View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

3.37 अरण्यकांड - सप्तत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे अरण्यकांडम् ।
अथ सप्तत्रिंशस्सर्गः ।

तच्छृत्वा राक्षसेंद्रस्य वाक्यं वाक्यविशारदः ।
प्रत्युवाच महाप्राज्ञो मारीचो राक्षसेश्वरम् ॥ 1 ॥

सुलभाः पुरुषा राजन्सततं प्रियवादिनः ।
अप्रियस्य तु पथ्यस्य वक्ता श्रोता च दुर्लभः ॥ 2 ॥

न नूनं बुध्यसे रामं महावीर्यं गुणोन्नतम् ।
अयुक्तचारश्चपलो महेंद्रवरुणोपमम् ॥ 3 ॥

अपि स्वस्ति भवेत्तात सर्वेषां भुवि रक्षसाम् ।
अपि रामो नासंक्रुद्धः कुर्याल्लोकमराक्षसम् ॥ 4 ॥

अपि ते जीवितांताय नोत्पन्ना जनकात्मजा ।
अपि सीतानिमित्तं च न भवेद्व्यसनं मम ॥ 5 ॥

अपि त्वामीश्वरं प्राप्य कामवृत्तं निरंकुशम् ।
न विनश्येत्पुरी लंका त्वया सह सराक्षसा ॥ 6 ॥

त्वद्विधः कामवृत्तो हि दुश्शीलः पापमंत्रितः ।
आत्मानं स्वजनं राष्ट्रं स राजा हंति दुर्मतिः ॥ 7 ॥

न च पित्रा परित्यक्तो नामर्यादः कथंचन ।
न लुब्धो न च दुश्शीलो न च क्षत्रियपांसनः ॥ 8 ॥

न च धर्मगुणैर्हीनः कौसल्यानंदवर्धनः ।
न तीक्ष्णो न च भूतानां सर्वेषामहिते रतः ॥ 9 ॥

वंचितं पितरं दृष्ट्वा कैकेय्या सत्यवादिनम् ।
करिष्यामीति धर्मात्मा तात प्रव्रजितो वनम् ॥ 10 ॥

कैकेय्याः प्रियकामार्थं पितुर्दशरथस्य च ।
हित्वा राज्यं च भोगांश्च प्रविष्टो दंडकावनम् ॥ 11 ॥

न रामः कर्कशस्तात नाविद्वान्नाजितेंद्रियः ।
अनृतं दुश्श्रुतं चैव नैव त्वं वक्तुमर्हसि ॥ 12 ॥

रामो विग्रहवान् धर्मस्साधुस्सत्यपराक्रमः ।
राजा सर्वस्य लोकस्य देवानां मघवानिव ॥ 13 ॥

कथं त्वं तस्य वैदेहीं रक्षितां स्वेन तेजसा ।
इच्छसि प्रसभं हर्तुं प्रभामिव विवस्वतः ॥ 14 ॥

शरार्चिषमाधृष्यं चापखंगेंधनं रणे ।
रामाग्निं सहसा दीप्तं न प्रवेष्टुं त्वमर्हसि ॥ 15 ॥

धनुर्व्यादितदीप्तास्यं शरार्चिषममर्षणम् ।
चापबाणधरं तीक्ष्णं शत्रुसैन्यप्रहारिणम् ॥ 16 ॥

राज्यं सुखं च संत्यज्य जीवितं चेष्टमात्मनः ।
नात्यासादयितुं तात रामांतकमिहार्हसि ॥ 17 ॥

अप्रमेयं हि तत्तेजो यस्य सा जनकात्मजा ।
न त्वं समर्थस्तां हर्तुं रामचापाश्रयं वने ॥ 18 ॥

तस्य सा नरसिंहस्य सिंहोरस्कस्य भामिनी ।
प्राणेभ्योऽपि प्रियतरा भार्या नित्यमनुव्रता ॥ 19 ॥

न सा धर्षयितुं शक्या मैथिल्योजस्विनः प्रिया ।
दीप्तस्येव हुताशस्य शिखा सीता सुमध्यमा ॥ 20 ॥

किमुद्यममिमं व्यर्थं कृत्वा ते राक्षसाधिप ।
दृष्टश्चेत्वं रणे तेन तदंतं तव जीवितम् ॥ 21 ॥

जीवितं च सुखं चैव राज्यं चैव सुदुर्लभम् ।
यदीच्छसि चिरं भोक्तुं मा कृथा रामविप्रियम् ॥ 22 ॥

स सर्वैस्सचिवैस्सार्धं विभीषणपुरोगमैः ।
मंत्रयित्वा तु धर्मिष्ठैः कृत्वा निश्चयमात्मनः ॥ 23 ॥

दोषाणां च गुणानां च संप्रधार्य बलाबलम् ।
आत्मनश्च बलं ज्ञात्वा राघवस्य च तत्वतः ॥ 24 ॥

हिताहितं विनिश्चित्य क्षमं त्वं कर्तुमर्हसि ।
अहं तु मन्ये तव न क्षमं रणे समागमं कोसलराजसूनुना ।
इदं हि भूयश्शृणु वाक्यमुत्तमं क्षमं च युक्तं च निशाचरेश्वर ॥ 25 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये अरण्यकांडे सप्तत्रिंशस्सर्गः ॥




Browse Related Categories: