View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

1.49 बालकांड - एकोनपंचाश सर्गः

श्रीमद्वाल्मीकीय रामायणे बालकांडम् ।
अथ एकोनपंचाशस्सर्गः ।

अफलस्तु ततश्शक्रो देवानग्निपुरोगमान् ।
अब्रवीत्त्रस्तवदनस्सर्षिस्संघान् सचारणान् ॥ 1 ॥

कुर्वता तपसो विघ्नं गौतमस्य महात्मनः ।
क्रोधमुत्पाद्य हि मया सुरकार्यमिदं कृतम् ॥ 2 ॥

अफलोऽस्मि कृतस्तेन क्रोधात्सा च निराकृता ।
शापमोक्षेण महता तपोऽस्यापहृतं मया ॥ 3 ॥

तस्मात्सुरवरास्सर्वे सर्षिस्संघास्सचारणाः ।
सुरसाह्यकरं सर्वे सफलं कर्तुमर्हथ ॥ 4 ॥

शतक्रतोर्वचश्श्रुत्वा देवास्साग्निपुरोगमाः ।
पितृदेवानुपेत्याहु स्सह सर्वैर्मरुद्गणैः ॥ 5 ॥

अयं मेषस्सवृषणश्शक्रो ह्यवृषणः कृतः ।
मेषस्य वृषणौ गृह्य शक्रायाऽशु प्रयच्छथ ॥ 6 ॥

अफलस्तु कृतो मेषः परां तुष्टिं प्रदास्यति ।
भवतां हर्षणार्थाय ये च दास्यंति मानवाः ॥ 7 ॥

अग्नेस्तु वचनं श्रुत्वा पितृदेवास्समागताः ।
उत्पाट्य मेषवृषणौ सहस्राक्षे न्यवेशयन् ॥ 8 ॥

तदा प्रभृति काकुत्स्थ पितृदेवास्समागताः ।
अफलान् भुंजते मेषान् फलैस्तेषामयोजयन् ॥ 9 ॥

इंद्रस्तु मेषवृषणस्तदाप्रभृति राघव ।
गौतमस्य प्रभावेन तपसश्च महात्मनः ॥ 10 ॥

तदागच्छ महातेज आश्रमं पुण्यकर्मणः ।
तारयैनां महाभागामहल्यां देवरूपिणीम् ॥ 11 ॥

विश्वामित्रवचश्श्रुत्वा राघवस्सहलक्ष्मणः ।
विश्वामित्रं पुरस्कृत्य तमाश्रममथाविशत् ॥ 12 ॥

ददर्श च महाभागां तपसा द्योतितप्रभाम् ।
लोकैरपि समागम्य दुर्निरीक्ष्यां सुरासुरैः ॥ 13 ॥

प्रयत्नान्निर्मितां धात्रा दिव्यां मायामयीमिव ।
स तुषारावृतां साभ्रां पूर्णचंद्रप्रभामिव ॥ 14 ॥

मध्येंऽभसो दुराधर्षां दीप्तां सूर्यप्रभामिव ।
सा हि गौतमवाक्येन दुर्निरीक्ष्या बभूव ह ॥ 15 ॥

त्रयाणामपि लोकानां यावद्रामस्य दर्शनम् ।
शापस्यांतमुपागम्य तेषां दर्शनमागता ॥ 16 ॥

राघवौ तु ततस्तस्याः पादौ जगृहतुस्तदा ।
स्मरंती गौतमवचः प्रतिजग्राह सा च तौ ॥ 17 ॥

पाद्यमर्घ्यं तथाऽऽतिथ्यं चकार सुसमाहिता ।
प्रतिजग्राह काकुत्स्थो विधिदृष्टेन कर्मणा ॥ 18 ॥

पुष्पवृष्टिर्महत्यासीद्देवदुंदुभिनिस्वनैः ।
गंधर्वाप्सरसां चैव महानासीत्समागमः ॥ 19 ॥

साधु साध्विति देवास्तामहल्यां समपूजयन् ।
तपोबलविशुद्धांगी गौतमस्य वशानुगाम् ॥ 20 ॥

गौतमोऽपि महातेजा अहल्यासहितस्सुखी ।
रामं संपूज्य विधिवत्तपस्तेपे महातपाः ॥ 21 ॥

रामोऽपि परमां पूजां गौतमस्य महामुनेः ।
सकाशाद्विधिवत्प्राप्य जगाम मिथिलां ततः ॥ 22 ॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये बालकांडे एकोनपंचाशस्सर्गः ॥




Browse Related Categories: