View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

6.92 युद्धकांड - द्विनवतितम सर्गः

श्रीमद्वाल्मीकीय रामायणे युद्धकांडम् ।
अथ द्विनवतितमस्सर्गः ।

रुधिरक्लिन्नगात्रस्तुलक्ष्मणःशुभलक्षणः ।
बभूवहृष्टस्तंहत्वाशक्रजेतारमाहवे ॥ 1 ॥

ततःसजांबवंतंचहनूमंतंचवीर्यवान् ।
संनिपत्यमहातेजास्तांश्चसर्वान्वनौकसः ॥ 2 ॥

आजगामततःशीघ्रंयत्रसुग्रीवराघवौ ।
विभीषणमवष्टभ्यहनूमंतंचलक्ष्मणः ॥ 3 ॥

ततोराममभिक्रम्यसौमित्रिरभिवाद्य च ।
तस्थौभ्रातृसमीपस्थःशक्रस्येंद्रानुजोयथा ॥ 4 ॥

निष्टनन्निवचागत्यराघवायमहात्मने ।
आचचक्षेतदावीरोघोरमिंद्रजितोवधम् ॥ 5 ॥

रावणेस्तुशिरश्छिन्नंलक्ष्मणेनमहात्मना ।
न्यवेदयतरामायतदाहृष्टोविभीषणः ॥ 6 ॥

श्रुत्वैवतुमहावीर्योलक्षणनेंद्रजिद्वधम् ।
प्रहर्षमतुलंलेभेवाक्यंचेदमुवाच ह ॥ 7 ॥

साधुलक्ष्मणतुष्टोऽस्मिकर्मचासुकरंकृतम् ।
रावणेर्हिविनाशेनजितमुत्यपधारय ॥ 8 ॥

स तंशिरस्युपाघ्रायलक्ष्मणंकीर्तिवर्धनम् ।
लज्जमानंबलात्स्नेहादंगमारोप्यवीर्यवान् ॥ 9 ॥

उपवेश्यतमुत्संगेपरिष्वज्यावपीडितम् ।
भ्रातरंलक्ष्मणंस्निग्धंपुनःपुनरुदैक्षत ॥ 10 ॥

शल्यसंपीडितंशस्तंनिःश्वसंतंतुंलक्ष्मणम् ।
रामस्तुदुःखसंतप्तंतंतुनिःश्वासपीडितम् ॥ 11 ॥

मूर्ध्निचैनमुपाघ्रायभूयःसंस्पृश्य च त्वरन् ।
उवाचलक्ष्मणंवाक्यमाश्वास्यपुरुषर्षभः ॥ 12 ॥

कृतंपरमकल्याणंकर्मदुष्करकर्मणा ।
अद्यमन्येहतेपुत्रेरावणंनिहतंयुधि ॥ 13 ॥

अद्याहंविजयीशत्रौहतेतस्मिन् दुरात्मनि ।
रावणस्यनृशंसस्यदिष्ट्यावीरत्वयारणे ॥ 14 ॥

छिन्नोहिदक्षिणोबाहुः स हितस्यव्यपाश्रयः ।
विभीषणहनूमद्भ्यांकृतंकर्ममहद्रणे ॥ 15 ॥

अहोरात्रैस्त्रिभिर्वीरःकथंचितवंदिपातितः ।
विरमित्रःकृतोऽस्म्यद्यनिर्यास्यतिहिरावणः ॥ 16 ॥

बलव्यूहेनमहताश्रुत्वापुत्त्रंनिपातितम् ।
तंपुत्रवधसंतप्तंनिर्यांतंराक्षसाधिपम् ॥ 17 ॥

बलेनावृत्यमहतानिहनिष्यामिदुर्जयम् ।
त्वयालक्ष्मणनाथेनसीता च पृथिवी च मे ॥ 18 ॥

न दुष्प्रापाहतेतस्मिन् शक्रजेतरिचाहवे ।
सतंभ्रातरमाश्वास्यपरिष्वज्य च राघवः ॥ 19 ॥

रामःसुषेणंमुदितस्समाभाष्येदमब्रवीत् ।
सशल्योऽयंमहाप्राज्ञस्सौमित्रिर्मित्रवत्सलः ॥ 20 ॥

यथाभवतिसुस्वस्थस्तथात्वंसमुपाचर ।
विशल्यःक्रियतांक्षिप्रंसौमित्रिस्सविभीषणः ॥ 21 ॥

ऋक्ष्वानरसैन्यानांशूराणांद्रुमयोधिनाम् ।
येचाप्यन्येऽत्रयुध्यंतिसशल्याव्रणिनस्तथा ॥ 22 ॥

तेऽपिसर्वेप्रयत्नेनक्रियंतांसुखिनस्तथा ।
एवमुक्तस्तुरामेणमहात्माहरियूथपः ॥ 23 ॥

लक्ष्मणायदरौनस्तस्सुषेणःपरमौषधम् ।
स तस्यगंधमाघ्रायविशल्यस्समपद्यत ॥ 24 ॥

तदानिर्वेदनश्चैवसंरूढव्रणएव च ।
विभीषणमुखानां च सुहृदांराघवाज्नाया ॥ 25 ॥

सर्ववानरमुख्यानांचिकित्सामकरोत्तदा ।
ततःप्रकृतिमापन्नोहृतशल्योगतव्यथः ॥ 26 ॥

सौमित्रिर्मुदितस्तत्र क्षणेन विगतज्वरः ।
तदैवरामःप्लवगाधिपस्तथाविभीषणश्चर्क्षपतिश्चजांबवान् ।
आवेक्ष्यसौमित्रिमरोगमुथतितंमुदाससैन्यास्सुचिरंजहर्षिरे ॥ 27 ॥

अपूजयत्कर्म स लक्ष्मणस्यसुदुष्करंदाशरथिर्महात्मा ।
बभूवहृष्टोवानरेंद्रोनिशम्यतंशक्रजितंनिपातितम् ॥ 28 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये युद्धकांडे द्विनवतितमस्सर्गः ॥




Browse Related Categories: