View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

5.38 सुंदरकांड - अष्टत्रिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे सुंदरकांडम् ।
अथ अष्टत्रिंशस्सर्गः ।

ततस्स कपिशार्दूलस्तेन वाक्येन तोषितः ।
सीतामुवाच तच्छृत्वा वाक्यं वाक्यविशारदः ॥ 1 ॥

युक्तरूपं त्वया देवि भाषितं शुभदर्शने ।
सदृशं स्त्रीस्वभावस्य साध्वीनां विनयस्य च ॥ 2 ॥

स्त्रीत्वं न तु समर्थं हि सागरं व्यतिवर्तितुम् ।
मामधिष्ठाय विस्तीर्णं शतयोजनमायतम् ॥ 3 ॥

द्वितीयं कारणं यच्च ब्रवीषि विनयान्विते ।
रामादन्यस्य नार्हामि संस्पर्शमिति जानकि ॥ 4 ॥

एतत्ते सदृशं देवि पत्न्यास्तस्य महात्मनः ।
का ह्यन्या त्वामृते देवि ब्रूयाद्वचनमीदृशम् ॥ 5 ॥

श्रोष्यते चैव काकुत्स्थः सर्वं निरवशेषतः ।
चेष्टितं यत्त्वया देवि भाषितं मम चाग्रतः ॥ 6 ॥

कारणैर्बहुभिर्देवि रामप्रियचिकीर्षया ।
स्नेहप्रस्कन्नमनसा मयैतत्समुदीरितम् ॥ 7 ॥

लंकाया दुष्प्रवेशत्वाद्दुस्तरत्वान्महोदधेः ।
सामर्थ्यादात्मनश्चैव मयैतत्समुदीरितम् ॥ 8 ॥

इच्छामि त्वां समानेतुमद्यैव रघुबंधुना ।
गुरुस्नेहेन भक्त्या च नान्यथैतदुदाहृतम् ॥ 9 ॥

यदि नोत्सहसे यातुं मया सार्थमनिंदिते ।
अभिज्ञानं प्रयच्छ त्वं जानीयाद्राघवो हि यत् ॥ 10 ॥

एवमुक्ता हनुमता सीता सुरसुतोपमा ।
उवाच वचनं मंदं बाष्पप्रग्रथिताक्षरम् ॥ 11 ॥

इदं श्रेष्ठमभिज्ञानं ब्रूयास्त्वं तु मम प्रियम् ।
शैलस्य चित्रकूटस्य पादे पूर्वोत्तरे पुरा ॥ 12 ॥

तापसाश्रमवासिन्याः प्राज्यमूलफलोदके ।
तस्मिन्सिद्धाश्रमे देशे मंदाकिन्या विदूरतः ॥ 13 ॥

तस्योपवनषंडेषु नानापुष्पसुगंधिषु ।
विहृत्य सलिले क्लिन्ना ममांके समुपाविशमः ॥ 14 ॥

ततो मांससमायुक्तो वायसः पर्यतुंडयत् ।
तमहं लोष्टमुद्यम्य वारयामिस्म वायसम् ॥ 15 ॥

दारयन्स च मां काकस्तत्त्रैव परिलीयते ।
न चाप्युपारमन्मांसाद्भक्षार्थि बलिभोजनः ॥ 16 ॥

उत्कर्षंत्यां च रशनां क्रुद्धायां मयि पक्षिणि ।
स्रस्यमाने च वसने ततो दृष्टा त्वया ह्यहम् ॥ 17 ॥

त्वयाऽपहसिता चाहं क्रुद्धा संलज्जिता तदा ।
भक्षगृध्नेन काकेन दारिता त्वामुपागता ॥ 18 ॥

आसीनस्य च ते श्रांता पुनरुत्संगमाविशम् ।
क्रुध्यंती च प्रहृष्टेन त्वयाऽहं परिसांत्विता ॥ 19 ॥

बाष्पपूर्णमुखी मंदं चक्षुषी परिमार्जती ।
लक्षिताऽहं त्वया नाथ वायसेन प्रकोपिता ॥ 20 ॥

परिश्रमात्प्रसुप्ता च राघवांकेऽप्यहं चिरम् ।
पर्यायेण प्रसुप्तश्च ममांके भरताग्रजः ॥ 21 ॥

स तत्र पुनरेवाथ वायसस्समुपागमत् ।
ततस्सुप्तप्रबुद्धां मां रामस्यांकात्समुत्थिताम् ॥ 22 ॥

वायसस्सहसागम्य विददार स्तनांतरे ।
पुनः पुनरथोत्पत्य विददार स मां भृशम् ॥ 23 ॥

ततस्समुक्षितो रामो मुक्तैश्शोणितबिंदुभिः ।
वायसेन ततस्तेन बलवत्क्लिश्यमानया ॥ 24 ॥

स मया बोधितश्श्रीमान्सुखसुप्तः परंतपः ।
स मां दृष्ट्वा महाबाहुर्वितुन्नां स्तनयोस्तदा ॥ 25 ॥

आशीविष इव क्रुद्धश्वसन्वाक्यमभाषत ।
केन ते नागनासोरु विक्षतं वै स्तनांतरम् ॥ 26 ॥

कः क्रीडति सरोषेण पंचवक्त्रेण भोगिना ।
वीक्षमाणस्ततस्तं वै वायसं समुदैक्षत ॥ 27 ॥

नखैस्सरुधिरैस्तीक्ष्णैर्मामेवाभिमुखं स्थितम् ।
पुत्त्रः किल स शक्रस्य वायसः पततां वरः ॥ 28 ॥

धरांतरगतश्शीघ्रं पवनस्य गतौ समः ।
ततस्तस्मिन्महाबाहुः कोपसंवर्तितेक्षणः ॥ 29 ॥

वायसे कृतवान्क्रूरां मतिं मतिमतां वरः ।
स दर्भं संस्तराद्गृह्य ब्राह्मेणास्त्रेण योजयत् ॥ 30 ॥

स दीप्त इव कालाग्निर्जज्वालाभिमुखो द्विजम् ।
स तं प्रदीप्तं चिक्षेप दर्भं तं वायसं प्रति ॥ 31 ॥

ततस्तं वायसं दर्भस्सोंबरेऽनुजगाम ह ।
अनुसृष्टस्तदा काको जगाम विविधां गतिम् ॥ 32 ॥

लोककाम इमं लोकं सर्वं वै विचचार ह ।
स पित्रा च परित्यक्तस्सुरैश्च समहर्षिभिः ॥ 33 ॥

त्रीन्लोकान्संपरिक्रम्य तमेव शरणं गतः ।
स तं निपतितं भूमौ शरण्यश्शरणागतम् ॥ 34 ॥

वधार्हमपि काकुत्स्थः कृपया पर्यपालयत् ।
परिद्यूनं विषण्णं च स तमायांतमब्रवीत् ॥ 35 ॥

मोघं कर्तुं न शक्यं तु ब्राह्ममस्त्रं तदुच्यताम् ।
हिनस्तु दक्षिणाक्षि त्वच्छर इत्यथ सोऽब्रवीत् ॥ 36 ॥

ततस्तस्याक्षि काकस्य हिनस्ति स्म स दक्षिणम् ।
दत्त्वा स दक्षिणं नेत्रं प्राणेभ्यः परिरक्षितः ॥ 37 ॥

स रामाय नमस्कृत्य राज्ञे दशरथाय च ।
विसृष्टस्तेन वीरेण प्रतिपेदे स्वमालयम् ॥ 38 ॥

मत्कृते काकमात्रे तु ब्रह्मास्त्रं समुदीरितम् ।
कस्माद्यो मां हरेत्त्वत्तः क्षमसे तं महीपते ॥ 39 ॥

स कुरुष्व महोत्साहः कृपां मयि नरर्षभ ।
त्वया नाथवती नाथ ह्यनाथा इव दृश्यते ॥ 40 ॥

आनृशंस्यं परो धर्मस्तवत्त्त ऐव मया श्रुतः ।
जानामि त्वां महावीर्यं महोत्साहं महाबलम् ॥ 41 ॥

अपारपारमक्षोभ्यं गांभीर्यात्सागरोपमम् ।
भर्तारं ससमुद्राया धरण्या वासवोपमम् ॥ 42 ॥

एवमस्त्रविदां श्रेष्ठस्सत्यवान्बलवानपि ।
किमर्थमस्त्रं रक्षस्सु न योजयसि राघव ॥ 43 ॥

न नागा नाऽपि गंधर्वा नासुरा न मरुद्गणाः ।
रामस्य समरे वेगं शक्ताः प्रतिसमाधितुम् ॥ 44 ॥

तस्य वीर्यवतः कश्चिद्यद्यस्ति मयि संभ्रमः ।
किमर्थं न शरैस्तीक्ष्णैः क्षयं नयति राक्षसान् ॥ 45 ॥

भ्रातुरादेशमादाय लक्ष्मणो वा परंतपः ।
कस्य हेतोर्न मां वीरः परित्राति महाबलः ॥ 46 ॥

यदि तौ पुरुषव्याघ्रौ वाय्वग्निसमतेजसौ ।
सुराणामपि दुर्धर्षौ किमर्थं मामुपेक्षतः ॥ 47 ॥

ममैव दुष्कृतं किंचिन्महदस्ति न संशयः ।
समर्थावपि तौ यन्मां नावेक्षेते परंतपौ ॥ 48 ॥

वैदेह्या वचनं श्रुत्वा करुणं साश्रुभाषितम् ।
अथाब्रवीन्महातेजा हनुमान्मारुतात्मजः ॥ 49 ॥

त्वच्छोकविमुखो रामो देवि सत्येन ते शपे ।
रामे दुःखाभिपन्ने च लक्ष्मणः परितप्यते ॥ 50 ॥

कथंचिद्भवती दृष्टा न कालः परिदेवितुम् ।
इमं मुहूर्तं दुःखानां द्रक्ष्यस्यंतमनिंदिते ॥ 51 ॥

तावुभौ पुरुषव्याघ्रौ राजपुत्रौ महाबलौ ।
त्वद्दर्शनकृतोत्साहौ लंकां भस्मीकरिष्यतः ॥ 52 ॥

हत्त्वा च समरे क्रूरं रावणं सहबांधवम् ।
राघवस्त्वां विशालाक्षि नेष्यति स्वां पुरीं प्रति ॥ 53 ॥

ब्रूहि यद्राघवो वाच्यो लक्ष्मणश्च महाबलः ।
सुग्रीवो वापि तेजस्वी हरयोऽपि समागताः ॥ 54 ॥

इत्युक्तवति तस्मिंस्तु सीता सुरसुतोपमा ।
उवाच शोकसंतप्ता हनुमंतं प्लवंगमम् ॥ 55 ॥

कौसल्या लोकभर्तारं सुषुवे यं मनस्विनी ।
तं ममार्थे सुखं पृच्छ शिरसा चाभिवादय ॥ 56 ॥

स्रजश्च सर्वरत्नानि प्रिया याश्च वरांगनाः ।
ऐश्वर्यं च विशालायां पृथिव्यामपि दुर्लभम् ॥ 57 ॥

पितरं मातरं चैव सम्मान्याभिप्रसाद्य च ।
अनुप्रव्रजितो रामं सुमित्रा येन सुप्रजाः ॥ 58 ॥

आनुकूल्येन धर्मात्मा त्यक्त्वा सुखमनुत्तमम् ।
अनुगच्छति काकुत्स्थं भ्रातरं पालयन्वने ॥ 59 ॥

सिंहस्कंधो महाबाहुर्मनस्वी प्रियदर्शिनः ।
पितृवद्वर्तते रामे मातृवन्मां समाचरन् ॥ 60 ॥

ह्रियमाणां तदा वीरो न तु मां वेद लक्ष्मणः ।
वृद्धोपसेवी लक्ष्मीवान् शक्तो न बहुभाषिता ॥ 61 ॥

राजपुत्रः प्रियः श्रेष्ठः सदृशः श्वशुरस्य मे ।
ममः प्रियतरो नित्यं भ्राता रामस्य लक्ष्मणः ॥ 62 ॥

नियुक्तो धुरि यस्यां तु तामुद्वहति वीर्यवान् ।
यं दृष्ट्वा राघवो नैव वृत्तमार्यमनुस्मरेत् ॥ 63 ॥

स ममार्थाय कुशलं वक्तव्यो वचनान्मम ।
मृदुर्नित्यं शुचिर्दक्षः प्रियो रामस्य लक्ष्मणः ॥ 64 ॥

यथा हि वानरश्रेष्ठ दुःखक्षयकरो भवेत् ।
त्वमस्मिन्कार्यनिर्योगे प्रमाणं हरिसत्तमः ॥ 65 ॥

राघवस्त्वत्समारंभान्मयि यत्नपरो भवेत् ।
इदं ब्रूयाश्च मे नाथं शूरं रामं पुनः पुनः ॥ 66 ॥

जीवितं धारयिष्यामि मासं दशरथात्मज ।
ऊर्ध्वं मासान्न जीवेयं सत्येनाहं ब्रवीमि ते ॥ 67 ॥

रावणेनोपरुद्धां मां निकृत्य पापकर्मणा ।
त्रातुमर्हसि वीर त्वं पातालादिव कौशिकीम् ॥ 68 ॥

ततो वस्त्रगतं मुक्त्वा दिव्यं चूडामणिं शुभम् ।
प्रदेयो राघवायेति सीता हनुमते ददौ ॥ 69 ॥

प्रतिगृह्य ततो वीरो मणिरत्नमनुत्तमम् ।
अंगुल्या योजयामास न ह्यस्य प्राभवद्भुजः ॥ 70 ॥

मणिरत्नं कपिवरः प्रतिगृह्याभिवाद्य च ।
सीतां प्रदक्षिणं कृत्वा प्रणतः पार्व्शतः स्थितः ॥ 71 ॥

हर्षेण महता युक्तः सीतादर्शनजेन सः ।
हृदयेन गतो रामं शरीरेण तु विष्ठितः ॥ 72 ॥

मणिवरमुपगृह्य तं महार्हं जनकनृपात्मजया धृतं प्रभावात् ।
गिरिरिव पवनावधूतमुक्तः सुखितमनाः प्रतिसंक्रमं प्रपेदे ॥ 73 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुंदरकांडे अष्टत्रिंशस्सर्गः ॥




Browse Related Categories: