View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

4.17 किष्किंधाकांड - सप्तदश सर्गः

श्रीमद्वाल्मीकीय रामायणे किष्किंधाकांडम् ।
अथ सप्तदशस्सर्गः ।

ततश्शरेणाभिहतो रामेण रणकर्कशः ।
पपात सहसा वाली निकृत्त इव पादपः ॥ 1 ॥

स भूमौ न्यस्तसर्वांगस्तप्तकांचनभूषणः ।
अपतद्देवराजस्य मुक्तरश्मिरिव ध्वजः ॥ 2 ॥

तस्मिन्निपतिते भूमौ वानराणां गणेश्वरे ।
नष्टचंद्रमिव व्योम न व्यराजत भूतलम् ॥ 3 ॥

भूमौ निपतितस्यापि तस्य देहं महात्मनः ।
न श्रीर्जहाति न प्राणा न तेजो न पराक्रमः ॥ 4 ॥

शक्रदत्ता वरा माला कांचनी वज्रभूषिता ।
दधार हरिमुख्यस्य प्राणांस्तेज्शियं च सा ॥ 5 ॥

स तया मालया वीरो हेमया हरियूथपः ।
संध्यानुगतपर्यंतः पयोधर इवाभवत् ॥ 6 ॥

तस्य माला च देहश्च मर्मघाती च यश्शरः ।
त्रिधेव रचिता लक्ष्मीः पतितस्यापि शोभते ॥ 7 ॥

तदस्त्रं तस्य वीरस्य स्वर्गमार्गप्रभावनम् ।
रामबाणासनक्षिप्तमावहत्परमां गतिम् ॥ 8 ॥

तं तदा पतितं संख्ये गतार्चिषमिवानलम् ।
बहुमान्य च तं वीर वीक्षमाणं शनैरिव ॥ 9 ॥

ययातिमिव पुण्यांते देवलोकादिहच्युतम् ।
आदित्यमिव कालेन युगांते भुवि पातितम् ॥ 10 ॥

महेंद्रमिव दुर्धर्षंमुपेंद्रमिव दुस्सहम् ।
महेंद्रपुत्रं पतितं वालिनं हेममालिनम् ॥ 11 ॥

सिंहोरस्कं महाबाहुं दीप्तास्यं हरिलोचनम् ।
लक्ष्मणानुगतो रामो ददर्शोपससर्प च ॥ 12 ॥

तं दृष्ट्वा राघवं वाली लक्ष्मणं च महाबलम् ।
अब्रवीत्प्रश्रितं वाक्यं परुषं धर्मसंहितम् ॥ 13 ॥

त्वं नराधिपतेः पुत्रः प्रथितः प्रियदर्शनः कुलीनस्सत्त्वसंपन्न स्तेजस्वी चरितव्रतः ॥ 14 ॥

पराङ्मुखवधं कृत्वा कोऽत्र प्राप्तस्त्वया गुणः ।
यदहं युद्धसंरब्धश्शरेणोरसि ताडितः ॥ 15 ॥

रामः करुणवेदी च प्रजानां च हिते रतः ।
सानुक्रोशो जितोत्साहस्समयज्ञो दृढव्रतः ॥ 16 ॥

इति ते सर्वभूतानि कथयंति यशो भुवि ॥ 17 ॥

दमश्शमः क्षमा धर्मो धृतिस्सत्यं पराक्रमः ।
पार्थिवानां गुणा राजंदंडश्चाप्यपराधिषु ॥ 18 ॥

तान्गुणान्संप्रधार्याहमग्र्यं चाभिजनं तव ।
तारया प्रतिषिद्धोऽपि सुग्रीवेण समागतः ॥ 19 ॥

न मामन्येन सम्रब्धं प्रमत्तं योद्धु मर्हसि ।
इति मे बुद्धिरुत्पन्ना बभूवादर्शने तव ॥ 20 ॥

न त्वां विनिहतात्मानं धर्मध्वजमधार्मिकम् ।
जाने पापसमाचारं तृणैः कूपमिवावृतम् ॥ 21 ॥

सतां वेषधरं पापं प्रच्छन्नमिव पावकम् ।
नाहं त्वामभिजानामि धर्मच्छद्माभिसंवृतम् ॥ 22 ॥

विषये वा पुरे वा ते यदा पापं करोम्यहम् ।
न च त्वामवजाने च कस्मात्त्वं हंस्यकिल्बिषम् ॥ 23 ॥

फलमूलाशनं नित्यं वानरं वनगोचरम् ।
मामिहाप्रतियुध्यंतमन्येन च समागतम् ॥ 24 ॥

त्वं नराधिपतेः पुत्रः प्रतीतः प्रियदर्शनः ।
लिंगमप्यस्ति ते राजनंदृश्यते धर्मसंहितम् ॥ 25 ॥

कः क्षत्रियकुले जात्शृतवान्नष्टसंशयः ।
धर्मलिंगप्रतिच्छन्न क्रूरं कर्म समाचरेत् ॥ 26 ॥

राम राजकुले जातो धर्मवानिति विश्रुतः ॥ 27 ॥

अभव्यो भव्यरूपेण किमर्थं परिधावसि ।
साम दानं क्षमा धर्मस्सत्यं धृतिपराक्रमौ ।
पार्थिवानां गुणा राजन् दंडश्चाप्यपराधिषु ॥ 28 ॥

वयं वनचरा राम मृगा मूलफलाशनाः ।
एषा प्रकृतिरस्माकं पुरुषस्त्वं नरेश्वरः ॥ 29 ॥

भूमिर्हिरण्यं रूप्यं च विग्रहे कारणानि च ।
अत्र कस्ते वने लोभो मदीयेषु फलेषु वा ॥ 30 ॥

नयश्च विनयश्चोभौ निग्रहानुग्रहावपि ॥ 31 ॥

राजवृत्तिरसंकीर्णा न नृपाः कामवृत्तयः ।
त्वं तु कामप्रधानश्च कोपनश्चानवस्थितः ॥ 32 ॥

राजवृत्तेश्च संकीणश्शरासनपरायणः ।
न तेऽस्त्यपचितिर्धर्मे नार्थे बुद्धिरवस्थिता ॥ 33 ॥

इंद्रियैः कामवृत्तस्सन्कृष्यसे मनुजेश्वर ।
हत्वा बाणेन काकुत्स्थ मामिहानपराधिनम् ॥ 34 ॥

किं वक्ष्यसि सतां मध्ये कर्म कृत्वा जुगुप्सितम् ।
राजहा ब्रह्महा गोघ्नश्चोरः प्राणिवधे रतः ॥ 35 ॥

नास्तिकः परिवेत्ता च सर्वे निरयगामिनः ।
सूचकश्च कदर्यश्च मित्रघ्नो गुरुतल्पगः ॥ 36 ॥

लोकं पापात्मनामेते गच्छंते नात्र संशयः ।
अधार्यं चर्म मे सद्भी रोमाण्यस्थि च वर्जितम् ।
अभक्ष्याणि च मांसानि त्वद्विधैर्धर्मचारिभिः ॥ 37 ॥

पंच पंच नखा भक्ष्या ब्रह्मक्षत्रेण राघव ॥ 38 ॥

शल्यक श्श्वाविधो गोधा शशः कूर्मश्च पंचमः ।
चर्म चास्थि च मे राजन् नस्पृशंति मनीषिणः ॥ 39 ॥

अभक्ष्याणि च मांसानि सोऽहं पंचनखो हतः ।
तारया वाक्यमुक्तोऽहं सत्यं सर्वज्ञया हितम् ॥ 40 ॥

तदतिक्रम्य मोहेन कालस्य वशमागतः ।
त्वया नाथेन काकुत्स्थ न सनाथा वसुंधरा ।
प्रमदा शीलसंपन्ना धूर्तेन पतिना यथा ॥ 41 ॥

शठो नैकृतिकः क्षुद्रो मिथ्याप्रश्रितमानसः ।
कथं दशरथेन त्वं जातः पापो महात्मना ॥ 42 ॥

छिन्नचारित्रकक्ष्येण सतां धर्मातिवर्तिना ।
त्यक्तधर्मांकुशेनाहं निहतो रामहस्तिना ॥ 43 ॥

अशुभं चाप्ययुक्तं च सतां चैव विगर्हितम् ।
वक्ष्यसे चेदृशं कृत्वा सद्भिस्सह समागतः ॥ 44 ॥

उदासीनेषु योऽस्मासु विक्रमऽस्ते प्रकाशितः ।
अपकारिषु ते राजन्नहि पश्यामि विक्रमम् ॥ 45 ॥

दृश्यमानस्तु युद्ध्येथा मया यदि नृपात्मज ।
अद्य वैवस्वतं देवं पश्येस्त्वं निहतो मया ॥ 46 ॥

त्वयाऽदृश्येन तु रणे निहतोऽहं दुरासदः ।
प्रसुप्तः पन्नगेनेव नरः पानवशं गतः ॥ 47 ॥

मामेव यदि पूर्वं त्वमेतदर्थमचोदयः ॥ 48 ॥

मैथिलीमहमेकाह्ना तव चानीतवान्भवेत् ।
सुग्रीवप्रियकामेन यदहं निहतस्त्वया ।
कंठे बद्ध्वा प्रदद्यां ते निहतं रावणं रणे ॥ 49 ॥

न्यस्तां सागरतोये वा पाताले वापि मैथिलीम् ।
आनयेयं तवादेशाच्छ्वेतामश्वतरीमिव ॥ 50 ॥

युक्तं यत्प्राप्नुयाद्राज्यं सुग्रीवस्स्वर्गते मयि ।
अयुक्तं यदधर्मेण त्वयाऽहं निहतो रणे ॥ 51 ॥

काममेवं विधो लोकः कालेन विनियुज्यते ।
क्षमं चेद्भवता प्राप्तमुत्तरं साधु चिंत्यताम् ॥ 52 ॥

इत्येवमुक्त्वा परिशुष्कवक्त्रः शराभिघाताद्व्यथितो महात्मा ।
समीक्ष्य रामं रविसन्निकाशं तूष्णीं बभूवामरराजसूनुः ॥ 53 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये किष्किंधाकांडे सप्तदशस्सर्गः ॥




Browse Related Categories: