View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.18 युद्धकांड - अष्टादश सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ अष्टादशस्सर्गः ।

अथरामःप्रसन्नात्माशृत्वावायुसुतस्यह ।
प्रत्यभाषतदुर्धषश्रुतवानात्मनिस्थितम् ॥ 1 ॥

ममापितुविवक्षाऽस्तिकाचित्प्रतिविभीषणम् ।
श्रोतुमिच्छामितत्सर्वंभवद्भिश्श्रेयसिस्थितैः ॥ 2 ॥

मित्रभावेनसंप्राप्तंनत्यजेयंकथंचन ।
दोषोयद्यपितस्यस्यात्सतामेतदगर्हितम् ॥ 3 ॥

सुग्रीस्त्वथतद्वाक्यमाभाष्यचविमृश्यच ।
ततश्शुभतरंवाक्यमुवाचहरिपुंगवः ॥ 4 ॥

सुदुष्टोवाप्यदुष्टोवाकिमेषरजनीचरः ।
ईदृशंव्यसनंप्राप्तंभ्रातरंयःपरित्यजेत् ॥ 5 ॥

कोनामसभवेत्तस्ययमेषनपरित्यजेत् ।
वानराधिपतेर्वाक्यंश्रुत्वासर्वानुदीक्ष्यच ॥ 6 ॥

ईषदुत्स्मयमानस्तुलक्ष्मणंपुण्यलक्षणम् ।
इतिहोवाचकाकुत्स्थोवाक्यंसत्यपराक्रमः ॥ 7 ॥

अनधीत्यचशास्त्राणिवृद्धाननुपसेव्यच ।
नशक्यमीदृशंवक्तुंयदुवाचहरीश्वरः ॥ 8 ॥

अस्तिसूक्ष्मतरंकिंचिद्यदत्रप्रतिभातिमे ।
प्रत्यक्षंलौकिकंचापिविद्यतेसर्वराजसु ॥ 9 ॥

अमित्रास्तत्कुलीनाश्चप्रातिदेश्याश्चकीर्तिताः ।
व्यसनेषुप्रहर्तारस्तस्मादयमिहागतः ॥ 10 ॥

अपापास्तत्कुलीनाश्चमानयंतिस्वकान्हितान् ।
एषप्रायोनरेंद्राणांशंकनीयस्तुशोभनः ॥ 11 ॥

यस्तुदोषस्त्वयाप्रोक्तोह्यादानेऽरिबलस्यच ।
तत्रतेकीर्तयिष्यामियथाशास्त्रमिदंशृणु ॥ 12 ॥

नवयंतत्कुलीनाश्चराज्यकाङ् क्षीचराक्षसः ।
पंडिताहिभविष्यंतितस्माद्ग्राह्योविभीषणः ॥ 13 ॥

अव्यग्राश्चप्रहृष्टाश्चनभविष्यंतिसंगता ।
प्रणादश्चमहानेषततोऽस्यभयमागतम् ॥ 14 ॥

इतिभेदंगमिष्यंतितस्माग्राह्योविभीषणः ।
नसर्वेभ्रातरस्तातभवंतिभरतोपमाः ।
मद्विथावापितुःपुत्रास्सुहृदोनाभवद्विथाः ॥ 15 ॥

एवमुक्तस्तुरामेणसुग्रीवस्सहलक्ष्मणः ।
उत्थायेदंमहाप्राज्ञःप्रणतोवाक्यमब्रवीत् ॥ 16 ॥

रावणेनप्रणिहितंतमवेहिविभीषणम् ।
तस्याहंनिग्रहंमन्येक्षमंक्षमवतांवर ॥ 17 ॥

राक्षसोजिह्मयाबुध्यासंदिष्टोऽयमिहागतः ।
प्रहर्तुंत्वयिविश्वस्तेप्रच्छन्नोमयिवानघ ॥ 18 ॥

लक्ष्मणेवामहाबाहो सवध्यस्सचिवैस्सहा ।
रावणस्यनृशंसस्यभ्राताह्येषविभीषणः ।
एवमुक्त्वारघुश्रेष्ठंसुग्रीवोवाहिनीपतिः ।
वाक्यज्ञोवाक्यकुशलंततोमौनमुपागमत् ॥ 19 ॥

सुग्रीवस्यतुतद्वाक्यंरामश्रुत्वाविमृश्यच ।
ततश्शुभतरंवाक्यमुवाचहरिपुंगवम् ॥ 20 ॥

सुदुष्टोवाप्यदुष्टोवाकिमेषरजनीचरः ।
सूक्ष्ममप्यहितंकर्तुंममाशक्तःकथंचन ॥ 21 ॥

ततः शुभतरं वाक्यं उवाच हरि पुम्गवम् ।
सुदुष्टो वा अपि अदुष्टो वा किं एष रजनी चरः ॥ 22 ॥

श्रूयतेहिकपोतेनशत्रुश्शरणमागतः ।
अर्चितश्चयथान्यायंस्वैश्चमांसैर्निमंत्रितः ॥ 23 ॥

सहितंप्रतिजग्राहभार्याहर्तारमागतः ।
कपोतोवानरश्रेष्ठः किंपुनर्मद्विधोजनः ॥ 24 ॥

ऋषेःकण्वस्यपुत्रेणकंडुनापरमर्षिणा ।
शृणुगाथांपुरागीतांधर्मिष्ठासत्यवादिना ॥ 25 ॥

बद्धांजलिपुटंदीनंयाचंतंशरणागतम् ।
नहन्यदानृशंस्यार्थमपिशत्रुंपरंतप ॥ 26 ॥

आर्तोवायदिवादृप्तःपरेषांशरणांगतः ।
अरिःप्राणान्परित्यज्यरक्षितव्यःकृतात्मना ॥ 27 ॥

सचेद्भयाद्वामोहाद्वाकामाद्वापिनरक्षति ।
स्वयाशक्त्यायथासत्त्वंतत्पापंलोकगर्हितम् ॥ 28 ॥

विनष्टःपश्यतस्तस्यारक्षिणश्शरणागतः ।
आदायसुकृतंतस्यसर्वंगच्छेदरक्षितः ॥ 29 ॥

एवंदोषोमहानत्रप्रपन्नानामरक्षणे ।
अस्वर्ग्यंचायशस्यंचबलवीर्यविनाशनम् ॥ 30 ॥

करिष्यामियथार्थंतुकंडोर्वचनमुत्तमम् ।
धर्मिष्ठंचयशस्यंचस्वर्ग्यंस्यात्तुफलोदये ॥ 31 ॥

सकृदेवप्रपन्नायतवास्मीतिचयाचते ।
अभयंसर्वभूतेभ्योददाम्येतद्व्रतंमम ॥ 32 ॥

अनयैनंहरिश्रेष्ठः दत्तमस्याभयंमया ।
विभीषणोवासुग्रीवः यदिवारावणस्स्वयम् ॥ 33 ॥

रामस्यतुवच्शुत्वासुग्रीवःप्लवगेश्वरः ।
प्रत्यभाषतकाकुत्स्थंसौहार्देनप्रचोदितः ॥ 34 ॥

किमत्रचित्रंधर्मज्ञः लोकनाथः सुखावहाः ।
यत्त्वमार्यंप्रभाषेथास्सत्त्ववान् सत्पथेस्थितः ॥ 35 ॥

ममचाप्यंतरात्मायंशुद्धंवेत्तिविभीषणम् ।
अनुमानाच्चभावाच्चसर्वतस्सुपरीक्षितः ॥ 36 ॥

तस्मात् क्षिप्रंसहास्माभिस्तुल्योभवतराघवः ।
विभीषणोमहाप्राज्ञस्सखित्वंचाभ्युपैतुनः ॥ 37 ॥

ततस्तुसुग्रीववचोनिशम्यतद्दरीश्वरेणाभिहितंनरेश्वरः ।
विभीषणेनाशुजगामसंगमंपतत्त्रिराजेनयथापुरंदरः ॥ 38 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे अष्टादशस्सर्गः ॥




Browse Related Categories: