View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.12 युद्धकांड - द्वादश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ द्वादशस्सर्गः ।

सतांपरिषदंकृत्स्नांसमीक्ष्यसमितिंजयः ।
प्रचोदयामासतदाप्रहस्तंवाहिनीपतिम् ॥ 1 ॥

सेनापतेयथातेस्युःकृतविद्याश्चतुर्विधाः ।
योधानगररक्षायांतथाव्यादेष्टुमर्हसि ॥ 2 ॥

सप्रहस्तःप्रणीतात्माचिकीर्षन् राजशासनम् ।
विनिक्षिपद्बलंसर्वंबहिरंतश्चमंदिरे ॥ 3 ॥

ततोविनिक्षिप्यबलंसर्वनगरगुप्तये ।
प्रहस्तःप्रमुखेराज्ञोनिषसादजगादच ॥ 4 ॥

विहितंबहिरंतश्चबलंबलवतस्तव ।
कुरुष्याविमनाःक्षिप्रंयदभिप्रेतमस्तुते ॥ 5 ॥

प्रहस्तस्यवचश्श्रुत्वाराजाराज्यहितैषिणः ।
सुखेप्सुस्सुहृदांमध्येव्याजहारसरावणः ॥ 6 ॥

प्रियाप्रियेसुखंदुःखंलाभालाभेहिताहिते ।
धर्मकामार्थकृच्छ्रेषुयूयमर्हथवेदितुम् ॥ 7 ॥

सर्वकृत्यानियुष्माभिस्समारब्धानिसर्वथा ।
मंत्रकर्मनियुक्तानिनजातुविफलानिमे ॥ 8 ॥

ससोमग्रहनक्षत्रैर्मरुद्भिरिववासवः ।
भवद्भिरहमत्यर्थंवृतश्रियमवाप्नुयाम् ॥ 9 ॥

अहंतुखलुसर्वान्वस्समर्थयितुमुद्यतः ।
कुंभकर्णस्यतुस्वप्नान्नेममर्थमचोदयम् ॥ 10 ॥

इयं च दंडकारण्याद्रामस्य महिषी प्रिया ।
रक्षोभिश्चरितोद्देशादानीता जनकात्मजा ॥ 11 ॥

इयंचदंडकारण्याद्रामस्यमहिषीमया ।
रक्षोभिश्चरितोद्देशादानीताजनकात्मजा ॥ 12 ॥

सामेवशय्यामारोढुमिच्छत्यलसगामिनी ।
त्रिषुलोकेषुचान्यामेनसीतासदृशीमता ॥ 13 ॥

तनुमध्यापृथुश्रोणीशरदिंदुनिभानना ।
हेमबिंबनिभासौम्यामायेवमयनिर्मिता ॥ 14 ॥

सुलोहिततलौश्लक्ष् णौचरणौसुप्रतिष्ठितौ ।
दृष्ट्वाताम्रनखौतस्यादीप्यतेमेशरीरजः ॥ 15 ॥

हुताग्निरर्चिस्संकाशामेनांसौरीमिवप्रभाम् ।
उन्नसंविमलंवल्गुविपुलांचारुलोचनम् ॥ 16 ॥

पश्यंस्तदवशस्तस्याःकामस्यवशमेयिवान् ।
क्रोधहर्षसमानेनदुर्वर्णकरणेनच ॥ 17 ॥

शोकसंतापनित्येनकामेनकलुषीकृतः ।
सातुसंवत्सरंकालंमामयाचतभामिनी ॥ 18 ॥

प्रतीक्षमाणाभर्तारंराममायतलोचना ।
तन्मयाचारुनेत्रायःप्रतिज्ञातंवचश्शुभम् ॥ 19 ॥

बहुसत्त्वसमाकीर्णं तौ वा दशरथात्मजौ ।
अथवा कपिनैकेन कृतं नः कदनं महत् ॥ 20 ॥

बहुसत्त्वसमाकीर्णंतौवादशरथात्मजौ ।
अथवाकपिनैकेनकृतंनःकदनंमहत् ॥ 21 ॥

दुर् ज्ञेयाःकार्यगतयोब्रूतयस्ययथामति ।
मानुष्यान्नोभयंनास्तितथापितुविमृश्यताम् ॥ 22 ॥

तदादेवासुरेयुद्धेयुष्माभिस्सहितोऽजयम् ।
तेमेभवंतश्चतथासुग्रीवप्रमुखान्हरीन् ॥ 23 ॥

परेपारेसमुद्रस्यपुरस्कृत्यनृपात्मजौ ।
सीतायाःपदवींप्राप्यसंप्राप्तौवरुणालयाम् ॥ 24 ॥

अदेयाचयथासीतावध्यौदशरथात्मजौ ।
भवद्भिर्मंत्र्यतांमंत्रस्सुनीतंचाभिधीयताम् ॥ 25 ॥

नहिशक्तिंप्रपश्यामिजगत्यन्यस्यकस्यचित् ।
सागरंवानरैस्तीर्वानिश्चयेनजयोमम ॥ 26 ॥

तस्यकामपरीतस्यनिशम्यपरिदेवितम् ।
कुंभकर्णःप्रचुक्रोधवचनंचेदमब्रवीत् ॥ 27 ॥

यदातुरामस्यसलक्ष्मणस्यप्रसह्यसीताखलुसाइहाऽहृता ।
सकृत्समीक्ष्यैवसुनिश्चितंतदाभजेतचित्तंयमुनेवयामुनम् ॥ 28 ॥

सर्वमेतन्महाराजकृतमप्रतिमंतव ।
विधीयेतसहास्माभिरादावेवास्यकर्मणः ॥ 29 ॥

न्यायेनराजकार्याणियःकरोतिदशाननः ।
नससंतप्यतेपश्चान्निश्चितार्थमतिर्नृपः ॥ 30 ॥

अनुपायेनकर्माणिविपरीतानियानिच ।
क्रियमाणानिदुष्यंतिहवींष्यप्रयतेष्विव ॥ 31 ॥

यःपश्चात्पूर्वकार्याणिकर्माण्यभिचिकीर्षति ।
पूर्वंचापरकार्याणिनसवेदनयानयौ ॥ 32 ॥

चपलस्यतुकृत्येषुप्रसमीक्ष्याधिकंबलम् ।
क्षिप्रमन्येप्रपद्यंतेक्रौंचस्यखमिवद्विजाः ॥ 33 ॥

त्वयेदंमहादारब्धंकार्यमप्रतिचिंतितम् ।
दिष्ट्यात्वांनावधीद्रामोविषमिश्रमिवामिषम् ॥ 34 ॥

तस्मात्त्वयासमारब्धंकर्मह्यप्रतिमंपरैः ।
अहंसमीकरिष्यामिहत्वाशत्रूंस्तवानघ ॥ 35 ॥

अहमुत्सादयिष्यामिशत्रूंस्तवनिशाचर ।
यदिशक्रविवस्वंतौयदिपावकमारुतौ ॥ 36 ॥

तावहंयोधयिष्यामिकुबेरवरुणावपि ।
गिरिमात्रशरीरस्यमहापरिघयोधिनः ।
नर्दतस्तीक्ष्णदंष्ट्रस्यबिभीयाद्वैपुरंदरः ॥ 37 ॥

पुनर्मांसद्वितीयेनशरेणनिहनिष्यति ।
ततोऽहंतस्यपास्यामिरुधिरंकाममाश्वस ॥ 38 ॥

वधेनवैदाशरथेस्सुखावहंजयंतवाहर्तुमहंयतिष्ये ।
हत्वाचरामंसहलक्ष्मणेनखादामिसर्वान्हरियूथमुख्यान् ॥ 39 ॥

रमस्वकामं पिबचाग्य्रवारुणींकुरष्वकार्याणिहितानिविज्वरः ।
मयातुरामेगमितेयमक्षयंचिरायसीतावशगाभविष्यति ॥ 40 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे द्वादशस्सर्गः ॥




Browse Related Categories: