श्रीमद्वाल्मीकीय रामायणे अयोध्याकांडम् ।
अथ अशीतितमस्सर्गः ।
अथ भूमिप्रदेशज्ञास्सूत्रकर्मविशारदाः ।
स्वकर्माभिरताश्शूराः खनका यंत्रकास्तथा ॥ 1 ॥
कर्मांतिकाः स्थपतयः पुरुष यंत्रकोविदाः ।
तथा वार्धकयश्चैव मार्गिणो वृक्षतक्षकाः ॥ 2 ॥
कूपकारास्सुधाकारार्वंशकर्मकृतस्तथा ।
समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे ॥ 3 ॥
अथ भूमिप्रदेशज्ञास्सूत्रकर्मविशारदाः ।
स्वकर्माभिरताश्शूराः खनका यंत्रकास्तथा ॥ 4 ॥
कर्मांतिकाः स्थपतयः पुरुष यंत्रकोविदाः ।
तथा वार्धकयश्चैव मार्गिणो वृक्षतक्षकाः ॥ 5 ॥
कूपकारास्सुधाकारार्वंशकर्मकृतस्तथा ।
समर्था ये च द्रष्टारः पुरतस्ते प्रतस्थिरे ॥ 6 ॥
स तु हर्षात्तमुद्देशं जनौघो विपुलः प्रयान् ।
अशोभत महावेगस्समुद्र इव पर्वणि ॥ 7 ॥
ते स्ववारं समास्थाय वर्त्मकर्मणि कोविदाः ।
करणैर्विविधोपेतैः पुरस्तात्संप्रतस्थिरे ॥ 8 ॥
लतावल्ली श्च गुल्मांश्च स्थाणूनश्मन एव च ।
जनायांचक्रिरे मार्गं छिंदंतो विविधांद्रुमान् ॥ 9 ॥
अवृक्षेषु च देशेषु केचिद्वृक्षानरोपयन् ।
केचित्कुठारैष्टंकैश्च दात्रैश्चिंदन्क्वचित्क्वचित् ॥ 10 ॥
अपरे वीरणस्तंभान्बलिनो बलवत्तराः ।
विधमंति स्म दुर्गाणि स्थलानि च ततस्ततः ॥ 11 ॥
अपरेऽपूरयन्कूपान्पांसुभि श्श्वभ्रमायतम् ।
निम्नभागान्स्ततः केचित्समान्श्चक्रु स्समंततः ॥ 12 ॥
बबंधुर्बंधनीयांश्च क्षोद्यान्संचुक्षुदुस्तदा ।
बिभिदुर्भेदनीयांश्च तांस्तांदेशान्नरा स्तदा ॥ 13 ॥
अचिरेणैव कालेन परिवाहान्बहूदकान् ।
चक्रुर्बहुविधाकारान् सागरप्रतिमान्बहून् ॥ 14 ॥
निर्जलेषु च देशेषु खानयामासुरुत्तमान् ।
उदपानान्बहुविधान्वेदिकापरिमंडितान् ॥ 15 ॥
ससुधाकुट्टिमतलः प्रपुष्पितमहीरुहः ।
मत्तोद्घुष्ट द्विजगणः पताकाभिरलंकृतः ॥ 16 ॥
चंदनोदकसंसिक्तो नानाकुसुमभूषितः ।
बह्वशोभत सेनायाः पंथा स्सुरपथोपमः ॥ 17 ॥
आज्ञाप्याथ यथाऽज्ञप्ति युक्तास्तेऽधिकृता नराः ।
रमणीयेषु देशेषु बहुस्वादुफलेषु च ॥ 18 ॥
यो निवेशस्त्वभिप्रेतो भरतस्य महात्मनः ।
भूयस्तं शोभयामासुर्भूषाभिर्भूषणोपमम् ॥ 19 ॥
नक्षत्रेषु प्रशस्तेषु मुहूर्तेषु च तद्विदः ।
निवेशान् स्थापयामासुर्भरतस्य महात्मनः ॥ 20 ॥
बहुपांसुचयाश्चापि परिखापरिवारिताः ।
तत्रेंद्रकीलप्रतिमाः प्रतोलीवरशोभिताः ॥ 21 ॥
प्रासादमालावितता स्सौधप्राकारसंवृताः ।
पताकाशोभिता स्सर्वे सुनिर्मितमहापथाः ॥ 22 ॥
विसर्पद्भिरिवाऽकाशे विटंकाग्रविमानकैः ।
समुच्छ्रितैर्निवेशास्ते बभुश्शक्रपुरोपमाः ॥ 23 ॥
जाह्नवीं तु समासाद्य विविधद्रुमकाननाम् ।
शीतलामलपानीयां महामीनसमाकुलाम् ॥ 24 ॥
सचंद्रतारागणमंडितं यथा नभः क्षपायाममलं विराजते ।
नरेंद्रमार्गस्स तथा व्यराजत क्रमेण रम्यः शुभशिल्पिनिर्मितः ॥ 25 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अयोध्याकांडे अशीतितमस्सर्गः ॥