View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.40 बालकांड - चत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ चत्वारिंशस्सर्गः ।

. देवतानां वचश्श्रुत्वा भगवान्वै पितामहः ।
प्रत्युवाच सुसंत्रस्तान्कृतांतबलमोहितान् ॥ 1 ॥

यस्येयं वसुधा कृत्स्ना वासुदेवस्य धीमतः ।
कापिलं रूपमास्थाय धारयत्यनिशं धराम् ॥ 2 ॥

तस्य कोपाग्निना दग्धा भविष्यंति नृपात्मजाः ।
पृथिव्याश्चापि निर्भेदोऽदृष्ट एव सनातनः ॥ 3 ॥

सगरस्य च पुत्राणां विनाशोऽदीर्घजीविनाम् ।
पितामहवचश्श्रुत्वा त्रयस्त्रिंशदरिंदम ॥ 4 ॥

देवाः परमसंहृष्टाः पुनर्जग्मुर्यथागतम् ।
सगरस्य च पुत्राणां प्रादुरासीन्महात्मनाम् ॥ 5 ॥

पृथिव्यां भिद्यमानायां निर्घातसमनिस्वनः ।
ततो भित्वा महीं सर्वे कृत्वा चाभिप्रदक्षिणम् ॥ 6 ॥

सहिता स्सगरास्सर्वे पितरं वाक्यमब्रुवन् ।
0 परिक्रांता मही सर्वा सत्त्ववंतश्च सूदिताः ॥ 7 ॥

देवदानवरक्षांसि पिशाचोरगकिन्नराः ।
न च पश्यामहेऽश्वं तमश्वहर्तारमेव च ॥ 8 ॥

किं करिष्याम भद्रं ते बुद्धिरत्र विचार्यताम् ।
तेषां तद्वचनं श्रुत्वा पुत्राणां राजसत्तमः ॥ 9 ॥

समन्युरब्रवीद्वाक्यं सगरो रघुनंदन ।
भूयः खनत भद्रं वो निर्भिद्य वसुधातलम् ॥ 10 ॥

अश्वहर्तारमासाद्य कृतार्थाश्च निवर्तथ ।
पितुर्वचनमासाद्य सगरस्य महात्मनः ॥ 11 ॥

षष्टिः पुत्रसहस्राणि रसातलमभिद्रवन् ।
खन्यमाने ततस्तस्मिन् ददृशुः पर्वतोपमम् ॥ 12 ॥

दिशागजं विरूपाक्षं धारयंतं महीतलम् ।
सपर्वतवनां कृत्स्नां पृथिवीं रघुनंदन ॥ 13 ॥

शिरसा धारयामास विरूपाक्षो महागजः ।
यदा पर्वणि काकुत्स्थ विश्रमार्थं महागजः ॥ 14 ॥

खेदाच्चालयते शीर्षं भूमिकंपस्तदाभवेत् ।
तं ते प्रदक्षिणं कृत्वा दिशापालं महागजम् ॥ 15 ॥

मानयंतो हि ते राम जग्मुर्भित्त्वा रसातलम् ।
ततः पूर्वां दिशं भित्त्वा दक्षिणां बिभिदुः पुनः ॥ 16 ॥

दक्षिणस्यामपि दिशि ददृशुस्ते महागजम् ।
महापद्मं महात्मानं सुमहत्पर्वतोपमम् ॥ 17 ॥

शिरसा धारयंतं ते विस्मयं जग्मुरुत्तमम् ।
ततः प्रदक्षिणं कृत्वा सगरस्य महात्मनः ॥ 18 ॥

षष्टिः पुत्रसहस्राणि पश्चिमां बिभिदुर्दिशम् ।
पश्चिमायामपि दिशि महांतमचलोपमम् ॥ 19 ॥

दिशागजं सौमनसं ददृशुस्ते महाबलाः ।
तं ते प्रदक्षिणं कृत्वा पृष्ट्वा चापि निरामयम् ।
खनंत स्समुपक्रांता दिशं हैमवतीं ततः ॥ 20 ॥

उत्तरस्यां रघुश्रेष्ठ ददृशुर्हिमपांडुरम् ॥ 21 ॥

भद्रं भद्रेण वपुषा धारयंतं महीमिमाम् ।
समालभ्य तत स्सर्वे कृत्वा चैनं प्रदक्षिणम् ॥ 22 ॥

षष्टिः पुत्रसहस्राणि बिभिदुर्वसुधातलम् ।
ततः प्रागुत्तरां गत्वा सागराः प्रथितां दिशम् ॥ 23 ॥

रोषादभ्यखनन् सर्वे पृथिवीं सगरात्मजाः ।
ते तु सर्वे महात्मानो भीमवेगा महाबलाः ॥ 24 ॥

ददृशुः कपिलं तत्र वासुदेवं सनातनम् ।
हयं च तस्य देवस्य चरंतमविदूरतः ॥ 25 ॥

प्रहर्षमतुलं प्राप्तास्सर्वे ते रघुनंदन ।
ते तं हयवरं ज्ञात्वा क्रोधपर्याकुलेक्षणाः ॥ 26 ॥

खनित्रलांगलधरा नानावृक्षशिलाधराः ।
अभ्यधावंत संक्रुद्धास्तिष्ठ तिष्ठेति चाब्रुवन् ॥ 27 ॥

अस्माकं त्वं हि तुरगं यज्ञीयं हृतवानसि ।
दुर्मेधस्त्वं हि संप्राप्तान् विद्धि नस्सगरात्मजान् ॥ 28 ॥

श्रुत्वा तु वचनं तेषां कपिलो रघुनंदन ।
रोषेण महताऽऽविष्टो हुंकारमकरोत्तदा ॥ 29 ॥

ततस्तेनाप्रमेयेन कपिलेन महात्मना ।
भस्मराशीकृतास्सर्वे काकुत्स्थ सगरात्मजाः ॥ 30 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे चत्वारिंशस्सर्गः ॥




Browse Related Categories: