View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.86 युद्धकांड - षडशीतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ षडशीतितमस्सर्गः ।

अथतस्यामवस्थायांलक्ष्मणंरावणानुजः ।
परेषामहितंवाक्यमर्थसाधकमब्रवीत् ॥ 1 ॥

यदेतद्राक्षसानीकंमेघश्यामंविलोक्यते ।
एतदायोध्यतांशीघ्रंकपिभिपादपायुधैः ॥ 2 ॥

अस्यानीकस्यमहतोभेदनेयतलक्ष्मण ।
राक्षसेंद्रसुतोऽप्यत्रभिन्नेदृश्योभविष्यति ॥ 3 ॥

सत्वमिंद्राशनिप्रख्यैःशरैरवकिरन्परान् ।
अभिद्रवाशुयावद्वैनैतत्कर्मसमाप्यते ॥ 4 ॥

ज हिवीरदुरात्मानंमायापरमधार्मिकम् ।
रावणिंक्रूरकर्माणंसर्वलोकभयावहम् ॥ 5 ॥

विभीषणवच्श्रुत्वालक्ष्मणश्शुभलक्षणः ।
ववर्षशरवर्षाणिराक्षसेंद्रसुतंप्रति ॥ 6 ॥

ऋक्षाःशाखामृगाश्चैवद्रुमद्रिनखयोधिनः ।
अभ्यधावंतसहितास्तदनीकमवस्थितम् ॥ 7 ॥

राक्षसाश्चशितैर्भाणैरसिभिश्शक्तितोमरैः ।
उद्यदैससं वर्तंतसमरेकपिसैन्यजिघांसवः ॥ 8 ॥

स संप्रहारस्तुमुलःसंजज्ञेकपिरक्षसाम् ।
शब्देनमहतालंकांनादयन्वैसमंततः ॥ 9 ॥

शस्त्रश्चविविधाकारैश्शितैर्बाणैश्चपादपैः ।
उद्यतैर्गिरिशृंगैश्चघोरैराकाशमावृतम् ॥ 10 ॥

तेराक्षसावानरेषुविकृताननबाहवः ।
निवेशयंतःशस्त्राणिचक्रुस्तेसुमहद्भयम् ॥ 11 ॥

तथैवसकलैर्वृक्षैर्गिरिशृंगैश्चवानराः ।
अभिजघ्नुजघ्नुश्चसमरेराक्षसर्षभान् ॥ 12 ॥

ऋक्षवानरमुख्यैश्चमहाकायैर्महाबलैः ।
रक्षसांयुध्यमानानांमहद्भयमजायत ॥ 13 ॥

स्वमनीकंविषण्णंतुश्रुत्वाशत्रुभिरर्दितम् ।
उदतिष्ठतदुर्दर्षः स कर्मण्यननुष्ठिते ॥ 14 ॥

वृक्षांधकारान्निर्गम्यजातक्रोधः स रावणिः ।
आरुरोहरथंसज्जंपूर्वयुक्तंसुसंयतम् ॥ 15 ॥

स भीमकार्मुकधरःकालमेघसमप्रभः ।
रक्तास्यनयनोकृद्धोमभौमृत्युरिवांतकः ॥ 16 ॥

दृष्टवैवतुरथस्थंतंपर्यवर्तततद्बलम् ।
रक्षसांभीमवेगानांलक्ष्मणेनयुयुत्सताम् ॥ 17 ॥

तस्मिन् कालेतुहनूमानुद्यम्यसुदुरासदम् ।
धरणीधरसंकाशोमहावृक्षमरिंदमः ॥ 18 ॥

स राक्षसानांतत्सैन्यंकालाग्निरिवनिर्दहन् ।
चकारबहुभिर्वक्षैर्निःसंज्ञंयुधिवानरः ॥ 19 ॥

विध्वंसंतंतरसादृष्टवैवपवनात्मजम् ।
राक्षसानांसहस्राणिहनूमंतमवाकिरन् ॥ 20 ॥

शितशूलधराश्शूलैरसिभिश्चासिपाणयः ।
शक्तिहस्ताश्चभिश्शक्तिपट्टसैः पट्टसायुधाः ॥ 21 ॥

परिघैश्चगदाभिश्चकुंतैश्चशुभदर्शनैः ।
शतशश्चशतघ्नीभिरायसैरपिमुद्गरैः ॥ 22 ॥

घोरैःपरशुभिश्चैवभिदनिपालैश्चराक्षसाः ।
मुष्टिभिर्वज्रकल्पैश्चतलैरशनिसन्निभैः ॥ 23 ॥

अभिजघ्नुःसमासाद्यसमंतात्पर्वतोपमम् ।
तेषामपि च संग्रुद्धश्चकारकदनंमहत् ॥ 24 ॥

स ददर्शकपिश्रेष्ठमचलोपममिंद्रजित् ।
सूदमानमसंत्रस्तममित्रान् पवनात्मजम् ॥ 25 ॥

स सारथिमुवाचेदंयाहियत्रैषवानरः ।
क्षयमेवहिनःकुर्याद्राक्षसामुपेक्षितः ॥ 26 ॥

इत्युक्तस्सारथिस्तेनययौयत्र न मारुतिः ।
वहन् परमदुर्धर्षंस्थितमिंद्रजितंरथे ॥ 27 ॥

सोऽभ्युपेत्यशरान्खंगान्पट्टसासिपरश्वधान् ।
अभ्यवर्षतदुर्धर्षःकपिमूर्थनिराक्षसः ॥ 28 ॥

तानिशस्त्राणिघोराणिप्रतिगृह्य स मारुतिः ।
रोषेणमहताविष्टोवाक्यंचेदमुवाच ह ॥ 29 ॥

युध्यस्वयदिशूरोऽसिरावणात्मजदुर्मते ।
वायुपुत्रंसमासाद्य न जीवन् प्रतियास्यसि ॥ 30 ॥

बाहुभ्यांसंप्रतियुध्यस्वयदिमेद्वंद्वमाहवे ।
वेगंसहस्वदुर्बुद्धेततस्त्वंरक्षसांवरः ॥ 31 ॥

हनूमंतंजिघांसंतंसमुद्यतशरासनम् ।
रावणात्मजमाचष्टे लक्ष्मणाय विभीषणः ॥ 32 ॥

यस्सवासवनिर्जेतारावणस्यात्मसंभवः ।
स एषरथमास्थायहनूमंतंजिघांसति ॥ 33 ॥

तमप्रतिमसंस्थानैश्शरैश्शत्रुनिवारणैः ।
जीवितांतकरैर्घोरैःसौमित्रेरावणिंजहि ॥ 34 ॥

इत्येवमुक्तस्तुतदामहात्माविभीषणेनारिविभीषणेन ।
ददर्शतंपर्वतसन्निकाशंरथस्थितंभीमबलंदुरासदम् ॥ 35 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे षडशीतितमस्सर्गः ॥




Browse Related Categories: