं हि श्रुतं मया ॥ 2 ॥

रमेऽहं कथया ते तु दृढं मधुरभाषिणि ।
रविरस्तंगतश्श्रीमानुपोह्य रजनीं शिवाम् ॥ 3 ॥

दिवसं प्रतिकीर्णानामाहारार्थं पतत्रिणाम् ।
संध्याकाले निलीनानां निद्रार्थं श्रूयते ध्वनिः ॥ 4 ॥

एते चाप्यभिषेकार्द्रा मुनयः कलशोद्यताः ।
सहिता उपवर्तंते सलिलाप्लुतवल्कलाः ॥ 5 ॥

ऋषीणामग्निहोत्रेषु हुतेषु विधिपूर्वकम् ।
कपोतांगारुणो धूमो दृश्यते पवनोद्धतः ॥ 6 ॥

अल्पपर्णा हि तरवो घनीभूतास्समंततः ।
विप्रकृष्टेंद्रिये देशेऽस्मिन्न प्रकाशंति वै दिशः ॥ 7 ॥

रजनीचरसत्त्वानि प्रचरंति समंततः ।
तपोवनमृगा ह्येते वेदितीर्थेषु शेरते ॥ 8 ॥

संप्रवृत्तानिशा सीते नक्षत्रसमलंकृता ।
ज्योत्स्नाप्रावरणश्चंद्रो दृश्यतेऽभ्युदितोऽंबरे ॥ 9 ॥

गम्यतामनुजानामि रामस्यानुचरी भव ।
कथायंत्या हि मधुरं त्वयाऽहं परितोषिता ॥ 10 ॥

अलंकुरु च तावत्त्वं प्रत्यक्षं मम मैथिलि ।
प्रीतिं जनय मे वत्से दिव्यालंकारशोभिता ॥ 11 ॥

सा तथा समलंकृत्य सीता सुरसुतोपमा ।
प्रणम्य शिरसा तस्यै रामं त्वभिमुखी ययौ ॥ 12 ॥

तथा तु भूषितां सीतां ददर्श वदतां वरः ।
राघवः प्रीतिदानेन तपस्विन्या जहर्ष च ॥ 13 ॥

न्यवेदयत्ततस्सर्वं सीता रामाय मैथिली ।
प्रीतिदानं तपस्विन्या वसनाभरणस्रजम् ॥ 14 ॥

प्रहृष्टस्त्वभवद्रामो लक्ष्मणश्च महारथः ।
मैथिल्यास्सत्क्रियां दृष्ट्वा मानुषेषु सुदुर्लभाम् ॥ 15 ॥

ततस्तां शर्वरीं प्रीतः पुण्यां शशिनिभाननः ।
अर्चितस्तापसै स्सिद्धैरुवास रघुनंदनः ॥ 16 ॥

तस्यां रात्र्यां व्यतीतायामभिषिच्य हुताग्निकान् ।
आपृच्छेतां नरव्याघ्रौ तापसान्वनगोचरान् ॥ 17 ॥

तावूचुस्ते वनचरास्तापसा धर्मचारिणः ।
वनस्य तस्य संचारं राक्षसैस्समभिप्लुतम् ॥ 18 ॥

रक्षांसि पुरुषादानि नानारूपाणि राघव ।
वसंत्यस्मिन्महारण्ये व्यालाश्च रुधिराशनाः ॥ 19 ॥

उच्छिष्टं वा प्रमत्तं वा तापसं धर्मचारिणम् ।
अदंत्यस्मिन्महारण्ये तान्निवारय राघव ॥ 20 ॥

एष पंथा महर्षीणां फलान्याहरतां वने ।
अनेन तु वनं दुर्गं गंतुं राघव ते क्षमम् ॥ 21 ॥

इतीव तैः प्रांजलिभिस्तपस्विभिर्द्विजैः कृतस्वस्त्ययनः परंतपः ।
वनं सभार्यः प्रविवेश राघवस्सलक्ष्मणस्सूर्य इवाभ्रमंडलम् ॥ 22 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे एकोनविंशत्यधिकशततमस्सर्गः ॥




Browse Related Categories: