View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.32 अरण्यकांड - द्वात्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ द्वात्रिंशस्सर्गः ।

ततश्शूर्पणखा दृष्ट्वा सहस्राणि चतुर्दश ।
हतान्येकेन रामेण रक्षसां भीमकर्मणाम् ॥ 1 ॥

दूषणं च खरं चैव हतं त्रिशिरसा सह ।
दृष्ट्वा पुनर्महानादं ननाद जलदो यथा ॥ 2 ॥

सा दृष्ट्वा कर्म रामस्य कृतमन्यैस्सुदुष्करम् ।
जगाम परमोद्विग्ना लंकां रावणपालिताम् ॥ 3 ॥

सा ददर्श विमानाग्रे रावणं दीप्ततेजसम् ।
उपोपविष्टं सचिवैर्मरुद्भिरिव वासवम् ॥ 4 ॥

आसीनं सूर्यसंकाशे कांचने परमासने ।
रुक्मवेदिगतं प्राज्यं ज्वलंतमिव पावकम् ॥ 5 ॥

देवगंधर्वभूतानामृषीणां च महात्मनाम् ।
अजेयं समरे शूरं व्यात्ताननमिवांतकम् ॥ 6 ॥

देवासुरविमर्देषु वज्राशनिकृतव्रणम् ।
ऐरावतविषाणग्रैरुद्घृष्टकिणवक्षसम् ॥ 7 ॥

विंशद्भुजं दशग्रीवं दर्शनीयपरिच्छदम् ।
विशालवक्षसं वीरं राजलक्षण शोभितम् ॥ 8 ॥

स्निग्धवैडूर्यसंकाशं तप्तकांचनकुंडलम् ।
सुभुजं शुक्लदशनं महास्यं पर्वतोपमम् ॥ 9 ॥

विष्णुचक्रनिपातैश्च शतशो देवसंयुगे ।
अन्यैश्शस्त्रप्रहारैश्च महायुद्धेषु ताडितम् ॥ 10 ॥

अहतांगं समस्तैश्च देवप्रहरणैस्तथा ।
अक्षोभ्याणां समुद्राणां क्षोभणं क्षिप्रकारिणम् ॥ 11 ॥

क्षेप्तारं पर्वतेंद्राणां सुराणां च प्रमर्दनम् ।
उच्छेत्तारं च धर्माणां परदाराभिमर्शनम् ॥ 12 ॥

सर्वदिव्यास्त्रयोक्तारं यज्ञविघ्नकरं सदा ।
पुरीं भोगवतीं प्राप्य पराजित्य च वासुकिम् ॥ 13 ॥

तक्षकस्य प्रियां भार्यां पराजित्य जहार यः ।
कैलासपर्वतं गत्वा विजित्य नरवाहनम् ।
विमानं पुष्पकं तस्य कामगं वै जहार यः ॥ 14 ॥

वनं चैत्ररथं दिव्यं नलिनीं नंदनं वनम् ।
विनाशयति यः क्रोधाद्देवोद्यानानि वीर्यवान् ॥ 15 ॥

चंद्रसूर्यौ महाभागावुत्तिष्ठंतौ परंतपौ ।
निवारयति बाहुभ्यां यश्शैलशिखरोपमः ॥ 16 ॥

दशवर्षसहस्राणि तपस्तप्वा महावने ।
पुरा स्वयंभुवे धीरश्शिरांस्युपजहार यः ॥ 17 ॥

देवदानवगंधर्वपिशाचपतगोरगैः ।
अभयं यस्य संग्रामे मृत्युतो मानुषादृते ॥ 18 ॥

मंत्रैरभिष्टुतं पुण्यमध्वरेषु द्विजातिभिः ।
हविर्धानेषु यस्सोममुपहंति महाबलः ॥ 19 ॥

आप्तयज्ञहरं क्रूरं ब्रह्मघ्नं दुष्टचारिणम् ।
कर्कशं निरनुक्रोशं प्रजानामहिते रतम् ॥ 20 ॥

रावणं सर्वभूतानां सर्वलोकभयावहम् ।
राक्षसी भ्रातरं शूरं सा ददर्श महाबलम् ॥ 21 ॥

तं दिव्यवस्त्राभरणं दिव्यमाल्योपशोभितम् ।
आसने सूपविष्टं च कालकालमिवोद्यतम् ॥ 22 ॥

राक्षसेंद्रं महाभागं पौलस्त्यकुलनंदनम् ॥ 23 ॥

रावणं शत्रुहंतारं मंत्रिभिः परिवारितम् ।
अभिगम्याब्रवीद्वाक्यं राक्षसी भयविह्वला ॥ 24 ॥

तमब्रवीद्दीप्तविशाललोचनं प्रदर्शयित्वा भयमोहमूर्छिता ।
सुदारुणं वाक्यमभीतचारिणी महात्मना शूर्पणखा विरूपिता ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे द्वात्रिंशस्सर्गः ॥




Browse Related Categories: