View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.45 बालकांड - पंचचत्वारिंश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ पंचचत्वारिंशस्सर्गः ।

विश्वामित्रवचश्श्रुत्वा राघव स्सहलक्ष्मणः ।
विस्मयं परमं गत्वा विश्वामित्रमथाब्रवीत् ॥ 1 ॥

अत्यद्भुतमिदं ब्रह्मन् कथितं परमं त्वया ।
गंगावतरणं पुण्यं सागरस्यापि पूरणम् ॥ 2 ॥

तस्य सा शर्वरी सर्वा सह सौमित्रिणा तदा ।
जगाम चिंतयानस्य विश्वामित्रकथां शुभाम् ॥ 3 ॥

ततः प्रभाते विमले विश्वामित्रं महामुनिम् ।
उवाच राघवो वाक्यं कृताह्निकमरिंदमः ॥ 4 ॥

गता भगवती रात्रिश्श्रोतव्यं परमं श्रुतम् ।
क्षणभूतेव नौ रात्रि स्सम्वृत्तेयं महातपः ॥ 5 ॥

इमां चिंतयतस्सर्वां निखिलेन कथां तव ।
तराम सरितां श्रेष्ठां पुण्यां त्रिपथगां नदीम् ॥ 6 ॥

नौरेषा हि सुखास्तीर्णा ऋषीणां पुण्यकर्मणाम् ।
भगवंतमिह प्राप्तं ज्ञात्वा त्वरितमागता ॥ 7 ॥

तस्य तद्वचनं श्रुत्वा राघवस्य महात्मनः ।
संतारं कारयामास सर्षिसंघ स्सराघवः ॥ 8 ॥

उत्तरं तीरमासाद्य संपूज्यर्षिगणं तदा ।
गंगाकूले निविष्टास्ते विशालां ददृशुः पुरीम् ॥ 9 ॥

ततो मुनिवरस्तूर्णं जगाम सह राघवः ।
विशालां नगरीं रम्यां दिव्यां स्वर्गोपमां तदा ॥ 10 ॥

अथ रामो महाप्राज्ञो विश्वामित्रं महामुनिम् ।
पप्रच्छ प्रांजलिर्भूत्वा विशालामुत्तमां पुरीम् ॥ 11 ॥

कतरो राजवंशोऽयं विशालायां महामुने ।
श्रोतुमिच्छामि भद्रं ते परं कौतूहलं हि मे ॥ 12 ॥

तस्य तद्वचनं श्रुत्वा रामस्य मुनिपुंगवः ।
आख्यातुं तत्समारेभे विशालस्य पुरातनम् ॥ 13 ॥

श्रूयतां राम शक्रस्य कथां कथयतश्शुभाम् ।
अस्मिन् देशे तु यद्वृत्तं तदपि शृणु राघव ॥ 14 ॥

पूर्वं कृतयुगे राम दितेः पुत्रा महाबलाः ।
अदितेश्च महाभाग वीर्यवंतस्सुधार्मिकाः ॥ 15 ॥

ततस्तेषां नरश्रेष्ठ बुद्धिरासीन्महात्मनाम् ।
अमरा अजराश्चैव कथं स्याम निरामयाः ॥ 16 ॥

तेषां चिंतयतां राम बुद्धिरासीन्महात्मनाम् ।
क्षीरोदमथनं कृत्वा रसं प्राप्स्याम तत्र वै ॥ 17 ॥

ततो निश्चित्य मथनं योक्त्रं कृत्वा च वासुकिम् ।
मंथानं मंदरं कृत्वा ममंथुरमितौजसः ॥ 18 ॥

अथ वर्षसहस्रेण योक्त्रसर्पशिरांसि च ।
वमंत्यति विषं तत्र ददंशुर्दशनैश्शिलाः ॥ 19 ॥

उत्पपाताग्निसंकाशं हालाहलमहाविषम् ।
तेन दग्धं जगत्सर्वं सदेवासुरमानुषम् ॥ 20 ॥

अथ देवा महादेवं शंकरं शरणार्थिनः ।
जग्मुः पशुपतिं रुद्रं त्राहि त्राहीति तुष्टुवुः ॥ 21 ॥

एवमुक्तस्ततो देवैर्देवदेवेश्वरः प्रभुः ।
प्रादुरासीत्ततोऽत्रैव शंखचक्रधरो हरिः ॥ 22 ॥

उवाचैनं स्मितं कृत्वा रुद्रं शूलभृतं हरिः ।
दैवतैर्मथ्यमाने तु यत्पूर्वं समुपस्थितम् ॥ 23 ॥

त्वदीयंहि सुरश्रेष्ठ सुराणामग्रजोऽसि यत् ।
अग्रपूजामिमां मत्वा गृहाणेदं विषं प्रभो ॥ 24 ॥

इत्युक्त्वा च सुरश्रेष्ठस्तत्रैवांतरधीयत ।
देवतानां भयं दृष्टवाश्रुत्वा वाक्यं तु शारंगिणः ।
हालाहलविषं घोरं स जग्राहामृतोपमम् ॥ 25 ॥

देवान्विसृज्य देवेशो जगाम भगवान् हरः ।
ततो देवासुरास्सर्वे ममंथू रघुनंदन ॥ 26 ॥

प्रविवेशाथ पातालं मंथानः पर्वतोऽनघ ।
ततो देवास्सगंधर्वास्तुष्टुवुर्मधुसूदनम् ॥ 27 ॥

त्वं गतिः सर्वभूतानां विशेषेण दिवौकसाम् ।
पालयास्मान्महाबाहो गिरिमुद्धर्तुमर्हसि ॥ 28 ॥

इति श्रुत्वा हृषीकेशः कामठं रूपमास्थितः ।
पर्वतं पृष्ठतः कृत्वा शिश्ये तत्रोदधौ हरिः ॥ 29 ॥

पर्वताग्रे तु लोकात्मा हस्तेनाक्रम्य केशवः ।
देवानां मध्यतः स्थित्वा ममंथ पुरुषोत्तमः ॥ 30 ॥

अथ वर्षसहस्रेण सदंडस्सकमंडलुः ।
पूर्वं धन्वंतरिर्नाम अप्सराश्च सुवर्चसः ॥ 31 ॥

अप्सु निर्मथनादेव रसास्तस्माद्वरस्त्रियः ।
उत्पेतुर्मनुजश्रेष्ठ तस्मादप्सरसोऽभवन् ॥ 32 ॥

षष्टिः कोट्योऽभवंस्तासां अप्सराणां सुवर्चसाम् ।
असंख्येयास्तु काकुत्स्थ यास्तासां परिचारिकाः ॥ 33 ॥

न तास्स्म परिगृह्णंति सर्वे ते देवदानवाः ।
अप्रतिग्रहणात्ताश्च सर्वास्साधारणास्स्मृताः ॥ 34 ॥

वरुणस्य ततः कन्या वारुणी रघुनंदन ।
उत्पपात महाभागा मार्गमाणा परिग्रहम् ॥ 35 ॥

दितेः पुत्रा न तां राम जगृहुर्वरुणात्मजाम् ।
अदितेस्तु सुता वीर जगृहुस्तामनिंदिताम् ॥ 36 ॥

असुरास्तेन दैतेयास्सुरास्तेनादितेस्सुताः ।
हृष्टाः प्रमुदिताश्चासन् वारुणीग्रहणात्सुराः ॥ 37 ॥

उच्चैश्श्रवा हयश्रेष्ठो मणिरत्नं च कौस्तुभम् ।
उदतिष्ठन्नरश्रेष्ठ तथैवामृतमुत्तमम् ॥ 38 ॥

अथ तस्य कृते राम महानासीत्कुलक्षयः ।
अदितेस्तु ततः पुत्रा दितेः पुत्रानसूदयन् ॥ 39 ॥

एकतोऽभ्यागमन् सर्वे ह्यसुरा राक्षसैस्सह ।
युद्धमासीन्महाघोरं वीर त्रैलोक्यमोहनम् ॥ 40 ॥

यदा क्षयं गतं सर्वं तदा विष्णुर्महाबलः ।
अमृतं सोऽहरत्त्तूर्णं मायामास्थाय मोहिनीम् ॥ 41 ॥

ये गताऽभिमुखं विष्णुमक्षयं पुरुषोत्तमम् ।
संपिष्टास्ते तदा युद्धे विष्णुना प्रभविष्णुना ॥ 42 ॥

अदितेरात्मजा वीरा दितेः पुत्रान्निजघ्निरे ।
तस्मिन् घोरे महायुद्धे दैतेयादित्ययोर्भृशम् ॥ 43 ॥

निहत्य दितिपुत्रांश्च राज्यं प्राप्य पुरंदरः ।
शशास मुदितो लोकान् सर्षिसंघान् सचारणान् ॥ 44 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे पंचचत्वारिंशस्सर्गः ॥




Browse Related Categories: